एके ब्रुवते, संसर्गाभावोऽन्योन्याभावश्चेति द्विविध एवाभाव इति
अभावविभागे मतान्तरद्वयम्, तन्निरासश्च
टीका
एके ब्रुवते, संसर्गाभावोऽन्योन्याभावश्चेति द्विविध एवाभाव इति । अन्ये तु प्राक्प्रध्वंसात्यन्तान्योन्याभावात्मा चतुर्विध इति । तदुभयं निराकर्तुमिष्यते इत्युक्तम् । अन्योन्याभावो हि भेद एव । स च स्वरूपमेवेत्यन्यत्रोपपादितम् । कार्यकारणयोः संसर्गस्यान्यत्र निराकृतत्वेन प्रागभावप्रध्वंसाभावयोः संसर्गाभावत्वानुपपत्तेश्चेति ।
तत्वसङ्ख्यानटीकाभावदीपः
।। द्विविध एवेति ।। संसर्गाभावोऽपि प्रागभावादिभेदेन त्रिविध इत्यपि ध्येयम् ।। अन्यत्रेति ।। तत्वविवेकादौ ।
भावाभावस्वरूपत्वान्नान्योन्याभावता पृथक् ।
इत्यादिनेति भावः । प्रागभावादेस्संसर्गाभावत्वं वदतां मतं निराह ।। कार्येति ।। तन्तुपटयोस्संसर्गप्रतियोगिकः प्राचीनः प्रागभावः । उदीचीनः प्रध्वंसः । उभावपि तन्त्वादिसमवायिकारणनिष्ठतया प्रतियोगिना समानदेशौ भिन्नकालीनाविति मतमयुक्तम् । उपादानोपादेययोरभेदप्रतिपादनेन संसर्गस्य अन्यत्र तत्वविवेकादौ निरस्तत्वेनेत्यर्थः ।
तत्वसङ्ख्यानटीकाटिप्पणी
द्विविध एवाभाव इति ।। संसर्गाभावोऽपि प्रागभावादिभेदेन त्रिविध इत्यपि ग्राह्यम् । चतुर्विध इति ।। तन्मते प्रागभावत्वादिकमभावविभाज- कोपाधिरेव न संसर्गाभावविभाजकोपधिरिति द्रष्टव्यम् । कार्यकारणयोरिति ।। उपादानोपादेययोरित्यर्थः । संसर्गस्य सम्बन्ध्यतिरिक्तस्य समवायाभिधानस्येत्यर्थः । इदमुक्तं भवति । संसर्गाभावत्वं किं संसर्गप्रतियोगिकाभावत्वं, संसर्गारोपपूर्वकप्रमितिविषयाभावत्वं वा । नाद्यः । सति ह्युपादानोपादेययोः संसर्गे उपादाने पूर्वकालसम्बन्धः । तत्संसर्गप्रतियोगिकाभावः प्रागभावः । तथोत्तरकालसम्बद्धः ध्वंस इति स्यात् । न चैवम् । तयोरभेदाङ्गीकारेण संसर्गस्यैवाभावात् । प्रागभावादीनां घटप्रतियोगिकतयैवोपलम्भेन संसर्गप्रतियोगित्वस्य त्वयाऽनङ्गीकाराच्च । न द्वितीयः । मृत्पिण्डे किं घटसंसर्गः यः कश्चिदारोप्यते उत समवायः । नाद्यः । संसर्गसामान्यस्य तत्र सत्त्वेनारोपासम्भवात् । न द्वितीयः । समवायस्यान्यत्र निरस्तत्वादिति ।
तत्वसङ्ख्यानविवरणम्
द्विविध एवेति । एतन्मते संसर्गाभावत्वादिकं तु संसर्गाभावविभाजकोपाधिरिति द्रष्टव्यम् ।। चतुर्विध इति । एतन्मते प्रागभावत्वादिकमभावविभाजकोपाधिरेव न संसर्गाभावविभाजकोपाधिरिति ज्ञातव्यम् । भावाभावस्वरूपत्वान्नान्योन्याभावता पृथगित्युक्तत्वेन पक्षद्वयेऽप्यन्योन्याभावस्य भावप्रभेदरूपत्वादित्याह ।। अन्योन्याभावो हीति ।। अन्यत्रेति । तत्वनिर्णयादावित्यर्थः । मतद्वयेऽपि प्रागभावप्रध्वंसाभावयोरपि संसर्गाभावत्वं नास्तीत्याह ।। कार्यकारणयोरिति । उपादानोपादेययोरित्यर्थः ।। संसर्गस्येति । सम्बन्ध्यतिरिक्तस्य समवायरूपस्य संसर्गस्येत्यर्थः । इदमुक्तं भवति । संसर्गाभावत्वं नाम संसर्गप्रतियोगिकाभावत्वं वा । संसर्गारोप पूर्वक प्रतीतिविषयाभावत्वं वा ? नाद्यः । सति हि उपादानोपादेययोः संसर्गे उपादाने पूर्वकालसम्बन्धः । उपादेयसंसर्गप्रतियोगिकोऽभावः प्रागभावः । तथोत्तरकालसम्बद्ध उपादेयसंसर्गप्रतियोगिकोऽभावः प्रध्वंस इति स्यात् । न चैवम् । उपादानोपादेययोरभेदाङ्गीकारेण संसर्गस्यैवाभावात् । प्रागभावादीनां घटप्रतियोगिकत्वोपलम्भेन संसर्गप्रतियोगिकत्वस्य त्वयानङ्गीकाराच्च । न द्वितीयः । मृत्पिण्डे घटसंसर्गो यः कश्चिदारोप्यते उत समवायः । नाद्यः । संसर्गसामान्यस्य सत्त्वेन आरोपासम्भवात् । न द्वितीयः । समवायस्याप्यन्यत्र निराकृतत्वादिति ।
तत्वसङ्ख्यानटिप्पणम्
इष्यत इत्यस्य निराकार्यपरमतव्युत्पादनेन साफल्यं सम्पादयितुमवतारयति ।। एक इति ।। संसर्गाभावोऽन्योन्याभावश्चेति द्विविधाभाव इति वैशेषिकभाषितं साक्षादभावविवक्षया । संसर्गाभावीयत्रिरूप्यान्योन्याभावेनैकेनाधिकेन च सह चातुर्विध्यमिति ध्येयम् । प्रागभावत्वादिकं तु संसर्गाभावान्तरालिकोपाधिरिति च । अपरे त्वक्षचरणानुसारिणः प्राक्प्रध्वंसात्यन्ताभावान्योन्याभावाश्चेति चत्वार इति जगदुः । अत्राभावविभाजकोपाधिः प्रागभावत्वादिरेवेति पक्षद्वयेऽप्यभावचतुष्कताऽऽविष्कृता भवतीति वेदितव्यम् । इष्यते प्रामाणिकैरिति शेषः । तदप्रामाणिकत्वस्थेम्ने दूषणप्रकारमाकारयति ।। अन्योन्याभावो हीति ।। यतोऽन्योन्याभावो भेदः स च धर्मिस्वरूप एव । अन्यत्र तत्वनिर्णयादौ । तथा च तस्य पृथक्त्वेन वचनमनुचितमिति भावः । मतद्वयेऽपि दूषणान्तरमाह ।। कार्यकारणयोरिति ।। उपादानोपादेययोरित्यर्थः । संसर्गः सम्बन्धिभिन्नः समवायरूपः । तस्य अन्यत्र ‘‘समवायाभ्युपगमाच्च साम्यादनवस्थिते’’रित्यादिसूत्रभाष्यादौ ।
इदमत्राकूतम् । संसर्गाभावत्वं संसर्गप्रतियोगिकाभावत्वं वा संसर्गारोपपूर्वक प्रतीतिविषयाभावत्वं वा । न प्रथमः । उपादानोपादेययोः संसर्गे सत्युपादाने प्राक्कालसम्बन्धस्तत्संसर्गप्रतियोगिकोऽभावः प्रागभावस्तथोत्तर सम्बन्धो ध्वंस इति च स्यात् । तयोरभेदाङ्गीकारात्संसर्गस्यैवाभावान्मैवमङ्गीकर्तुं शक्यम् । प्रागभावादीनां घटादिप्रतियोगिकतयैवोपलम्भेन संसर्गप्रतियोगिकत्वस्य त्वयाप्यनङ्गीकाराच्च । न द्वितीयः । मृत्पिण्डे यः कश्चिद्धटसंसर्ग आरोप्यत उत समवायः । नाद्यः । विरोधिनः संसर्गसामान्यस्य सत्त्वेनारोपो दुरुपपादः । न द्वितीयः । समवायस्यानङ्गीकारपराहतत्वात् । विस्तरस्त्वदृश्यत्वाधिकरणसुधातोऽवगन्तव्यः ।
भावचन्द्रिका
उक्तरीत्या प्रागभावप्रध्वंसाभावसदाभावेषु अन्तर्भावात् न संसर्गाभावस्य चतुर्थत्वमित्याशयः ।
अन्यत्रेति । ‘भावाभावस्वरूपत्वान्नान्योन्याभावता पृथक् ।’ इत्यादिना तत्त्वविवेकादौ इत्यर्थः । तस्मात् न तमादाय द्वैविध्यं चातुर्विध्यं वा युक्तमिति भावः ।।
कार्यकारणयोरिति । उपादानोपादेययोः इत्यर्थः ।। संसर्गस्येति । समवायरूपस्य इत्यर्थः ।। सति हि उपादानोपादेययोः संसर्गे तत्संसर्गप्रतियोगिकत्वाद्वा तत्संसर्गावच्छिन्नप्रतियोगिकत्वाद्वा प्रागभावप्रध्वंसयोः संसर्गाभावत्वं वाच्यम् । उपादानोपादेययोरभेदे तत्संसर्गस्यैवाभावे तु न तयोः संसर्गाभावत्वमिति भावः ।।
(वें.टि.) तदुभयमिति ।। मतद्वयेऽपि अभावचतुष्टयसाम्येऽपि वैशेषिकपरिभाषितं साक्षादभावविभाजकोपाधिद्वित्वं अक्षपादपक्षलक्षीकृतं तादृशोपधिचतुष्ट्वमभिप्रेत्योभयमित्युक्तमिति ज्ञेयम् ।। कार्येति ।। सति दानोपादेययोः संसर्गे तत्संसर्गप्रतियोगिकत्वात् संसर्गावच्छिन्नप्रतियोगिकत्वाद्वा प्रागभावप्रध्वंसयोः संसर्गाभावत्वं स्यात्, स एव नास्तीति भावः । प्रामाणिकसंसर्गप्रतियोगिकस्याभावस्य नात्यन्ताभावत्वमित्युक्तम् । अत्यन्तासत्प्रतियोगिकस्यत्वत्यन्ताभावस्य न संसर्गप्रतियोगिकत्वमिति, उभयथापि नात्यन्ताभावस्य संसर्गाभावत्वमिति वा उक्तार्थतात्पर्यम् ।
काशी टिप्पणी
पक्षान्तरनिरासार्थत्वेन इष्यते इति मूलमावतारयितुमाह ।। एक इति ।। प्रागभावादेरन्यविधत्वव्यवच्छेदाय द्विविध एवेत्येवकारः । प्रागभावादित्रयस्यैव संसर्गाभावत्वादिति भावः । अथ भूतले संयोगेन घटो नास्तीति प्रतीतेरत्यन्ताभावस्य संसर्गाभावत्वमस्तु । ध्वंसप्रागभावयोस्तु कथम् । ध्वस्तो भविष्यतीति प्रतीत्योः संसर्गानुल्लेखादिति चेदुच्यते । अस्ति तावदिदानीं कपाले समवायेन घटो नास्तीति प्रतीतिः । तद्विषयस्तु नात्यन्ताभावः । प्रतियोगिध्वंसप्रागभावाधिकरणे तदनङ्गीकारात् । किं तु ध्वंसादिरेव तथा । तथा च घटादेः समवायेन ध्वंसादिप्रतियोगित्वे समवायस्यापि तथात्वम् । न चैवं समवायस्यानित्यत्वापत्तिः । प्रतियोगितावच्छेदकघटकतया प्रतियोगित्वेऽपि साक्षादतथात्वेन दोषाभावादित्याशयः ।। अपरे त्वित्विति ।। एतन्मते ध्वंसप्रागभावयोर्न संसर्गाभावत्वम् । ध्वंसादिकालावच्छेदेन घटात्यन्ताभावस्वीकारेणोक्तप्रतीतिनिर्वाहादिति ध्येयम् । मतद्वयसिद्धमन्योन्याभवस्य पार्थक्यमादौ दूषयति ।। अन्योन्येति ।। यद्यप्यन्योन्याभावः स्वरूपमेवेत्येव वक्तुमुचितम् ।
भावाभावस्वरूपत्वान्नान्योन्याभावता पृथक् ।
इति तत्वविवेके तथैवोपपादितत्वात् । तथापि
स्वरूपं वस्तुनो भेदो यन्न तस्य ग्रहेऽग्रहः ।
इत्यनुव्याख्यानाद्युक्तयुक्तिसूचनार्थमन्योन्याभावो हि भेद एवेत्युक्तम् । यद्वा अन्योन्याभावशब्देन घटपटादीनामन्योन्यसंसर्गाभावपरिग्रहनिरासाय तथोक्तमित्यवगन्तव्यम् । प्रथमपक्षे दोषान्तरमाह ।। कार्यकारणयोरिति ।। उपादेयोपादानयोरभेदेन समवायसम्बन्धस्य तत्वविवेकादौ नितस्तत्वेनेत्यर्थः । कपाले समवायेन घटो नास्तीति प्रतीतिस्त्वासिद्धैवेति भावः । इदमुपलक्षणम् । अत्यन्ताभावस्यापि निष्प्रतियोगिकत्वेन संसर्गाभावत्वानुपपत्तेरित्यपि द्रष्टव्यम् ।। इत्यभावनिरूपणम् ।