चेतनाचेतनत्वेन भावोऽपि द्विविधो मतः

भावविभागः

टीका

भावं विभज्य दर्शयति ।। चेतनेति ।।

तत्वसङ्ख्यानम्

चेतनाचेतनत्वेन भावोऽपि द्विविधो मतः ।। २ ।।

न केवलमभावो भेदवान् । किन्तु भावोऽपीत्यपिशब्दः ।

चेतनाचेतनलक्षणम्

चेतयतीति चेतनः । अनेवंविधोऽचेतनः । तेन विष्णोश्चेतनत्वमभावस्याचेतनत्वं च ज्ञातव्यम् । सर्वमचेतनञ्चेतनार्थमिति चेतनस्य प्राधान्यात्पूर्वमुद्देशः ।

सर्वचैतन्यवादनिरासः

मृदब्रवीदित्यादिवचनात्सर्वं चेतनमेवेति मतनिरासाय मत इत्युक्तम् । तच्चाभिमान्यधिकरणे निरस्तम् । चेतनादिविभागस्य नित्यादिविभागादभ्यर्हितत्वात्स एवादावुदाहृतः ।

तत्वसङ्ख्यानटीकाभावदीपः

।। चेतयतीति ।। स्वार्थे णिच् । चिती संज्ञाने । चेतते सम्यग्जानातीति बहुलग्रहणात्कर्तरि ल्युट् । यद्वा हेतुमत्येव णिच् । परान् बोधयतीत्यर्थः । चिती संज्ञान इत्यतो ण्यन्तात् ‘ण्यासश्रन्थो युज्’ इति ण्यन्तात्स्त्रियां युच्प्रत्यये अनादेशे णेरनिटीति णिलोपे चेतनेति रूपम् । अर्श आद्यच्प्रत्यये चेतना संज्ञा तद्वांश्चेतन इति रूपमिति भावः । अनेवंविधो ज्ञानहीन इत्यर्थः ।। तेनेति ।। एवं निर्वचनेनेत्यर्थः ।। चेतनार्थमिति ।। तददृष्टजत्वादिति भावः । अथातो विभूतयोऽस्य पूरुषस्येत्युक्तदिशा भगवद्भोगार्थत्वाद्वेति भावः ।। अभिमान्यधिकरण इति ।। अभिमानिव्यपदेशस्तु विशेषानुगतिभ्यामिति युक्तिपादीयतृतीयाधिकरणे मृदब्रवीत् आपोऽब्रुवन् तत्तेज एक्षत, ओषधयस्संवदन्त, इत्यादिवाक्यमप्रमाणम् । मृदादिकं न वक्तृत्वादिमत् जडत्वान्मृत्वादिति युक्तिविरुद्धत्वादिति प्राप्ते’ निर्दोषवेदवाक्यस्य निरवकाशयुक्तेश्चाप्रामाण्यायोगात् प्रमाणभूतोभयान्यथानुपपत्त्या मृदादिशब्दानां तदभिमानिचेतनपरत्वस्यावश्यं कल्प्यत्वादित्युक्तत्वान्न मृदादिजडस्यैव वक्तृत्वादिना चेतनत्वं कल्प्यमिति निरस्तमित्यर्थः ।। अभ्यर्हितत्वादिति ।। नित्यानित्यविभागेनेति वक्ष्यमाणविभागस्याचेतनविषयत्वाच्चेतनस्योक्तदिशा प्राधान्याद्वा मोक्षोपयोगत्वाद्वा अभ्यर्हितत्वमिति भावः ।

तत्वसङ्ख्यानटीकाटिप्पणी

ननु भावोऽपि इत्यपिशब्दः नाभावद्वित्वसमुच्चायार्थः । अभावत्रित्वस्योक्तत्वात् । इत्यतोऽवान्तरभेदवत्तामात्रसमुच्चायकोऽयमपिशब्द इत्याशयेनाह– न केवलमिति ।। न्यूनतां परिहरन् संज्ञानिरुक्त्यैव लक्षणे लब्धे इत्याह– चेतयति इत्यादिना ।। जानातीत्यर्थः । ज्ञानाधिकरणत्वमिति यावत् । तेनेति ।। चेतनाचेतनलक्षणाक्रान्तत्वेनेत्यर्थः । अन्यथा चेतनशब्दस्य जीवेषु प्रसिद्धत्वेनाचेतनशब्दस्य घटादिभाव एव प्रसिद्धत्वेन विष्ण्वभावयोः चेतनाचेतनत्वे न स्यातामिति भावः । चेतनार्थं चेतनोद्देश्य । तच्चेति ।। ‘अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम्’ इत्यधिकरणे मृदादिशब्दानां तदभिमानिदेवतावाचित्वसमर्थनेन निरस्तमित्यर्थः । अभ्यर्हितत्वादिति ।। इतरस्य सर्वस्य चेतनोद्देश्यकत्वादिति भावः ।

तत्वसङ्ख्यानविवरणम्

अभावे त्रित्वस्योक्तत्वादित्यतोऽवान्तरभेदवत्तामात्रसमुच्चायकोऽयमपिशब्द इत्याशयेनाह ।। न केवलमिति । ननु चेतनाचेतनयोर्लक्षणाकथनान्न्यूनतेत्याशङ्कां परिहरन् संज्ञानिरुक्तयैव लक्षणे लब्धे इत्याह ।। चेतयतीत्यादिना । जानातीत्यर्थः । ज्ञानाधिकरणमिति यावत् ।। अनेवंविध इति । न जानातीत्यचेतनः । ज्ञानानधिकरणमिति यावत् ।

ननु चेतनशब्दः ‘‘प्राणी तु चेतनो जन्मी जन्तुजन्यशरीरिण’’ इत्यभिधानबलात् जीव एव प्रसिद्धः । तथा च विष्णोश्चेतनत्वं न स्यात् । तथाऽचेतनशब्दो घटादिभावपदार्थ एव प्रसिद्धः । तथा चाभावस्याचेतनत्वं न स्यादित्याशङ्कां परिहरन्नाह ।। तेनेति । चेतनलक्षणाक्रान्तत्वेनेत्यर्थः । तथा चेतनाचेतनशब्दयोर्यौगिकत्वेन विष्ण्वभावयोश्चेतनाचेतनत्वे नानुपपन्ने इति भावः । चेतनस्य पूर्वमुद्देशे निमित्तमाह ।। सर्वमचेतनमिति । धनधान्यघटादिकमित्यर्थः ।। चेतनार्थमिति । चेतनोद्देश्यकमित्यर्थः ।। मृदब्रवीदित्यादीति । मृदब्रवीदापोऽब्रुवन्नोषधयः संवदन्त इत्यादिवचनादित्यर्थः ।। सर्वमिति । मृन्न वक्त्री जडत्वादित्यनुमानविरुद्धत्वेनाचेतने मृदादौ वचनक्रियायोगात् तदन्यथानुपपत्त्या मृदादिकं सर्वं चेतनमित्यर्थः ।। तच्चेति । अभिमानिव्यपदेशस्तु विशेषानुगतिभ्यामित्यधिकरणे मृदादिशब्दानां तदभिमानिदेवतावाचित्वसमर्थनेन तन्मतं निरस्तमित्यर्थः । ननु नित्यानित्यादिभेदेनाचेतनविभागमादावकृत्वा चेतनविभाग एवादौ कस्मादुत्तरग्रन्थे क्रियत इत्यत आह ।। चेतनादीति । चेतनविभागस्य आदिपदेन चेतनप्रभेददुःखस्पृष्टादिविभागस्येत्यर्थः । नित्यादीत्यादिपदेन अनित्यादिग्रहणम् । तथा च नित्यमनित्यं नित्यानित्यमेवमचेतनविभागादित्यर्थः ।। अभ्यर्हितत्वादिति । सर्वमचेतनं चेतनोद्देश्यकमिति चेतनस्य प्राधान्यादित्यर्थः ।। उदाहृत इति । दुःखस्पृष्टमित्याद्युत्तरग्रन्थेनेति शेषः ।

तत्वसङ्ख्यानटिप्पणम्

ननु ‘‘भावोऽपी’’त्यत्रत्यापिशब्दस्याभावेऽपि द्वित्वसमुच्चायकत्वम् ‘‘प्राक्प्रध्वंससदात्वेने’’त्यादिकेन विरुद्धम् । नेतः समुच्चेयान्तरमस्ति । अतो वैयर्थ्यापरपर्यायवाक्यालङ्कारताङ्गीकार एव शरणमित्यतः भावीयचेतनाचेतनत्वरूपावान्तरविभागस्य तत्समुच्चेयस्य सत्त्वान्न व्यर्थोऽपिरित्याह ।। न केवलमिति ।। शब्द्यते कथ्यत इति शब्दशब्दोऽर्थपरः । शब्द उपसर्गादाविष्कारे च अनुपसर्गाच्चेति चुरादिशब्दधातोः कर्मणि घञ् । ततश्चापेः शब्दोऽपेरर्थ इत्यर्थः ।

तेन ‘‘किन्तु भावोऽपीत्यपिशब्द’’ इति टीकानन्वयशङ्का पराकृता ज्ञेया । इतीत्यस्येत्यर्थ इति विवक्षणाद्वा समाधिर्बोध्यः । ननु परतन्त्रावान्तरभेदस्य भावस्य चेतनाचेतनरूपावान्तरभेदवत्त्वे भगवतोऽभावस्य च चेतनाचेतनत्वे क्रमान्नोक्ते स्याताम् । न च तयोर्न स्त एव ते इति वाच्यम् । तथा सति ‘‘चेतनश्चेतनाना’’मित्याद्यागमेन, अभावीयाचेतनत्वग्राहकप्रत्यक्षेण च विरोधापत्तेः । ज्ञापकाभावेऽप्यङ्गीकारे विष्णोरभावस्य चाचेतनत्वं चेतनत्वं च किं न स्यादित्यतः अस्य मूलस्यान्यनिषेधपरत्वाभावेन भावश्चेतनोऽचेतनश्चेति द्विविधः । न पुनरेकविधो नापि त्रिविध इत्येवंपरत्वाद्भगवदभावादीनां चेतनाचेतनत्वादिकं वक्तुं शक्यत इत्याह ।। चेतयतीतीति ।। एतेन चेतनशब्दस्य ‘‘प्राणी तु चेतनो जन्मी’’त्याद्यभिधानेषु जीवे रूढत्वात्कथमनेन मूलेन भगवतश्चेतनत्वसिद्धिरिति निरस्तम् । उक्तरीत्या तस्य यौगिकत्वात् । एतेनैव च चेतनाचेतनयोर्लक्षणाकथनप्रयुक्तन्यूनताऽपि निरस्तेति बोध्यम् । चिती संविज्ञान इत्यस्मान्नन्द्यादिल्यौ, ‘‘युवोरनाका’’वित्यनेनाने च, चेतनेति भवति । ज्ञातृत्वं चेतनत्वमित्युक्तम् भवति ।

क्रमप्राप्तमचेतनलक्षणमाह ।। अनेवंविध इति ।। अज्ञातेत्यर्थः । यदर्थं विग्रहप्रदर्शनं तदाह ।। तेनेति ।। विष्णोः भगवतः । चेतनत्वं अजीवत्वेऽपि ज्ञातृत्वम् । अभावस्याज्ञातृत्वरूपमचेतनत्वं ज्ञेयम् । अतो न न्यूनतेति भावः । चेतनस्यादौ निर्देशे निमित्तकथनपर ‘‘सर्व’’मिति वाक्यस्यावतारिका तु भावप्राथम्यहेतुप्रदर्शनपरटीका फक्किकापातनिकेव बोध्या । चेतनार्थम् । सर्वस्यापि जडस्य साक्षात्परंपरया वा चेतनोपभोगसाधनत्वादित्यर्थः । नन्वचेतनो नाम पदार्थ एव नास्ति । यया चापौरुषेयत्वेनानाशङ्कितदोषलेशया वाचा भवदभिलषितं साध्यते तत्सजातीयया ‘‘मृदब्रवी’’दित्यादिकया श्रुत्या वचनकर्तृत्वरूपचेतनव्यापारोपपादनात्सर्वं चेतनमेवेति सर्वचैतन्यवादोऽप्रामाणिक इत्यभिप्रेत्य ‘‘मत’’इत्यूचे सुचेता इत्याह ।। मृदब्रवीदित्यादिवचनादिति ।। न हि वाङ्मात्रेणार्थसिद्धिरित्यत आह ।। तच्चेति ।। अभिमानिनये हि मृदादिशब्दैर्मृदाद्यभिमानिदेवतानामेव श्रुतावभिधानान्न सर्वं चेतनमिति मतं सम्भवतीत्यानुषङ्गिकसिद्धान्तत्वेन सर्वचेतनत्वमतं निरस्तमित्यर्थः । अभिमान्यधिकरण इत्युपलक्षणम् । प्रकृत्यधिकरणे चेत्यपि द्रष्टव्यम् । सर्वस्य चेतनत्वपक्षे घटादिरूपचेतनस्य नित्यत्वमुच्यतेऽथानित्यत्वम् । नाद्यः । तन्नित्यभावस्यानादितया दण्डचक्रादिचक्रवैयर्थ्यापत्तेः । मुद्गराभिघातानन्तरं नाशानुभवविरोधाच्च । द्वितीये उक्तरीत्या सादित्वे वक्तव्ये घटादिचेतनं प्रति कपालादिचेतनमुपादानं वक्तव्यम् । विनोपादानं भावसृष्टेः क्वाप्यदृष्टेः । तथा च चेतनानामुपादानोपादेयत्वं सर्वप्रमाणविरुद्धत्वान्नाङ्गीकारार्हमिति तदधिकरणानुषङ्गिकसिद्धान्तार्थस्य स्थितत्वादिति भावः । उपपादितं चैतत्तदधिकरणे ‘‘न चोर्णनाभिजनितृमातृणां च विकारिता । चेतनत्वा’’दित्यनुव्याख्यानसुधायां स्वविकल्पितपक्षचतुष्टयनिरासकचेतनत्वहेतूपपादनमुखेन । ननु सर्वथाऽवर्जनीयो नित्यानित्यविभागः । स किमर्थमादौ न कृतः । न चानित्यस्याचेतनत्वं नैवं सति स्यादिति तदपाकरणम् । हन्त तर्ह्येवङ्करणे चेतनस्य नित्यत्वमपि न स्यादिति साम्यात् । अतः केन निमित्तेनैवंविधस्य विभागस्य प्राथम्यमित्याशंक्य रमातत्वादीनां चेतनविभागस्थत्वेनाभ्यर्हितत्वादित्याशयेनाह ।। चेतनादिविभागस्येति ।। भावाभावविभागादप्यस्य चेतनाचेतनविभागस्यादितः प्रयोज्यत्वप्रयोजकत्वेन तदपेक्षया चेतनाचेतनविभागप्राथम्यमेव न्याय्यमिति शङ्का तु वादिविप्रतिपत्तिभावाभावविशेषादिति वदताऽशेषसंविदा टीकाकृतैव प्राक्प्रकटं पराकृतेति ज्ञेयम् ।

भावचन्द्रिका

ननु भावोऽपि इति अपिशब्दः अनर्थकः । न च अभावभेदसमुच्चयार्थकत्वात् न अनर्थकमिति वाच्यम् । अभावस्य त्रैविध्याभिधानेन तेन सह समुच्चयासम्भवात् इत्यतः अवान्तरविधायकत्वमात्रे भावाभावयोः समुच्चयार्थः अपिशब्दः इत्याह न केवलमिति । ननु परतन्त्रावान्तरभेदस्य भावस्य चेतनाचेतनौ यदि अवान्तरभेदौ स्यातां तर्हि विष्णोः चेतनत्वमभावस्य अचेतनत्वञ्च न स्यात् । परतन्त्रावान्तरभेदभावभेदत्वेन चेतनत्वे परतन्त्रत्वस्य, अभावस्य अचेतनत्वे तस्य भावावान्तरभेदत्वेन अभावस्य भावत्वस्य च प्रसङ्गात् । न च भावाभावयोः परतन्त्रप्रभेदत्वेऽपि विभागस्य ‘परतन्त्रं द्विविधमेव’ इत्येवंपरत्वेन विष्णोः भावत्वस्य व्युत्पादितत्वात्, तन्न्यायेनैव चेतनाचेतनयोः भावावान्तरभेदत्वेऽपि विभागस्य ‘भावः चेतनत्वादिना द्विविध एव, न पुनः अनेकविध एव, नापि त्रिविध एव’ इत्येवंपरत्वेन ‘भाव एव चेतनत्वादिना द्विविधः’ इत्येवंपरत्वाभावेन विष्ण्वादेः भावत्वादेरिव चेतनत्वादेरपि उपपत्तिः’ इति वाच्यम् । भावलक्षणाक्रान्तत्वेन विष्णोः भावत्वोपपत्तावपि, ‘प्राणी तु चेतनो जन्मी जन्तुजन्यशरीरिणः ।’ इत्यभिधानसिद्धचेतनत्वस्य विष्णोः अभावेन चेतनत्वादेः असम्भवेन, विभागस्य अन्ययोगव्यवच्छेदकत्वाभावेऽपि लक्षणानुपपत्त्या एव विष्ण्वभावयोः अयोगात् इत्यतः चेतनशब्दस्य क्लृप्त अवयवशक्त्या एव जीवे प्रयोगप्रत्यययोः उपपत्तौ अक्लृप्तसमुदायशक्तेः अकल्पनीयत्वेन, चेतनशब्दस्य रूढ्या जीवपरत्वाभावेन जीवत्वस्य चेतनलक्षणत्वासिद्धेः ज्ञानकर्तृत्वतदभावयोः एव तल्लक्षणत्वेन वाच्यत्वात्, तयोश्च ईश्वरादौ अपि सत्त्वात्, न लक्षणानुपपत्त्याऽपि तयोः चेतनत्वाद्यभावप्रसङ्गः इत्याशयवान् आह चेतयत इति चेतन इत्यादिना ।

चेतयते जानाति इत्यर्थः । चिति सञ्चेतने इत्यस्य चौरादिकस्य इदं रूपम् । तेनेति । संज्ञानिरुक्तिलभ्यलक्षणसत्त्वेन इत्यर्थः ।। चेतनस्य अचेतनापेक्षया पूर्वनिर्देशे नियामकमाह सर्वमचेतनमिति । अचेतनजातीयम्, चेतनजातीयम्; इत्यर्थः । मृदिति । आदिपदेन ‘आपोऽब्रुवन्’, ‘ता आप ऐक्षन्त’ इत्यादेः सङ्ग्रहः ।। अभिमानीति । ‘अभिमानिवव्यपदेशस्तु विशेषानुगतिभ्याम्’ इत्यत्र इत्यर्थः । तत्र मृदादीनां वचनबुध्द्यादिकर्तृत्वप्रतिपादकवेदभागस्य ‘मृत् न वक्त्री जडत्वात्’ इत्यनुमानविरोधेन अप्रामाण्ये प्राप्ते, ‘मृदादिशब्दानां तदभिमानिपरत्वेन तादृशवेदभागस्य प्रामाण्यम्’ इति सिद्धान्तितं भगवता बादरायणेन । यदि च सर्वं चेतनम्, तदा अयं पूर्वः पक्षः सिद्धान्तश्च अयुक्तः स्यात् । अतः सर्वचैतन्यमतं सूत्रकृता निरस्तप्रायमिति भावः ।

ननु प्रागुक्तरीत्या ‘भावोऽपि द्विविधः नित्योऽनित्यश्च, नित्योऽपि द्विविधः । चेतनोऽचेतनश्च’ इत्येवं विभागः कुतो न कृतः ? अनित्यस्य अचेतनत्वमेवं सति न उक्तं स्यात् इति चेत्, तथा सति चेतनस्य नित्यत्वं न उक्तं स्यात् इति समत्वात् । लक्षणत्वेन तज्ज्ञानं तु उभयत्र तुल्यम् । अतः केन विशेषेण चेतनादिविभागस्य प्राथम्यमित्यत आह चेतनादिविभागस्येति ।। अभ्यर्हितत्वादिति । श्रीतत्त्वानां चेतनविभागस्थत्वादिति भावः । यद्यपि भावाभावविभागादपि अस्य अभ्यर्हितत्वात् प्राथम्यमुचितं तथापि भावविभागप्राथम्यं बहुविप्रतिपत्तिसद्भावादेव इति प्रागेव समर्थितमिति ध्येयम् ।।

काशी टिप्पणी

मूले भावोऽपीत्यपिशब्दान्न केवलमभावो द्विविधः किं तु भावोऽपीति प्रतीयमानसमुच्चयासङ्गतेराह ।। न केवलमिति ।। इत्यपिशब्द इति ।। एकदेशसमुच्चयार्थोऽपिशब्द इत्यर्थः । ननु चेतनाचेतनयोर्भावप्रभेदत्वे स्वतन्त्रस्य चेतनत्वानुपपत्तिः । न च स्वतन्त्रस्य भावत्वाङ्गीकारान्नानुपपत्तिरिति वाच्यम् । परतन्त्रभावस्यैव विभाज्यत्वात् । अन्यथा चेतनविभागे दुःखास्पृष्टत्वेन रमामात्रग्रहणानुपपत्तेः । एवमभावस्याचेतनत्वानुपपत्तिश्चेति चेन्न । परतन्त्रभाव एवैवंविध इति विशेष्यावधारणविवक्षया दोषाभावादित्याशयेन स्वतन्त्राभावसाधारणे चेतनाचेतनत्वे निर्वक्ति ।। चेतयतीतीति ।। जानातीत्यर्थः । यद्यपि रूढ्या चेतनाचेतनपदाभ्यां चित्वजडत्वरूपजातिविवक्षाऽपि सम्भवति तथापि ज्ञातृत्वाज्ञातृत्वरूपव्यावर्तकलक्षणलाभाय योगाश्रयणम् । ज्ञातृत्वं च ज्ञानस्वामित्वं ज्ञानाश्रयत्वस्यान्तकरणसाधारणत्वादित्यवधेयम् ।। तेनेति ।। तादृशचेतनत्वविवक्षणेनेत्यर्थः ।। चेतनार्थमिति ।। चेतनानामर्थः प्रयोजनं यस्मात्तत्तथा चेतनभोग्यमिति यावत् । भोक्तृभोग्ययोर्भोक्तुः प्राधान्यं प्रसिद्धमेवेति भावः । यद्यप्यचेतनस्य चेतननिरूप्यत्वाच्चेतनस्य प्रथममुद्देश इत्यपि सुवचम् । तथाप्युक्तप्राधान्यक्रमस्य मुख्यत्वात्तदेव निमित्तमुक्तम् ।। मृदब्रवीदित्यादीति ।। वक्तृत्वस्य ज्ञातृत्वं विना अनुपपत्तेरिति भावः ।

ननु श्रुतिविरुद्धत्वात्कथमत्र सम्मतिरत आह ।। तच्चेति ।। सर्वचैतन्यमतं हि निरस्तम् । अभिमानिव्यपदेशस्तु विशेषानुगतिभ्यामिति सूत्रे मृन्न वक्त्री जडत्वादिति युक्तिविरुद्धत्वाद्वेदस्याप्रामाण्यमिति प्राप्ते, मृदित्यादिभिरभिमानिदेवताव्यपदेश एव । तासां च शक्तिविशेषाददृश्यत्वमभिमन्यमानव्याप्तिवदभिमानित्वं च युज्यत इति सिद्धान्तितत्वादिति भावः । ननु भावो द्विविधो नित्योऽनित्यश्च । नित्यो द्विविधश्चेतनोऽचेतनश्चेत्येव विभागः कुतो न कृत इत्यत आह ।। चेतनादिविभागस्येति ।। चेतनाचेतनविभागस्येत्यर्थः ।। अभ्यर्हितत्वादिति ।। उक्तरीत्या चेतनस्य प्राधान्येन विप्रतिपत्तिसद्भावेन चावश्यवेद्यत्वादित्यर्थः ।