अथ अस्वतन्त्रं चेतनत्वादिनैव विभज्यताम्
अस्वतन्त्रतत्वस्य भावाभावत्वाभ्यां विभागे विशेषकारणोक्तिः
टीका
अथ अस्वतन्त्रं चेतनत्वादिनैव विभज्यताम् । किं चेतनत्वादिना विभज्य भावाभावतया विभागः कर्तव्य उतायं न कर्तव्य एव । नाद्यः, विशेषाभावात् । अभावस्याचेतनत्वं एवं सति नोक्तं स्यादिति चेत्तथा सति चेतनस्य भावत्वमपि नोक्तं स्यादिति समम् । तर्हि केन विशेषेणास्य प्राधान्यमिति चेत् । वादिविप्रतिपत्तिभावाभावाभ्यां विशेषात् । अत एव न द्वितीयोऽपीति ।
तत्वसङ्ख्यानटीकाभावदीपः
परतन्त्रस्य भावत्वादिना विभागे विशेषं विवक्षुराक्षिपति ।। अथेति ।। अस्वतन्त्रं चेतनोऽचेतनश्चेति द्विविधम् । अचेतनोऽपि भावोऽभावश्चेति द्वेधा । इत्यादिरूपेण विभज्यताम् । किं भावत्वादिनेति भावः । विशेषेति ।। पुरुषार्थोपयोगित्वादिविशेषस्याभावादित्यर्थः । विशेषमाशङ्क्य साम्यमाह ।। अभावस्येति ।। एवं सतीति ।। भावत्वादिना विभागे कृते सतीत्यर्थः ।। अस्येति ।। भावत्वादिना विभागस्येत्यर्थः ।। वादीति ।। भावाभावत्वेऽस्ति विवादो न चेतनत्वादावतस्तन्निरासाय भावत्वादिविभागस्य प्राधान्यमित्यर्थः ।। अत एवेति ।। विवादाभावादेव कर्तव्यत्वपक्षो न युक्त इत्यर्थः ।
तत्वसङ्ख्यानटीकाटिप्पणी
भावाभावतयोक्तं परतन्त्रविभागमाक्षिपति– अथास्वतन्त्रमिति ।। अत एवेति ।। वादिविप्रतिपत्तिसद्भावादेवेत्यर्थः ।
तत्वसङ्ख्यानविवरणम्
भावाभावतयोक्तं परतन्त्रविभागमाक्षिपति ।। अथास्वतन्त्रमिति । अस्वतन्त्रं द्विविधं चेतनोऽचेतनश्चेत्येवं विभज्यताम् । भावोऽभावश्चेति किमर्थं विभज्यत इत्यर्थः ।। किञ्चेतनत्वादिनेति । अस्वतन्त्रं द्विविधं चेतनोऽचेतनश्चेति विभागं कृत्वाऽनन्तरं अचेतनोद्विविधः भावोऽभावश्चेति भावाभावविभागः कर्तव्यः उतायं न कर्तव्यः इत्यभिप्राय इत्यर्थः । विशेषाभावादिति । अस्वतन्त्रं द्विविधं भावोऽभावश्च । भावोऽपि द्विविधः। चेतनोऽचेतनश्चेति विभागकरणे तथाऽस्वतन्त्रं द्विविधं चेतनोऽचेतनश्च अचेतनं द्विविधं भावोऽभावश्चेति विभागकरणे च विशेषाभावादित्यर्थः । नन्वस्ति विशेषः । भावाभावभेदेनास्वतन्त्रं विभज्यभावस्य चेतनाचेतनत्वेन विभागकरणेऽभावस्याचेतनत्वं नोक्तं स्यात् । अचेतनस्याभावप्रभेदरूपत्वादिति शङ्कते ।। अभावस्येति ।। तथा सतीति । अस्वतन्त्रं चेतनत्वादिना विभज्याचेतनस्य भावत्वादिना विभागकरणे चेतनस्य भावत्वं नोक्तं स्यात् । भावस्याचेतनप्रभेदरूपत्वादिति सममित्यर्थः । नन्वेवं साम्ये केन निमित्तविशेषेण भावाभावभेदेनास्वतन्त्रविभागकरणस्य प्राधान्यमित्याशङ्कते ।। तत्र हीति ।। वादिविप्रतिपत्तीति । अस्वतन्त्रस्य चेतनाचेतनभेदेन विभागकरणे चेतनाचेतनपदार्थयोः सर्वैरङ्गीकृतत्वेन तत्र वादिविप्रतिपत्त्यभावात् । भावत्वादिना विभागकरणे अधिकरणातिरिक्ताभावानङ्गीकारवादिनां मीमांसकानां विप्रतिपत्तिसद्भावादित्येवंरूपान्निमित्तविशेषादित्यर्थः । प्राधान्यमिति सम्बन्धः ।। अत एवेति । भावाभावविभागो न कर्तव्य एवेति द्वितीयपक्षोऽप्यत एवायुक्तः । अभावे वादिविप्रतिपत्तिसद्भावेन तस्य समर्थनीयत्वादेवेत्यर्थः ।
तत्वसङ्ख्यानटिप्पणम्
ननु भवतु भवदुक्तभङ्ग्यैष सामान्यविभागः । अस्वतन्त्रतत्वस्य चेतनत्वादिना कुतो न विभागः क्रियत इत्याशयेन शङ्कते ।। अथेत्यादिना विभज्यतामित्यन्तेन । सिद्धान्ती द्वेधा विकल्पयति ।। किमिति ।। विभज्य विभागं कृत्वा । भावाभावतया विभागः कर्तव्यः । अनन्तरमिति तु क्त्वासामर्थ्येनैव लभ्यत इति नोक्तम् । अविशेषात् वैपरीत्यकृतविशेषाभावादित्यर्थः । विशेषं शङ्कते ।। अभावस्येति ।। एवं सति अस्वतन्त्रस्य भावत्वादिना विभागे सति । तथा सति त्वदुक्तरीत्या विभागे सति । नोक्तं स्यात् । तस्यास्वतन्त्रप्रभेदत्वादिति भावः । साम्ये सति भवतु मदुक्तरीत्यापि विभागो विनिगमकाभावादिति शङ्कते ।। तर्हीति ।। अस्य भावादिप्रविभागस्य । सिद्धान्ती विशेषं दर्शयति ।। वादीति ।। वादिनां सिद्धान्तिनां विप्रतिपत्तेः विवादस्य । भावातिरिक्ताभावे चेतनातिरिक्ताचेतने सत्त्वासत्त्वरूपवैलक्षण्यादित्यर्थः । भावातिरिक्ताभावोऽस्तीत्यत्र वादिविप्रतिपत्तिसद्भावात्तन्निरासाय विप्रतिपन्नचेतनाचेतनविभागकथनात्प्राथम्यं युक्तमिति भावः । अत एव अन्ततो गत्वा निराकर्तव्यवादिविवादरूपविशेषसद्भावादेवेत्यर्थः । द्वितीयः न कर्तव्य इति पक्षः ।
भावचन्द्रिका
अस्वतन्त्रं भावोऽभावश्चेति द्विविधम् इति विभागमुपपादयितुं तत्र अनुपपत्तिमाशङ्कते अथेति ।। अत्र अस्वतन्त्रमित्यनन्तरं एवशब्दो योज्यः । यद्वा प्रथमम् इति शेषः । तेन विकल्पावकाशः इति ज्ञेयम् ।।
चेतनत्वादिनैवेति एवकारेण भावाभावविभागस्य प्राथम्यनिषेधे तात्पर्यम् ? उत अकर्तव्यत्वे एव ? इत्यभिप्रायेण विकल्पयति किमिति । विशेषाभावादिति । अस्मदुक्तरीत्या चेतनाचेतनयोः भावावान्तरभेदत्वपरित्यागेन भावाभावयोः अचेतनावान्तरभेदत्वस्वीकारे फलविशेषाभावादित्यर्थः । फलविशेषं शङ्कते अभावस्येति । एवं सति चेतनाचेतनयोः भावावान्तरभेदत्वे सति इत्यर्थः । स्वपक्षे तु अचेतनावान्तरभेदत्वेन अभावस्य अचेतनत्वं सुलभमिति भावः ।। तथा सतीति । अभावस्य अचेतनावान्तरभेदत्वे सति इत्यर्थः । स्वपक्षे तु भावावान्तरभेदत्वात् चेतनस्य भावत्वं सुलभमिति । ततश्च कुत्रचित् कस्यचित् किञ्चित् असिद्धेः तौल्यमेव इति विशेषाभाव एव इति भावः । तर्हीति । एवं विभागद्वयस्य साम्ये इत्यर्थः । अस्य भावाभावविभागस्य । चेतनाचेतनविभागापेक्षया इति शेषः । वादीति । भावाभावविभागे वादिविप्रतिपत्तिभावात् चेतनाचेतनविभागे च तदभावात् तद्विभागापेक्षया भावाभावविभागस्य प्राधान्यमित्यर्थः ।। यद्यपि चेतनाचेतनविभागेऽपि अस्त्येव वादिविप्रतिपत्तिः, यद्वक्ष्यति मृदब्रवीत् इत्यादिवाक्यात् सर्वं चेतनमेव इत्यादि तथापि यथा भावाभावविभागे वादिनः विप्रतिपद्यन्ते न तथा अन्यत्र इति तात्पर्यात् अदोषः इति द्रष्टव्यम् । अत एवेति । वादिविप्रतिपत्तेः विद्यमानत्वेन न कर्तव्यः इति द्वितीयोऽपि न इत्यर्थः ।
काशी टिप्पणी
एवं तत्वविभागं समर्थ्य यथोक्तमस्वतन्त्रविभागं समर्थयितुमाक्षिपति ।। अथेति ।। अस्वतन्त्रं द्विविधं चेतनमचेतनं चेत्येव विभज्यतामित्यर्थः । अन्यथा अभावस्याचेतनत्वालाभादित्यभिसन्धिः । अथास्वतन्त्रं नित्यत्वादिनैव विभज्यतामिति कुतो न शङ्कितमिति चेत् भावाभावतया नित्यादिविभागायोगात् । प्रागभावादेर्नित्यत्वाद्यभावादिति । समाधातुं पृच्छति ।। किमिति ।। विशेषाभावादिति ।। परोक्तविभागे लाघवरूपनियामकाभावादित्यर्थः । अभावस्याचेतनत्वलाभरूपनियामकमाशङ्कते ।। अभावस्येति ।। एवं सति मूलोक्तविभागे सति । तथा सति अस्वतन्त्रं द्विविधं चेतनमचेतनं च । अचेतनं द्विविधं भावोऽभावश्चेति विभागे सतीत्यर्थः । मूलोक्तविभागेऽपि नियामकाभावमाशङ्कते ।। तर्हीति । साम्ये सतीत्यर्थः । प्राधान्यमवश्यकर्तव्यत्वम् ।। वादीति ।। भावाभावविभागेः एव विप्रतिपत्ते सद्भावाद्विप्रतिपन्नस्य चाभ्यर्हितत्वेनादौ वक्तव्यत्वादुक्तविभागस्यैवावश्यकत्वमिति भावः । यद्यपि मृदब्रवीत् इत्यादिना चेतनाचेतनविभागेऽपि विप्रतिपत्तिर्वक्ष्यते तथापि सा न बहूनामित्याशयः । यद्वा मृदादिषु चेतनत्वरूपधर्मविषयविप्रतिपत्त्यपेक्षयाप्यभावरूपधर्मिविषयविप्रतिपत्तेः प्राधान्येनादौ निरस्यत्वमित्याशयः । यद्वा सर्वचेतनमतस्याभिमान्यधिकरणे विस्तरेण निरस्तत्वादद्यापि सा नास्त्येवेत्याशयः । अत एव तत्र प्रसिद्धप्रमाणसूचनाय मूले मत इत्युक्तमवगन्तव्यम् ।। अत एवेति ।। विप्रतिपत्तिसद्भावेनावश्यवक्तव्यत्वादेवेत्यर्थः ।