लक्ष्मीपतेः पदाम्भोजयुगं नत्वा गुरोरपि । करिष्ये तत्वसङ्ख्यानव्याख्यानं नातिविस्तरम्

श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितम्

तत्वसङ्ख्यानम्

श्रीजयतीर्थभिक्षुविरचितया टीकया समलङ्कृतम्

टीका

मङ्गलाचरणम्

लक्ष्मीपतेः पदाम्भोजयुगं नत्वा गुरोरपि ।

करिष्ये तत्वसङ्ख्यानव्याख्यानं नातिविस्तरम् ।। १ ।।

श्री विजयीन्द्रतीर्थविरचितं भाववर्णनम्

भाववर्णनम्

लक्ष्मीपतेरिति ।। लक्ष्मीपतित्वेनोत्कीर्तनं नम्यपदाम्भोजयुगस्य भगवतो विशिष्टेष्टाधिकृतत्वसूचनाय । गुरूणाञ्च नमनरूपमङ्गलं मनसि कृत्वा शिष्यशिक्षायै ग्रन्थादावुपनिबध्नन् श्रोतबुध्यनुकूलनाय स्वचिकीर्षितं प्रतिजानीते ।। लक्ष्मीपतेरिति ।।

श्री राघवेन्द्रतीर्थविरचितः तत्वसङ्ख्यानटीकाभावदीपः

तत्वसङ्ख्यानटीकाभावदीपः

प्रणम्यागण्यकल्याणगुणं श्रीप्राणनायकम् ।

विवृणोमि यथाबोधं तत्वसङ्ख्यानपञ्चिकाम् ।। १ ।।

ग्रन्थादौ देवतागुरुनतिरूपमङ्गलमाचरंश्चिकीर्षितं प्रतिजानीते ।। लक्ष्मीपतेरिति ।। एतेन सकलवाङ्मनसदेवताया देव्या अपि भगवदुपसर्जनतया नतिरुक्ता भवति । विशिष्टविषयक्रियाया विशेषणेऽपि ‘दण्डिनमानय’ इत्यादावन्वयदर्शनात् । विद्यारम्भसमये देवतावन्दनवद्गुरुवन्दनस्यापि कर्तव्यत्वादाह ।। गुरोरपीति ।। गुरोरपि पदाम्भोजयुगं नत्वेत्यन्वयः । शिष्यमनस्समाधानायाह ।। नातिविस्तरमिति ।। न विद्यते अतिविस्तरो यस्मिन् तद्व्याख्यानं करिष्य इत्यन्वयः । ‘प्रथने वावशब्दे’ इति सूत्रे शब्दविषयविस्तृतिविवक्षायां स्तृ दातोर्घञ् न भवति, ‘‘ऋदोरप्’’ इति अप्प्रत्यय एव भवतीत्युक्त्या शब्दबाहुल्यहीनं अर्थबाहुल्योपेतमिति भावः ।

श्री यदुपत्याचार्यविरचिता तत्वसङ्ख्यानटीकाटिप्पणी

तत्वसङ्ख्यानटीकाटिप्पणी

वेदेशतीर्थगुरुमानसकञ्जसंस्थं

हंसावतंसपुरुबोधहृदम्बरस्थम् ।

व्यासं प्रणम्य करवाणि सुतत्त्वसङ्ख्या-

व्याख्याविकासमवलम्ब्य गुरुप्रसादम् ।।

इह हि परमकारुणिको जयतीर्थश्रीचरणः भगवत्पादीयातिगहनगम्भीरतत्वसङ्ख्यानं व्याकर्तुकामः प्रारिप्सितसमाप्त्यादिप्रयोजनतया शिष्टाचारपरम्परावगतां हरिगुरुप्रणतिं विधाय शिष्यशिक्षायै ग्रन्थादौ तामुपनिबध्नन् स्वव्याख्याया विद्वदुपादित्सानिमित्तशब्दबाहुल्याभावं वदन् श्रोतुबुद्ध्यनुकूल्याय चिकीर्षितं प्रतिजानीते– लक्ष्मीपतेरिति ।। नत्वेति त्वाप्रत्ययेन नमस्कारस्य ग्रन्थकरणपूर्वभावकथनात्तयोरङ्गाङ्गिभावस्सूचितो ज्ञातव्यः ।

श्री बिदरह•ी श्रीनिवासतीर्थविरचितं तत्वसङ्ख्यानविवरणम्

तत्वसङ्ख्यानविवरणम्

वन्दे सत्यवतीसूनुं सच्चिदानन्दविग्रहम् ।

श्रीमध्वमुनिसंसेव्यपादपङ्कजमन्वहम् ।। १ ।।

भजेऽहं श्रीमदानन्दतीर्थार्यान् देवसेवितान् ।

जयराजमुनींश्चापि वेदेशाभिधयोगिनः ।। २ ।।

प्रणम्य यादवाचार्यगुरूणां पादपङ्कजे ।

तत्वसङ्ख्यानसद्व्याख्याविवृतिः क्रियते मया ।। ३ ।।

इह परमकारुणिकः सर्वज्ञकल्पष्टीकाकारो जयतीर्थश्रीमच्चरणस्तत्त्वसङ्ख्यान-व्याख्याङ्कर्तुकामः स्वचिकीर्षितग्रन्थस्य निर्विघ्नेन परिसमाप्त्यादिप्रयोजनतया शिष्टाचारपरम्परावगतं स्वेष्टदेवताया आदिगुरूणां च नमनरूपमङ्गलं मनसि कृत्वा शिष्यशिक्षायै ग्रन्थादावुपनिबध्नन् श्रोतृबुध्यनुकूलनाय स्वचिकीर्षितं प्रतिजानीते ।। लक्ष्मीपतेरिति ।। लक्ष्मीपतेर्नारायणस्य सव्यदक्षिणपादयोः क्रमेणानन्दज्ञानप्रदत्वात्तदुभयप्रार्थनाय पदाम्भोजयुगमित्युक्तम् । युगं द्वयमित्यर्थः । ‘युगं तु युगलं द्वन्द्वम्’ इत्यभिधानात् । यथोक्तं बृहद्भाष्ये सुवरिति प्रतिष्ठा द्वे प्रतिष्ठे द्वे एते अक्षर’ इत्यत्र

स्वित्यानन्द समुद्दिष्टो वरिति ज्ञानमुच्यते ।

 मुक्तिदानेन तद्दानात् सुवरस्य पदद्वयम् ।

 दक्षिणश्चैव सव्यश्च’ इति ।

गुरोरित्येकवचनं समुदायापेक्षम् । गुरूणामित्यर्थः । आदिगुरवः श्रीमदानन्दतीर्थाचार्याः । परमगुरवः पद्मनाभतीर्थाः । साक्षाद्गुरवोऽक्षोभ्यतीर्थाश्च गुरुशब्देन सङ्गृहीता इति ज्ञातव्यम् । अपिशब्दः समुच्चयार्थः । पदाम्भोजयुगं नत्वेत्यस्यानुकर्षणार्थश्च । नत्वेति क्त्वाप्रत्ययेन नमस्कारस्य ग्रन्थकरणात्पूर्वभावकथनेन तयोरङ्गाङ्गिभावः सूचितो ज्ञातव्यः । नन्वस्य ग्रन्थस्य शब्दबाहुल्योपेतत्वेन विद्वदुपादित्सागोचरत्वं न स्यादित्याशङ्कापरिहारायोक्तम् ।। नातिविस्तरमिति ।। अत्यन्तविस्तरो यथा न भवति तथेत्यर्थः । ‘प्रथने वावशब्दे’ इति सूत्रात् ‘स च शब्दस्य विस्तर’ इत्यभिधानाच्च शब्दमात्रस्यैवात्र प्रपञ्चो निषिध्यते नार्थस्येति विस्तरशब्दं प्रयुञ्जानस्याभिप्रायो द्रष्टव्यः ।

श्रीसत्यधर्मतीर्थविरचितं तत्वसङ्ख्यानटिप्पणम्

तत्वसङ्ख्यानटिप्पणम्

रामं सत्यवतीसूनुं प्रणम्य श्रीगुरूनपि ।

तत्वसंख्यानटीकाया व्याख्यां कुर्वे यथामति ।।

प्रारिप्सितग्रन्थस्य निर्विघ्नपरिसमाप्त्याद्यर्थं शिष्टाचारपरम्पराप्राप्तं स्वेष्टदेवतानमनरूपं मङ्गलमाचरितं व्यवहितावहितमानसशिष्यशिक्षायै ग्रन्थादावुपग्रन्थयंश्चिकीर्षितं प्रतिजानीते ।। लक्ष्मीपतेरिति ।। करिष्य इत्युत्तमपुरुषप्रयोगादहमिति लभ्यते । अहं तत्वसङ्ख्यानव्याख्यानं करिष्य इत्यन्वयः । लक्ष्मीपतेः लक्ष्म्याः रमायाः पतिः भर्ता तस्य रमारमणस्य । पदाम्भोजयुगम् अम्भसि उदके जायेते इति ते तथा । सप्तम्यां जनेर्डः । पदे पादौ अम्भोजे इव पदाम्भोजे । तयोर्युगं युग्मं पादकमलद्वयम् । गुरोः साक्षात् अक्षोभ्यतीर्थस्य । यद्वा एकवचनं बहुवचनार्थे । अक्षोभ्यतीर्थपद्मनाभतीर्थसर्वज्ञाचार्याणाम् । यद्वा त्रिरावर्तितगुरुपदेन त्रयाणां लाभ इति मन्तव्यम् । पदाम्भोजयुगमपि नत्वा नमस्कृत्य । तत्वसङ्ख्यानव्याख्यानं तत्वसङ्ख्यानस्य तन्नामकग्रन्थस्य व्याख्यानं विवृतिम् । नातिविस्तरं अति अत्यन्तं विस्तरः शब्दप्रपञ्चो यथा न भवेत्तथेति क्रियाविशेषणम् । तथा करिष्ये इति योजना । शब्दप्रपञ्चे विवक्षिते स्तृणातेः ‘‘प्रथने वावशब्दे’’ इति घञो निषेधात् ‘‘ऋदोरप्’’ इत्यपि प्रत्यये विस्तर इति रूपम् । स च शब्दस्य विस्तर इत्यमरः । ग्रन्थारम्भसमये सकलवाङ्मनसदेवताया मङ्गलदेव्या नमनस्य मनोवृत्तेस्तत्प्रवणता हि वन्दनमिति सुधोदितस्य चित्तासक्तिरूपस्यावश्यकत्वात् तत्पृथगभिवंदनस्यातिसुष्ट्वाचारादिसापेक्षस्य विलम्बेन भगवत्प्रसादासादकत्वेनायोगाद्भगवदुपसर्जनतयैव सा वन्दनीयेति बोधयितुं लक्ष्मीपतेरित्युक्तम् । तथैव च वचो गीताभाष्ये द्वादशेऽध्याये ‘क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् । अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यत’ इति श्लोकव्याख्यावसरे ‘अव्यक्ता गतिर्दुःखं ह्यवाप्यते । गतिर्मार्गः । अव्यक्तोपासनद्वारको मत्प्राप्तिमार्गो दुःखमवाप्यत इत्यर्थः । अतिशयेनोपासनसर्वेन्द्रियातिनियमनसर्वसमबुद्धिसर्वभूतहितकरत्वाति-सुष्ट्वाचारसम्यग्विष्णुभक्त्यादिसाधनसन्दर्भमृते नाव्यक्तापरोक्षम् । तदृते च न विष्णुप्रसादः । सत्यपि तस्मिन्न सम्यग्भगवदुपासनमृते । नर्ते च तं मोक्षः । विनाऽव्यक्तोपासनं भवत्येव भगवदुपासकानां मोक्ष इति क्लेशिष्टोऽयं मार्ग’ इत्यादि । यदभियुक्तैर्बहुभिः ‘‘क्लेशोऽधिकतरस्तेषां’’ इत्याद्युदाहृत्य ‘‘पृथग्रमावंदनस्य निषिद्धत्वात्’’ इत्याद्युक्तं तत्तदसौलभ्यविवक्षयैवेति नैतद्भाष्याननुगुणमिति गुणवद्भिः सन्तोष्टव्यम् । नत्वेति क्त्वाप्रत्ययेन पूर्वकालीनत्वं नमनस्य, तथोत्तरकालिकत्वं ग्रन्थकरणस्य च बोध्यत इत्येककर्तृकयोर्नमनकरणयोः ‘‘स्नात्वा भुङ्क्त’’ इतिवदङ्गाङ्गिभावो ज्ञेयः । तत्रापि मुख्यामुख्योभयनमनस्य करणप्राग्भावोऽपि ज्ञेयः । लक्ष्मीपतित्वेन प्रथमं ग्रन्थनेन नम्यपादाम्भोजस्य भगवतो विशिष्टत्वेष्टत्वाधिकृतत्वादि सूचितमिति मन्तव्यम् ।

ननु पदाम्भोजयुगमिति कथं समासः । समर्थः पदविधिः । पदसम्बन्धी यो विधिः समासादिरूपः स समर्थाश्रितो बोध्य इति सूत्रार्थः । असमर्थभिन्नं यत्पदं तत्समर्थमित्युच्यते । असमर्थं च तत् यत्सापेक्षम् । सापेक्षमसमर्थवद् भवतीत्युक्तेः । यदितरसापेक्षं तदसमर्थमिति तदर्थः । तथा च पदे इत्युक्ते कस्य पदे इत्यपेक्षा जायते । तदर्थं लक्ष्मीपतेरिति वक्तव्यम् । एवं च पदपदस्य लक्ष्मीपतिपदसापेक्षत्वेनासमर्थत्वान्न तस्याम्भोजशब्देन समासः सम्भवतीति चेन्न । यथा पिता पुत्र इत्यादिशब्दश्रवणसमनन्तरं कस्य पिता, कस्य पुत्र इति नियमेनाकाङ्क्षा जायते । तथा पदे इत्युक्ते कस्य पदे इति स्वारसिकाकाङ्क्षायाः जायमानत्वेन अस्य ‘देवदत्तस्य गुरुकुलं, चैत्रस्य दासभार्या, शरैः शातितपत्र’ इत्यत्रेव नित्यसापेक्षत्वात्समासः साधुः । सापेक्षमित्यस्य तूत्थाप्याकाङ्क्षावद्विषयत्वान्न दोषः । यद्वा लक्ष्मीपतेः पदाम्भोजयुगमित्येकं पदम् । ‘न च निश्चितभेदस्य दर्शनेऽस्ति पुराणगम्’ इत्येतदनुव्याख्याव्याख्यानसुधायां ‘द्वितीयाभिप्रायेण तु भेदस्य दर्शन इति समासः । षष्ठ्या आक्रोश इत्यलुक् । निश्चितं परीक्षितं च तद्भेदस्य दर्शनं चेति तथोक्तम् । तत्र स्वाभिप्रायेणाक्रोशः पराभिप्रायेण निश्चितत्वमित्यविरोध’ इत्युक्तेः । एवं च तत्र यथा रामकृष्णादिरूपभेदस्य निन्दितत्वेन स्वाभिप्रायेणाक्रोशविषयत्वात् ‘षष्ठ्या आक्रोश’ इत्यनेन ‘चोरस्य कुलम्’ इत्यत्रेवालुक्समासः तथाऽत्रापि भगवतस्तदवयवानां च भेदः ‘देवदत्तस्य कम्बल’ इत्यत्रेव षष्ठ्या प्रतीतोऽप्यानन्दमयाधिकरणीय ‘‘न चावयवत्वविरोधः । नेह नानाऽस्ति किञ्चनेति श्रुतेरवयवाद्यभेदात्’ इति न्यायविवरणोदीरित ‘नेह नानाऽस्ति किञ्चने’त्यादिश्रुत्या, तथा सर्वतः पाणिपादं तदित्यादिश्लोकव्याख्यावसरे त्रयोदशाध्यायगीतातात्पर्योदाहृत ‘सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम्’ इत्यारभ्य ‘केशादिष्वपि सर्वत्र यतः पाण्यादिशक्तिमान्’ इत्यन्तप्रमाणेन, ‘स शिरः स दक्षिणः पक्ष’ इत्यादिश्रुत्या च निन्दित इत्याक्रोशविवक्षयोक्तसूत्रेणालुक्समासोपपत्तेः । पदाम्भोजमित्यनुक्त्वा युगमिति वचनेन द्वयोरपि ‘सुवरिति प्रतिष्ठे द्वे प्रतिष्ठे द्वे एते अक्षरे’ इत्येतद्बृहदारण्यकोपनिषद्भाष्ये ‘स्वित्यानन्दः समुद्दिष्टो वरिति ज्ञानमुच्यते । मुक्तिदानेन(मोक्षदानेन तज्ज्ञाना)तद्दानात्सुवरस्य पदद्वयम् । दक्षिणश्चैव सव्यश्च’ इत्यत्र भगवद्दक्षिणसव्यपादयोः क्रमेणानन्दज्ञानप्रदत्वोक्तेरानन्दादिप्रदत्वेनानन्दादिकामानां तच्चरणद्वन्द्वनमनस्य आवश्यकत्वेन तत्कर्तव्यतां द्योतयामासेति तात्पर्यं ज्ञेयम् । यथा देव इति प्रमाणाद्देवतानतिं विधाय तथा गुरावित्यंशशासितां गुरुनतिमभिनयेन दर्शयति ।। गुरोरिति ।। अपिशब्दः समुच्चये ।

श्रीपाण्डुरङ्गी केशवभट्टारकविरचिता भावचन्द्रिका

भावचन्द्रिका

लक्ष्मीपतेः पदद्वन्द्वं सम्प्रणम्य गुरोरपि ।

व्याकरिष्ये यथाबोधं तत्त्वसङ्ख्यानपञ्चिकाम् ।। १ ।।

तत्त्वसङ्ख्यानं व्याचिख्यासुः जयतीर्थाचार्यवर्यः, चीकीर्षितकर्मणो निर्विघ्नेन परिसमाप्त्यर्थं कृतमिष्टदेवतानतिरूपमङ्गलं शिष्यशिक्षायै ग्रन्थादौ उपनिबध्नन्नेव शिष्यावधानाय चिकीर्षितं प्रतिजानीते ।। लक्ष्मीपतेरिति ।

ग्रन्थारम्भे सकलवाङ्मनसदेवतया रमया युतस्यैव हरेर्नतिरुचितेति भावेन लक्ष्मीपतेरित्युक्तम् । अनेनैव भगवत एव नम्यत्वप्रयोजकं विशिष्टत्वं इष्टत्वं च सूचितं भवति । लक्ष्म्याः ब्रह्मादिपददातृत्वेन तदुत्तमत्वस्य, सकलपुरुषार्थप्रदत्वेनेष्टत्वस्य च ‘यं कामये तं तमुग्रं कृणोमि’ इत्यादिप्रमाणेन सिद्ध्या तत्पतित्वेन परमेश्वरस्य सुतरां तदुभयरूपत्वात् । पदे अम्भोज इव ते, तथोक्तम् । तयोर्युगम् । अत्र पदयोरम्भोजसाम्यमभिदधता उपलक्षणत्वेन सुकुमारत्वरूपगुणाभिधानमुखेन वन्द्यत्वप्रयोजकं विशिष्टत्वम्, ‘स्वित्यानन्दः समुद्दिष्टो वरिति ज्ञानमुच्यते । मुक्तिदानेन तद्दानात्सुवरस्य पदद्वयम् ।। दक्षिणश्चैव सव्यश्च’ इत्यन्यत्रोक्तत्वात् भगवद्दक्षिणसव्यपादयोरानन्दज्ञानप्रदत्वेन परमेष्टत्वादिष्टत्वं च सूचितं भवति । नमनस्यारब्धकर्माङ्गत्वं सूचयितुं नत्वेति ‘क्त्वा’ प्रयोगः । ‘स्नात्वा भुञ्जीत’ इत्यादौ तद्दर्शनात्, क्त्वाश्रुतेरङ्गत्वसाधकत्वस्यौत्सर्गिकत्वाच्च नातिप्रसङ्गः ।

देवतावन्दनस्येव गुरुवन्दनस्याप्यभिमतफलसाधनतया ‘यस्य देवे परा भक्तिः’ इत्यादिप्रमाणसिद्धत्वेनावश्यानुष्ठेयत्वात् देवतानतिसमनन्तरं गुरुमपि नमति ।। गुरोरपीति । अपिपदं पदाम्भोजयुगं नत्वा इत्यनुकर्षणार्थम् । ‘गुरोर्नाम न गृह्णीयात् शिष्यो भार्या पतेरपि’ इति स्मरणान्न तन्नाम जग्राह । साक्षात्परम्परासाधारणसकलगुरुसङ्ग्रहार्थं गुरोः इति सामान्येन निर्देश इति वा । करिष्ये इत्युत्तमपुरुषप्रयोगादेव स्वमात्रकत्वस्यापि लाभात् न तत्समर्पकाहम्पदाभावो दोषाय । तत्त्वं परं अपरं च सम्यक्=उद्देशतो, लक्षणतो विभागपरीक्षातश्च; ख्यायते=प्रतिपाद्यते अनेनेति तत्त्वसङ्ख्यानप्रकरणं इति । तस्य व्याख्यानं=विशिष्टसङ्गतिनिरूपणेन, अक्षरार्थकथनेन, अपेक्षितशेषपूरणेन, अभिप्रायकथनेन च विशिष्टम् इति यावत् । आख्यानम्=विवरणमिति यावत् । तत् करिष्ये इति सम्बन्धः । नातिविस्तरमिति शब्दप्रपञ्चस्यैव निषेधो नार्थप्रपञ्चस्यापीति द्रष्टव्यम् ।

श्री रोट्टि वेङ्कटभट्टोपाध्यायविरचिता पञ्चिका

पञ्चिका

रो- पदे अम्भोजे इव पदाम्भोजे, तयोर्युगम् ।

श्री काशी तिम्मण्णाचार्यविरचिता टिप्पणी

काशी टिप्पणी

जन्माद्यस्य यतः शास्त्रगम्यमन्वयतः पृथक् ।

परमं ब्रह्म विष्ण्वाख्यमधिकं तदुपास्महे ।। १ ।।

तत्वसङ्ख्यानं व्याचिख्यासुः श्रीमज्जयतीर्थमुनिः मङ्गलाचरणपुरःसरं प्रतिजानीते ।। लक्ष्मीपतेरिति ।।

अत्र सकलवाङ्मनसदेवतायाः श्रियोऽपि नतत्वलाभाय परमात्मनश्च नम्यत्वप्रयोजकविशिष्टत्वादिसूचनाय लक्ष्मीपतित्वेन तदुत्कीर्तनम् । तस्य च पररीत्या निराकारत्वशङ्कानिरासाय पदाम्भोजग्रहणम् । अस्य च गुरोरित्यनेनापि सम्बन्धार्थं लक्ष्मीपतेरिति व्यासः । एवं च पदपदस्य नित्यसापेक्षत्वात्समासः । अम्भोजपदेन पदयोः स्वात्मादेरादरातिशयः सूचितः । युगग्रहणं च तन्नतेर्ज्ञानानन्दादिविशिष्टफलकत्वज्ञापनार्थम् । यथोक्तं बृहद्भाष्ये

स्वित्यानन्दः समुद्दिष्टो वरिति ज्ञानमुच्यते ।

मुक्तिदानेन तद्दानात्सुवरस्य पदद्वयम् ।। इति ।

यद्यप्यत्र पदाम्भोजे इत्यपि सम्यक् तथापि गुरोरिति समुदायैकवचनान्तेन तदन्वयानुपपत्तिः । द्वयोः पादयोः श्रीमदाचार्यादिबहुगुरुसम्बन्धित्वाभावात् । अतः समुदायैकवचनान्तयुगपदोपादानम् । देवतानतिसमनन्तरं गुरूनपि नमति ।। गुरोरपीति ।।  पदाम्भोजयुगं नत्वा । तत्त्वानि सङ्ख्यायन्ते अत्रेति तत्वसङ्ख्यानाख्यस्य प्रकरणस्य व्याख्यानं विशिष्टार्थप्रकाशकग्रन्थम् । नत्वा करिष्ये इत्यनेन नमनव्याख्यानयोरङ्गाङ्गिभावः सूचितः ।

नन्वाचार्यवचनस्यातिबह्वर्थतया यावदर्थव्याख्याने मन्दानुपादेयत्वं, किञ्चिदर्थव्याख्याने च प्रेक्षावदुपेक्षणीयत्वं स्यादिति । अतो नातिविस्तरमिति व्याख्यानविशेषणम् । विस्तरशब्दस्य शब्दविस्तृत्यर्थतया तद्राहित्यकथनादर्थविस्तारोऽस्तीति सूच्यते । तथा चैतद्ग्रन्थस्य यथायोग्यमर्थावबोधकत्वाच्छब्दबाहुल्याभावाच्च सर्वोपादेयत्वोपपत्तिरिति भावः । नातिविस्तरमित्येतत्क्रियाविशेषणमित्यप्याहुः । अत्र गुरुदेवताप्रीतिविशेषविषयत्वरूपक्रियाफलस्यात्मगामित्वात् स्वस्यातिदयालुतया परप्रयोजनमप्यात्मगामीव मन्यमानत्वाच्च करिष्य इत्यात्मनेपदप्रयोग इति ज्ञातव्यम् ।