ते च प्राप्तान्धतमसः सृतिसंस्था इति द्विधा
प्रकारान्तरेण तमोयोग्यचेतनविभागः
टीका
चतुर्विधा अप्येते प्रत्येकं द्विधा इत्याह ।। ते चेति ।।
तत्वसङ्ख्यानम्
ते च प्राप्तान्धतमसः सृतिसंस्था इति द्विधा ।
ते च चतुर्विधा अपि । सृतिसंस्थाः संसारे वर्तमाना नाधुनापि तमः प्राप्ताः । योग्यतायाश्चैतन्यस्वभावत्वेन तमोयोग्यानामयं विभागो नानुपपन्नः ।
तत्वसङ्ख्यानटीकाभावदीपः
ननु योग्यविभागत्वं प्राप्ततमस्कानामयुक्तम् । फलप्राप्तौ योग्यताया विनाशादित्यत आह ।। योग्यताया इति ।।
तत्वसङ्ख्यानटीकाटिप्पणी
ननु तमोयोग्यतायाः सृतिसंस्थमात्रवृत्तित्वात्कथमन्धतमसम्प्राप्ता अपि तमोयोग्यमध्ये विभज्यन्त इत्यत आह– योग्यताया इति ।। चैतन्यविशेषस्य चान्धन्तमःप्राप्तिकालेऽपि सत्त्वान्नोक्तविभागानुपपत्तिरित्यर्थः ।
तत्वसङ्ख्यानविवरणम्
ननु सहकारिविरहप्रयुक्तकार्याभावरूपा योग्यता वनस्थे कोमलदण्डादौ दृष्टा । एतादृशी च योग्यता सृतिसंस्थेष्वेवास्ति । न तु प्राप्तान्धतमसेषु । तत्र सहकारिणामेव सत्त्वेन तद्विरहप्रयुक्तकार्याभावाभावात् । अतः प्राप्तान्धतमसानां कथं तमोयोग्यप्रभेदरूपत्वमित्यत आह ।। योग्यताया इति । सिद्धान्ते योग्यता शक्तिश्च चैतन्यस्वरूपमेव । तथा च चैतन्यस्वरूपमेव योग्यता न पूर्वोक्ता । यथोक्तम् । ‘‘स्वभावाख्या योग्यता या हठाख्ये’’ति । तथा च प्राप्तान्धतमसेष्वपि चैतन्यस्वरूपस्यानपायेन योग्यताया अनपायात् प्राप्तान्धतमसानामपि तमोयोग्यस्वरूपत्वं नानुपन्नमित्यर्थः ।।
तत्वसङ्ख्यानटिप्पणम्
एते दैत्यादयः । दैत्याद्याः प्रत्येकं प्राप्तान्धतमसः सृतिसंस्था इति द्विधा ज्ञेया इत्यर्थः । अवसमन्धेभ्यस्तमस इत्यजन्तस्याकारान्तत्वस्य ‘‘ध्वान्ते गाढेऽन्धतमसम्’’ इत्यमरादौ स्थितत्वात् ‘‘प्राप्तान्धतमसा’’ इति वक्तव्ये कथं विपरीतोक्तिरिति चेन्न । जानन्ति पूर्वराजानः, रथ्याद्भिर्लभ्यते, ऋक्पूरब्धूःपथामानक्षे इत्यादिनिर्देशात्, अश्वादिगणे राजञ्छब्दस्य ग्रहणेन च समासान्तविधेरनित्यत्वावेदनात्प्रकृतेऽपि समासान्ताजभावोपपत्तेः । यद्वा ‘‘प्राप्तान्धतमस’’ इति प्रथमैकवचनमेव । तमःप्राप्तानामेकसमुदायत्वेन, सृतिसंस्थानां च बहुत्वेन विवक्षितत्वेन ‘‘ते च प्राप्तान्धतमसः सृतिसंस्था इति द्विधे’’त्येकबहुवचनान्तत्वेन प्रयोगोपपत्तेः । एवञ्चोक्तसूत्रेण भवत्येव समासान्तोच्प्रत्यय इति । ननु मूले द्विधेति धाप्रत्ययार्थस्य तच्छब्दार्थेन कथमन्वयः । संख्याया विधार्थे धेति सूत्रं, सङ्ख्यावाचकद्विधाशब्दस्य योऽर्थः प्रकारस्तस्मिन्नर्थे धाप्रत्ययो भवतीति तदर्थः ।
एवं च द्विधाशब्दार्थस्य प्रकारद्वयस्य तच्छब्दार्थीभूतदैत्यादिभिस्तादात्म्याभावात्कथमेतदिति चेन्न । प्रकारवाचकस्य लक्षणया प्रकारवद्बोधकत्व सम्भवात् । यद्वा ते च प्राप्तान्धतमसः सृतिसंस्था इत्येवंरूपेण द्विधा प्रकारद्वयेन ज्ञेयाः इत्यध्याहारेण योजना । उक्तं च ‘‘सङ्ख्याया विधार्थे धे’’ति सूत्रव्याख्यावसरे तत्वसुबोधिन्यां ‘‘कथं नवद्रव्यं बहुधागुण इत्यादि । अत्राप्यश्रुतापि क्रिया प्रतीयतेऽपदिश्यत इति वा भवतीति वेति हरदत्त’’ इति । अथवा द्विधाशब्दोत्तरविद्यमानतृतीयाया वैशिष्ट्यमर्थः । एवं च इत्येवं प्रकारद्वयविशिष्टा दैत्यादय इति । एवमेव सर्वत्र धान्तस्थले ज्ञेयम् । सृतिसंस्था इत्यस्य नित्यसंसारिभ्रमं वारयति ।। संसारे वर्तमाना इति ।। ननु तमःपतितानामेव प्राप्तान्धतमसत्वात्कथं तद्योग्यविभागयोग्यता तेषामित्यत आह ।। नाधुनेति ।। चैतन्यस्वभावत्वेनेति ।। स्वभावाख्या योग्यता या हठाख्येति द्वाविंशाध्यायश्रीमन्महाभारततात्पर्यनिर्णयोक्तेरिति भावः ।
भावचन्द्रिका
सृतिसंस्थपदेन नित्यसंसारिणामुक्तत्वात्, कथं तेषां तमोयोग्यप्रभेदत्वमित्यतः ‘सृतिसंस्थाः’ इति पदं व्याचष्टे संसार इति । प्राप्स्यमानतमसः इत्यर्थः । ननु च तमोयोग्यानां ‘प्राप्तान्धतमसः सृतिसंस्थाः’ इति विभागः न युक्तः । प्राप्तान्धतमसां तमोयोग्यत्वाभावात्, फलप्राप्तिपर्यन्तत्वात् योग्यतायाः इत्यत आह योग्यताया इति । ‘स्वभावाख्या योग्यता या हठाख्या याऽनादिसिद्धा सर्वजीवेषु नित्या’ इत्युक्तेः योग्यतायाः चैतन्यस्वभावत्वात्, स्वभावस्य च अनपायाददोषः इति भावः ।।
काशी टिप्पणी
मर्त्याधमानामेव ते चेत्यनेन परामर्श इति प्रतीतिं वारयति ।। चतुर्विधा अपीति ।। नन्वेवं दैत्यादिव्यावर्तकचशब्दविरोध इत्यत आह ।। ते चेति ।। चोऽप्यर्थो न त्वर्थ इति भावः । सृतिसंस्थशब्दस्य नित्यसंसारिपरत्वभ्रमनिरासायाह ।। संसार इति ।। अविद्यानुबन्धा इत्यर्थः । ननु प्राप्ततमस्कानामपि कदाचित्संसारित्वात्साङ्कर्यमत आह ।। अधुनापीति ।। तथा चैतत्कालानुभूयमानदुःखमात्राः प्राप्ततमस्काः । तदन्यत्वविशिष्टत्वं वा एतत्कल्पीयाविद्योपलक्षितत्वं वा सृतिसंस्थत्वमतो न साङ्कर्यमिति भावः । समासान्तविधेरनित्यत्वात्प्राप्तान्धतमस इति सम्भवति । ननु प्राप्तान्धतमसानां कथं तमोयोग्यप्रभेदत्वम् । तत्प्रागभावाधिकरणत्वरूपतद्योग्यतायास्तत्प्राप्त्युत्तरमभावादित्याशङ्कां परिहरति ।। योग्यताया इति ।। द्वेषादिरूपयोग्यतायाः स्वरूपत्वेन सर्वदैव सत्त्वादिति भावः । अथाहुराचार्याः
‘‘स्वभावाख्या योग्यता या हठाख्या याऽनादिसिद्धा सर्वजीवेषु नित्या ।’’
इति ।
इति चेतनविभागः ।