मुमुक्षुणा खलु परमात्मा जगदुदयादिनिमित्तत्वेन..

ग्रन्थारम्भणीयत्वप्रयोजकविषयादिसमर्थनम्

टीका

मुमुक्षुणा खलु परमात्मा जगदुदयादिनिमित्तत्वेन अवश्यमवगन्तव्यः इति सकलसच्छास्त्राणामविप्रतिपन्नोऽर्थः । इदं च अवान्तरानेकभेदभिन्नस्य जगतो विज्ञानमपेक्षत इति जगदपि तथा अवगन्तव्यम् । तदिदं प्रधानाङ्गभूतं तत्वद्वयं शास्त्रे विक्षिप्य प्रतिपादितं शिष्यहिततया सङ्गृह्य प्रतिपादयितुं प्रकरणमिदमारभते भगवानाचार्यः ।

भाववर्णनम्

मुमुक्षुणेत्युपलक्षणम् । शमादिमतेत्यपि बोध्यम् । जगत्प्रत्युपादानत्वमसम्भवात्परमात्मनोऽनभिमतमिति सूचयितुं निमित्तत्वेनेत्युक्तम् ।

अवान्तरेति ।। अशेषजगद्वृत्तिधर्मव्याप्यानेकवैधर्म्यरूपभेदवत इत्यर्थः । एवञ्च जगतो विज्ञानान्वये भेदस्य विशेषणत्वेन वैधर्म्यप्रकारकज्ञानविषयीभूतजगदुदयादिनिमित्तत्वेन परमात्मज्ञानं मोक्षसाधनमित्यपि सूचितं भवति ।

तत्वसङ्ख्यानटीकाभावदीपः

ननु स्वव्याख्येयतत्वसङ्ख्यानस्य फलाभावात् प्रेक्षावदनुपादेय त्वमिति शङ्कावारणाय प्रयोजनमाह ।। मुमुक्षुणेति ।। ब्रह्मज्ञानादेव मुक्तिसिद्ध्या जगत्तत्वोक्तिर्व्यर्था । शास्त्रे तत्वानामुक्तत्वाच्चैतदारम्भो व्यर्थ इति । अत आह ।। मुमुक्षुणेति ।। जगदुदयादिनिमित्तत्वेनेति ।। चेतनाचेतनात्मकविश्वोत्पत्तिस्थितिलयादिकर्तृत्वेनेत्यर्थः । ‘नान्यः पन्था अयनाय विद्यते’ इत्यादिना मुक्तेरुपायान्तरस्य निषेधात् अवश्यं इत्युक्तम् । ‘तमेवं विद्वानमृतः’ इत्यादौ एवं ‘तस्माद्विराजायत’ इत्यादिनोक्तजगज्जन्मादिकर्तृत्वादिप्रकारेण विद्वानेवामृतः

सृष्टिरक्षाहृतिज्ञाननियत्यज्ञानबन्धनान् ।

मोक्षं च विष्णुतश्चैव ज्ञात्वा मुक्तिर्न चान्यथा ।।

इत्यादिवचनप्रसिद्धिद्योतनाय अवगन्तव्यः खल्वित्युक्तम् ।। सकलसच्छास्त्राणामिति ।।

ऋग्यजुस्सामाथर्वाश्च भारतं पञ्चरात्रकम् ।

मूलरामायणं चैव शास्त्रमित्यभिधीयते ।।

इत्युक्तऋगादिशास्त्राणामुक्तरूपपरमात्मज्ञानद्वारा प्राणिनां मुक्त्यर्थं प्रवृत्तत्वस्य

तेषां दुःखप्रहाणाय श्रुतिरेषा प्रवर्तते ।

इत्यादौ श्रवणात् अविप्रतिपन्नोऽर्थः इत्युक्तम् ।

अस्त्वेवं, ततः किं ? इति । अत आह ।। इदं चेति ।। उक्तरूपेण परमात्मज्ञानं चेत्यर्थः । परमात्मना क्रियमाणा जगतो जन्मादयो व्यापारा बहवः । तत्र चेतनेषु योग्यानां ज्ञानभक्त्यादिदानं, ज्ञानादिमतां मोक्षदानं, मुक्तानां सौख्यदानं, अयोग्यानां मिथ्याज्ञानद्वेषादिदानं, तद्योग्यमुक्तिदानं, दुःखभयादिदानं, मिश्राणां सुखदुःखाद्युभयदानं, जडेषु भावकार्यपदार्थानां वृद्धिक्षयादिदानं, अभावेषु प्रागभावस्य नाशदानं, ध्वंसस्य जन्मदानं, त्रैकालिकाभावस्य शश्वदेकप्रकारतादानमित्यादयः । चेतनाचेतनभावाभावाद्यवान्तरभेदोपेतनानाचेतनादिसमुदायरूपजगतो ज्ञानं विना जगदुदयादिकर्ता हरि इति ज्ञानासम्भवात् अवान्तरानेकेत्याद्युक्तम् ।। तथेति ।। अवान्तरानेकभेदभिन्नत्वेनेत्यर्थः । भगवदवतारकपिलादिकृतसाङ्ख्यतत्वविवेकपञ्चरात्रादिशास्त्रादेव अस्तु तज्ज्ञानमित्यतो वा, स्वोत्प्रेक्षितममूलमिदं तत्वसङ्ख्यानं किमर्थमुच्यते ? इत्यतो वा, विषयादिमत्त्वप्रदर्शनाय वा आह ।। तदिदमिति ।। परमात्मजगदाख्यतत्वद्वयमित्यर्थः । तथैव वाच्ये प्रधानाङ्गभूतेत्युक्तिर्द्वयोः साम्यव्युदासाय ।। सङ्गृह्य प्रतिपादयितुमिति ।। एतेनास्य शास्त्रविषयादिनैव विषयादिमत्ता सिद्धेत्युक्तं भवति । परापरतत्वे प्रधानाङ्गभावेन विषयः । तज्ज्ञानद्वारा मुक्तिः फलम् । यथायोग्यं सम्बन्ध इति ।

तत्वसङ्ख्यानटीकाटिप्पणी

नन्विदं प्रकरणमनारम्भणीयं विषयाद्यभावात् । न च परापरतत्त्वयोर्विषयता, तद्ज्ञानमोक्षयोरवान्तरमुख्यप्रयोजनता, तदर्थं तज्जिज्ञासुरधिकारी, यथायोग्यं सम्बन्धश्चेति वाच्यम् । परतत्त्वज्ञानमेव मुमुक्षुणा सम्पाद्यमिति सर्वशास्त्रार्थः । नापरतत्त्वज्ञानमपि । तथा चात्र क्रियमाणमपरतत्त्वसङ्ख्यानमपार्थमेवेत्याशङ्क्यापरतत्त्वस्याप्यवान्तरभेदभिन्नस्य मोक्षजनकपरतत्त्वज्ञानोपयोगितयाऽवश्यं मुमुक्षुणा ज्ञातव्यतयाऽपरतत्त्वसङ्ख्यानमत्र सार्थकमेवेत्याह– मुमुक्षुणेत्यादिना ।। ।। इदं चेति ।। जगदुदयादिनिमित्तत्वेन परमात्मज्ञानमित्यर्थः । अतोऽर्थशब्दस्य पुल्लिङ्गत्वात् कथमिदमित्यनेन परामर्श इति चोद्यानवकाशः । भेदभिन्नस्येत्यत्र भेदशब्दो विशेषपरः । तथा ज्ञातव्यमित्यवान्तरानेकभेदभिन्नत्वेन ज्ञातव्यमित्यर्थः । यद्वा तथाशब्द उपमायाम् । यथा परमात्माऽवगन्तव्यस्तथा जगदप्यवश्यं ज्ञातव्यमिति । ननु तत्त्वप्रतिपादनस्य शास्त्रेणैव कृतत्वात् व्यर्थमेतत्प्रकरणमित्यत आह– तदिदमिति ।। तथा च सङ्कलय्य तत्त्वनिरूपणं प्रकरणवान्तरप्रयोजनमिति भावः ।

तत्वसङ्ख्यानविवरणम्

ननु इदं प्रकरणमनारम्भणीयं विषयाद्यभावात् । न च परापरतत्वयोर्विषयता । तज्ज्ञानमोक्षयोरवान्तरमुख्यप्रयोजनता । तदर्थं तज्जिज्ञासुरधिकारी । यथायोग्यं सम्बन्धश्चेति वाच्यम् । परतत्वज्ञानमेव मुमुक्षुणा सम्पाद्यमिति सर्वशास्त्रार्थो नापरतत्वज्ञानमपि । तथा चात्र क्रियमाणमपरतत्वसङ्ख्यानं गङ्गावालुकपरिगणनवदिदमपार्थकमेवेत्याशङ्क्या-परतत्वस्याप्यवान्तरानेकभेदभिन्नस्य मोक्षजनकपरतत्वज्ञानोपयोगिज्ञानविषयतयावश्यं ज्ञातव्यत्वात्तत्सङ्ख्यानमत्र सार्थकमेवेत्याह ।। मुमुक्षुणेत्यादिना । खलुशब्दो वाक्यालङ्कारे ।। अविप्रतिपन्नोऽर्थ इति । सम्मतोऽर्थ इत्यर्थः ।। इदं चेति । जगदुदयादिनिमित्तत्वेन परमात्मज्ञानमित्यर्थः । अतोऽर्थशब्दस्य पुल्लिङ्गत्वात्कथमिदमित्यनेन परामर्श इति चोक्तानवकाशः । भेदभिन्नस्येत्यत्र भेदशब्दो विशेषपरः । तथा च अवान्तरानेकविशेषभिन्नस्य अवान्तरानेकप्रभेदवत इत्यर्थः ।। विज्ञानमपेक्षत इति । जगत एवाज्ञाने तदुदयादिनिमित्तकारणत्वेन परमात्मनो ज्ञातुमशक्यत्वादिति भावः ।। तथाऽवगन्तव्यमिति । अवान्तरानेकभेदभिन्नत्वेन ज्ञातव्यमित्यर्थः । तथाशब्द उपमायाम् । यथा परमात्माऽवश्यमवगन्तव्यस्तथा जगदपि ज्ञातव्यमित्यर्थः । ननु तत्वप्रतिपादनस्य शास्त्र एव कृतत्वाद्व्यर्थमेतत्प्रकरणमित्यत आह ।। तदिदमिति । प्रधानाङ्गभूतमिति । प्रधानभूतमङ्गभूतं चेत्यर्थः ।। विक्षिप्येति । क्रमेण एकत्र सङ्ग्रहमकृत्वेत्यर्थः ।। संगृह्येति । क्रमेणैकत्र सङ्गृह्येत्यर्थः । तथा च संकलय्य तत्वनिरूपणं प्रकरणावान्तरप्रयोजनमिति न तद्व्यर्थमिति भावः ।

तत्वसङ्ख्यानटिप्पणम्

ब्रह्ममीमांसादिशास्त्रेणैवाभीष्टसिद्धेरिदं प्रकरणं व्यर्थमित्याशङ्कां परिहरन्नुपोद्धातमाह ।। मुमुक्षुणेति ।। मुचेरिच्छायां सनि, द्वित्वे, अभ्यासे कृते हलादिशेषे च ‘‘सनाशंसभिक्ष उः’’ इत्युप्रत्यये मुमुक्षुरिति रूपम् । मोक्षापेक्षावतेत्यर्थः । परमात्मा नारायणः ।  जगदुदयादिनिमित्तत्वेन जगतो रमाब्रह्मादिचेतनाचेतनात्मकस्य प्रपञ्चस्य । उदयः वियदधिकरणव्युत्पादितन्यायेन पराधीनविशेषावाप्त्यादिरूपोत्पत्तिः । आदिशब्दघटितबहुव्रीहिणा स्थित्यादीनां सङ्ग्रहः । तद्गुणसंविज्ञानो बहुव्रीहिः । मूले प्रान्ते वक्ष्यमाणरीत्या, प्रमाणैश्च तत्र तत्र विशिष्टाष्टकस्याध्यवसायात्तदनुरोधो विनैतं बहुव्रीहिं न सम्भवतीति मन्तव्यम् । निमित्तत्वेनेत्युपादानत्वं व्यावर्तयति । अवगन्तव्यः ज्ञातव्यः । इति एतत्प्रमेयम् । सकलसच्छास्त्राणामविप्रतिपन्नोऽर्थः अविरुद्धार्थः । इदमिति अवगन्तव्येत्येतत्प्रकृत्यर्थावगमनं परामृशति । तेनार्थशब्दस्य पुल्लिङ्गत्वादयमिति परामर्शे कर्तव्ये कथमिदमिति नपुंसकलिङ्गेन परामर्श इति शङ्कानवकाशः । एतेन परापरतत्वे मुख्यामुख्यविषयौ । मोक्षः परमप्रयोजनम् । अवान्तरं परापरतत्वज्ञानम् । मुमुक्षुरधिकारी । यथायोग्यं सम्बन्ध इत्यारम्भणीयत्वप्रयोजकानुबन्धचतुष्टयमुक्तं भवति । इदं च जगदुदयादिनिमित्तत्वेन भगवज्ज्ञानं च । अवान्तरानेकभेदभिन्नस्य अवान्तराः प्रत्येकं विद्यमानाः अनेके बहवः, भिद्यन्त एभिरिति भेदाः । भिनत्तेर्बाहुलकात्करणे घञ् । भावत्वाभावत्वनित्यत्वानित्यत्वादयः । तैर्भिन्नस्य विभक्तस्य । जगतः परतन्त्रतत्वस्य विज्ञानमपेक्षते । उत्पत्त्यादेश्च भावत्वाभावत्वादिना विभक्ते जगति ज्ञातव्यतया तन्निमित्तत्वज्ञानस्य तज्ज्ञानाधीनत्वादिति भावः । इतिशब्दो हेत्वर्थे । इदं च जगतो विज्ञानमपेक्षत इति हेतोः । जगदपि तथा परमात्मवत् अवगन्तव्यम् । भावत्वाभावत्वादिनाऽवगन्तव्यमिति वा । तदिति भगवत्परामर्शः । इदमिति जगत्परामर्शः । प्रधानाङ्गभूतं मुख्यामुख्यरूपं तत्वद्वयम् । शास्त्रे वेदादौ । विक्षिप्य प्रतिपादितं तत्र तत्र प्रतिपादितम् । शिष्यहिततया शिष्येभ्यो हितमिष्टं शिष्यहितं तस्य भावः शिष्यहितता तया । वैशिष्ट्यं तृतीयार्थः । तथा च शिष्येष्टत्वविशिष्टं यत्सङ्गृह्य प्रतिपादनमिति तृतीयान्तार्थस्य प्रतिपादनलक्षणतुमन्प्रकृत्यर्थेऽन्वयः । सङ्गृह्य प्रतिपादनस्य शिष्यहितत्वात् । प्रतिपादयितुं तादृशप्रतिपादनं कर्तुम् । इदं प्रकरणमारभते भगवान् स्वोचितैश्वर्यादिषड्गुणशाली श्रीमदाचार्यः । शिष्यहिततयेत्यस्यारभत इत्यारम्भणे वाऽन्वयः ।

भावचन्द्रिका

ननु इदं प्रकरणं न व्याख्येयं, प्रेक्षावदनुपादेयत्वात्, प्रेक्षावदुपादेयस्यैव च व्याख्येयत्वात् । तदनुपादेयत्वञ्च तद्व्यापकविषयादिमत्त्वाभावसिद्धम् । न चास्य प्रकरणतया शास्त्रैकदेशसम्बद्धत्वात्, शास्त्रीयविषयादिकमेवात्र विषयादिकमिति वाच्यम् । शास्त्रस्यापि तच्छून्यत्वात् इत्यतोऽस्य प्रकरणतासिद्धये शास्त्रैकदेशसम्बन्धित्वं दर्शयितुं शास्त्रार्थं तावदनुवदति मुमुक्षुणेत्यादिना अविप्रतिपन्नोऽर्थः इत्यन्तेन । खलुशब्दो वाक्यालङ्कारे प्रसिद्धौ वा ।।

अनेन उपलक्षणत्वेन मुमुक्षुणारूपमधिकारिविशेषणमभिदधता साधनचतुष्टयसम्पन्नः शास्त्रे अधिकारी, परमात्मा विषयः, तज्ज्ञानं अवान्तरप्रयोजनम्, मोक्षश्च मुख्यप्रयोजनम्, यथायोग्यं सम्बन्ध इति शास्त्रीयमनुबन्धचतुष्टयं प्रदर्शितं भवति ।

ननु परमात्मपदेन ईश्वरस्य ज्ञातत्वात् न तस्य शास्त्रविषयत्वमित्यतः स्वरूपमात्रावगमेऽपि तन्मात्रस्य मोक्षासाधनत्वात्, जगदुदयादिनिमित्तत्वेन तदवगमस्यैतत्साधनत्वात्, मोक्षसाधनीभूतजगदुदयादिनिमित्तत्त्व-प्रकारकतज्ज्ञानस्य शास्त्रमात्रसाध्यत्वात्, युक्तं तस्य शास्त्रविषयत्वमित्याशयेनोक्तं जगदुदयादिनिमित्तत्वेनेति । अत्र जगच्छब्दो भगवद्व्यतिरिक्तसर्वपरः । उदयादीत्यादिपदेन च स्थित्यादेः सङ्ग्रहः । जगदुदयादिहेतुत्वं च ‘समासव्यासयोगतः’ इति वक्ष्यमाणप्रकरणे द्रष्टव्यम् । यद्यप्यत्र सृष्टिसंहारप्रवाहस्यानादित्वेन दर्शपूर्णमासीतिथ्योरिव प्राथम्यानिर्णयेन प्राधान्यासिद्धेः, नोदयस्यैव प्रथमं निर्देशे निमित्तमस्ति; तथापि उत्पन्नस्य नाशवत् नष्टस्योत्पत्त्यभावेन एकव्यक्त्यपेक्षयोदयादेः प्राथम्यादिसम्भवात्, तत्प्रयुक्तप्राधान्यादिविवक्षयोदयस्य प्राथम्येन निर्देश इति द्रष्टव्यम् । कारणत्वेनेति सामान्यमनभिधाय निमित्तत्वेन इति तद्विशेषनिर्देशस्तु ‘‘उपादानत्वे ब्रह्मणो निर्विकारत्वानुपपत्तिः, विवर्ताधिष्ठानत्वे तु श्रुतौ ‘‘यतो वा इमानि भूतानि जायन्ते’’ इति निर्देशः, सूत्रे जगज्जन्मादिनिर्देशश्चासङ्गतः, न हि ‘‘शुक्तिता रजतं जायते’’ इति निर्देशोऽस्ति’’ इति परपक्षनिराससूचनाय इति द्रष्टव्यम् ।

अवश्यमिति । तेन विना मोक्षाभावात् । कर्मणो मोक्षहेतुत्वेऽपि तत्त्वज्ञानद्वारैव तत्, न तु तत्त्वज्ञानसमकक्षतया इति भावेनावश्यपदप्रयोगः। सच्छास्त्राणां श्रुतितन्मीमांसादिसच्छास्त्राणामित्यर्थः । ननु यदि मोक्षार्थं जगदुदयादिनिमित्तत्वेन परमात्मज्ञानमावश्यकम्, तर्हि परतत्वमेव विषयीभूतं विविच्यतां किं शास्त्रे अपरतत्त्वनिरूपणेन ? इत्यत आह ।। इदं चेति । जगदुदयादिनिमित्तत्वेन परमात्मज्ञानमित्यर्थः । अवान्तरेति । उदयादीनां वक्ष्यमाणरीत्या प्रतिनियतत्वादिति भावः । भेदभिन्नस्येति । भिद्यन्ते एभिरिति भेदाः=असाधारणधर्माः, तैर्भिन्नस्य=भेदवत्तया प्रमितस्येत्येवार्थः । अतो न भेदशब्दस्य वैयर्थ्यमिति ध्येयम् । अपेक्षत इति । अननुसंहितोपाधेरुपहितप्रत्ययायोगादिति भावः । तथेति । अवान्तरानेकभेदभिन्नत्वेनेत्यर्थः । अतः शास्त्रे जगन्निरूपणमप्यावश्यकमिति भावः । नन्वेवं शास्त्रादेव परापरतत्त्वप्रतिपत्तिसम्भवेन किमपूर्वप्रकरणनिर्माणेन? इत्यत उक्तं तदिदमिति । शास्त्रे तत्त्वद्वयस्य प्रतिपादितत्वेऽपि विक्षिप्य प्रतिपादितत्वात्सङ्गृह्य प्रतिपादनार्थमपूर्वनिर्माणमावश्यकमेवेति भावः ।

नन्वेवं परापरतत्त्वप्रतिपादकस्य शास्त्रस्यार्थैकत्वाभावात् कथं तन्निबन्धने स्वस्मिन्नेकवाक्यत्वम् ? इत्यतः उभयप्रतिपादकत्वेऽपि साम्येन तदभावात्, साम्येनोभयप्रतिपादकत्वस्यैव वाक्यभेदापादकत्वात्, युक्तमेकवाक्यत्वं शास्त्रस्य इत्याशयेनोक्तं प्रधानेत्यादि । एकं प्रधानत्वेन, अपरं च तदङ्गत्वेनेत्यर्थः ।

अनन्तानां तत्त्वानां सङ्ग्रह एवाशक्य इत्यतोऽनन्तानामपि प्रधानत्वतदङ्गत्वरूपधर्मद्वयावच्छिन्नत्वात्तेन रूपेण संग्रहो युक्त इति भावेन प्रधानेत्याद्युक्तमित्यप्याहुः । प्रकरणमिति । सर्वत्र प्रकरणस्य शास्त्रीयाधिकार्यादिनाऽधिकार्यादिमत्त्वमन्यथा प्रकरणमात्रस्यैवानारम्भणीयत्व-प्रसङ्गादिति भावः ।

प्रतिपादनफलीभूतायाः प्रतिपत्तेः विक्षिप्य प्रतिपादनेऽप्यविशिष्टत्वात् किं तत्संगृह्य प्रतिपादनेनेत्यत उक्तं शिष्येति । अनेनैव बालबोधनमवान्तरप्रयोजनं प्रकरणत्वसिद्ध्यङ्गं च दर्शितं भवति ।।

काशी टिप्पणी

नन्विदं प्रकरणमनारम्भणीयं विषयाद्यभावात् । न च तत्वान्येव विषयः तेषां शास्त्रनिर्णीतत्वात् । अनिर्णीतस्य च विषयत्वात् । अत एवास्य न प्रयोजनादिकमपि । तथा च नेदं व्याख्येयमित्याशङ्कां परिजिहीर्षुरेतत्प्रकरणस्य विषयादिमत्वं तावत्समर्थयते । मुमुक्षुणेत्यादिना आचार्य इत्यन्तेन ।। मुमुक्षुणेत्युपलक्षणम् । शमादिमतेत्यपि ग्राह्यम् । मोक्षस्य मुख्यप्रयोजनत्वलाभाय मुमुक्षुग्रहणम् । खलुशब्दः प्रसिद्ध्यर्थः । जगतो भावाभावाद्यनेकविधपरतन्त्रप्रपञ्चस्य । यथासम्भवमुत्पत्तिस्थितिलयनियमनादिनिमित्तत्वेन । न तु तदुपादानत्वेन । अवश्यमवगन्तव्यतद्विज्ञानमेव मोक्षहेतुः, न तु कर्मादीति यावत् । अस्यार्थस्य दुःशास्त्रविप्रतिपन्नत्वात् सदिति । इदं च उक्तप्रकारेण परमात्मावगमनं च । अवान्तरानेकभावाभावप्रभेदैर्गृहीतभेदस्य जगतोऽवधारणमपेक्षत इत्यर्थः । यद्यपि सामान्यतो जगदुदयादिनिमित्तत्वज्ञाने नावान्तरज्ञानापेक्षा । तथापि सर्वेषामेकविधोत्पत्याद्यभावाद्धक्ष्यमाणरीत्या यथा सम्भवमुद्भवादिनिमित्तत्वेन विशिष्यैव हरेरवगन्तव्यत्वात् जगदपि अवान्तरानेकभेदवत्त्वेनावश्यमवगन्तव्यम् । तदिदं उक्तप्रकारेणावगन्तव्यं निरूप्यत्वेन बुद्धिसन्निहितं च तत्वद्वयम् । वेदतन्मीमांसादौ विक्षिप्य निरूपितं, शिष्येष्टत्वेनैकीकृत्य निरूपयितुं शिष्याणामपेक्षितम् । उक्तविधतत्वगोचरैकाकारज्ञानमुत्पादयितुमिति यावत् ।

नन्वेवमर्थैक्याभावादेकप्रकरणत्वानुपपत्तिरतः प्रधानाङ्गभूतमित्युक्तम् । प्रधानाङ्गभूतार्थस्यैकत्वादेकप्रकरणत्वमिति भावः । प्राधान्यं च अन्यजिज्ञासानधीनजिज्ञासाविषयत्वं साक्षान्मुख्यप्रयोजनसाधनत्वं वा । तदङ्गत्वं च तज्जिज्ञासाधीनजिज्ञासाविषयत्वं तद्द्वारा मुख्यप्रयोजनहेतुत्वं वा । अपरतत्वं हि साक्षान्मोक्षहेतुपरतत्वजिज्ञासया जिज्ञास्यते न परतत्वमन्यजिज्ञासयेति तयोरङ्गप्रधानभावः । भगवानित्याचार्यस्यैवैतादृशप्रकरणनिर्माणशक्तिरस्तीति सूचयति ।

अयमाशयः, न तावन्निर्विषयमिदं प्रकरणम् । शास्त्रे विक्षिप्य प्रतिपादितयावदर्थधारणासमर्थानां तत्र तत्राज्ञानसंशयादिसम्भवेन तान् प्रति तत्वानां विषयत्वोपपत्तेः । नापि निष्प्रयोजनं मोक्षसाधनशास्त्राधीनपरतत्वावधारणस्य अनायासेन सम्पादनरूपप्रयोजनवत्वात् । अत एवाधिकार्यादिसम्भवादारम्भणीयम् । ततश्च गहनार्थत्वाद्व्याख्येयम् । यद्यपि तत्वविवेके विक्षिप्तसङ्ग्रहः कृतस्तथापि अस्य तद्व्याख्यानरूपत्वान्न वैयर्थ्यम् । यथा परतन्त्रं इत्यादेः अस्वतन्त्रं इत्यादि व्याख्यानमिति ।