स्वतन्त्रो भगवान्विष्णुः

स्वतन्त्रतत्वस्यादौ निर्देशे लक्षणाकथने च बीजकथनम्

टीका

स्वतन्त्रतत्वस्य प्राधान्यात्तदेवादावुद्दिष्टम् । उद्देशेनैव लक्षणं च लब्धम् ।

अत एवादौ तन्निर्दिशति ।। स्वतन्त्रेति ।।

तत्वसङ्ख्यानम्

स्वतन्त्रो भगवान्विष्णुः......।

मूले भगवानिति पदस्य द्विविधमिति पदस्य च कृत्यकथनम्

अत्र भगवानिति विष्णोः स्वातन्त्र्योपपादकम् । अन्यदस्वतन्त्रमिति शेषः । अथवा द्वे तत्वे इत्युक्ते स्वतन्त्रमिव परतन्त्रमेका व्यक्तिरेव प्रसज्येत । तथा च प्रमाणविरोधो वक्ष्यमाणविभागविरोधश्च । अतो द्विविधमित्युक्तम् । ततश्च स्वतन्त्रमप्यनेकविधं स्यादित्यत इदमुक्तम् । अथ वा स्वतन्त्रास्वतन्त्रभेदेन तत्वद्वैविध्यमङ्गीकुर्वाणा अपि साङ्क्यादयः प्रधानादिकं स्वतन्त्रतत्वमातिष्ठन्ते । तन्निरासायेदमुदितमिति ।

भाववर्णनम्

ननु प्रथमं इतिशब्दाध्याहारं विनैव तत्त्वं स्वतन्त्रमस्वतन्त्रमिति अक्लिष्टान्वयेनैव द्वैविध्यलाभे द्विविधमित्यनर्थकम् । अन्यदस्खतन्त्रमिति शेषदानं चाधिकमित्यस्वरसात्कल्पान्तरमाह ।। अथवेति ।।

तत्वसङ्ख्यानटीकाभावदीपः

स्वतन्त्रतत्वस्य प्रथमोद्देशे निमित्तमाह ।। स्वतन्त्रतत्वस्येति ।। उद्दिष्टमिति ।। प्रथमवाक्ये । ननु उद्देशस्य लक्षणोक्त्यर्थत्वादुद्देशानन्तरं लक्षणानुक्तिरनुचितेति । अत आह ।। उद्देशेनैवेति ।। लक्षणं चेति ।। स्वसत्तादौ परानपेक्षत्वरूपमित्यर्थः ।। अत एवेति ।। प्राधान्यादेवेत्यर्थः । ननु स्वतन्त्रो विष्णुरित्येतावतैव पूर्तौ भगवानितिपदं व्यर्थमिति । अत आह ।। अत्र भगवानितीति ।। स्वातन्त्र्योपपादकमिति ।। तेन समग्रैश्वर्यादिषड्गुणवत्वस्य लाभादिति भावः । मूले अस्वतन्त्रतत्वप्रदर्शकपदाभावादाह ।। अन्यदस्वतन्त्रमिति शेष इति ।। ‘‘सङ्ख्याया विधार्थे धा’’ इत्युक्तस्य द्विविधमिति धाप्रत्ययस्यार्थवत्त्वं वक्तुमाह ।। अथ वेति ।। तत्रावान्तरभेदसूचकधाप्रत्ययाभावादिति भावः । तथा चेति ।। एकव्यक्तिप्रसक्तितश्च प्रत्यक्षादिप्रमाणविरोध इत्यर्थः ।। अत इति ।। अवान्तरानेकभेदसूचनायेत्यर्थः ।। इत्युक्तमिति ।। अवान्तरानेकभेदोपेते द्वे तत्वे इत्यर्थलाभाय धाप्रत्ययान्तपदं प्रयुक्तमित्यर्थः । अस्त्वेवम् । तथापि किं प्रकृते ? इति । अत आह ।। ततश्चेति ।। धाप्रत्ययान्तप्रयोगतश्चेत्यर्थः । परतन्त्रमिवेति योज्यम् । विष्णुरित्युक्तेरर्थवत्त्वाय योजनान्तरमाह ।। अथ वेति ।। साङ्ख्यादय इति ।। साङ्ख्यशैवहैरण्यगर्भप्रभृतयः । प्रधानादिकं प्रधानशिवहिरण्यगर्भस्कन्दसूर्यशक्त्यादिकमित्यर्थः । आतिष्ठन्ते अभ्युपगन्छन्ति ।

तत्वसङ्ख्यानविवरणम्

ननु स्वतन्त्रतत्वस्यादावुद्देशे किं निमित्तमित्यत आह ।। स्वतन्त्रतत्वस्येति । ननु उत्तरत्र स्वतन्त्रतत्वं निर्दिश्यते । तत्कथम् । लोके लक्षणमुक्त्वा निर्देशो दृष्टो नान्यथा । अतो लक्षणाकथनान्न्यूनतेत्यत आह ।। उद्देशेनैवेति । यत्स्वसत्तादौ स्वस्यैव तन्त्रं अधीनं न तु परापेक्षं तत् स्वतन्त्रमिति संज्ञानिर्वचनेनैव लक्षणं लब्धमिति न न्यूनतेत्यर्थः । इदमुपलक्षणम् । यत्स्वसत्तादौ स्वतन्त्रं स्वाधीनं न भवति परापेक्षमिति यावत् । तत् अस्वतन्त्रमिति अस्वतन्त्रतत्वलक्षणमपि द्रष्टव्यम् ।। (अत एवेति)तत एवेति । प्राधान्यादेवेत्यर्थः । ननु उत्तरत्र अस्वतन्त्रविभाग एवोच्यते न त्विदं अस्वतन्त्रतत्वमिति निर्दिश्यते । अत आह ।। अन्यदिति । स्वतन्त्रो भगवान्विष्णुरिति वचनस्याभिप्रायांतरमाह ।। अथवेति ।। इत्युक्त इति । द्विविधमित्यनुक्त्वेति शेषः । प्रमाणविरोध इति । ब्रह्मादिचेतनानां घटाद्यचेतनानां च बह्वीनां परतन्त्रव्यक्तीनां प्रमाणप्रमितत्वेन तद्विरोध इत्यर्थः ।। वक्ष्यमाणेति । भावाभावौ द्विधेतरदिति परतन्त्रविभागस्योच्यमानत्वेन परतन्त्रव्यक्तेरेकत्वे तद्विरोधस्स्यादित्यर्थः ।। द्विविधमित्युक्तमिति । स्वतन्त्रास्वतन्त्ररूपप्रकारद्वयोपेतमित्यर्थः ।। ततश्चेति । स्वतन्त्रास्वतन्त्रतत्वयोः प्रकारत्वोक्त्या प्रकारवत्त्वस्य स्वाश्रयव्यक्तिभेदसापेक्षत्वात् परतन्त्रतत्ववत् स्वतन्त्रतत्वमप्यनेकं स्यादित्यर्थः ।। इदमुक्तमिति । स्वतन्त्रो भगवान्विष्णुरित्येकवचनेन तस्यैकत्वोक्तेरुक्तशङ्का परिहृतेति ज्ञातव्यम् । स्वतन्त्रो भगवान्विष्णुः’’ इत्यस्य पुनरभिप्रायान्तरमाह ।। अथवेति । सांख्यादय इत्यादिपदेन पाशुपतशैवशाक्तादयो ग्राह्याः । प्रधानादिकमित्यादिपदेन शिवशक्त्यादिकं ग्राह्यम् ।।

तत्वसङ्ख्यानटिप्पणम्

नन्वत्र स्वतन्त्रतत्वस्यादावुद्देशः कुतः । उद्दिष्टस्य च लक्षणं वक्तव्यम् । मूले तत्कुतो नोक्तम् । स्वतन्त्रो भगवान्विष्णुरिति शृङ्गिग्राहकयाऽऽदौ निर्देशश्च किन्निमित्तम् इति शङ्काः क्रमेण परिहरन्मूलमवतारयति ।। स्वतन्त्रतत्वस्येत्यादिना ।। प्राधान्यात् अभ्यर्हितत्वात् । आदौ स्वतन्त्रमस्वतन्त्रमित्यादिभागे । उद्देशेनैव नाम्ना सङ्कीर्तनेनैव । स्वरूपप्रमितीत्यादिनाऽस्माभिर्दर्शितप्रणाड्येति भावः । इति इतिकृत्वा । अत एव प्राधान्यादेव । निर्दिशति शृङ्गिग्राहकया दर्शयति चेत्यर्थः । ननु पूर्वमुद्देश्यप्राथम्यानुसारेण तत्वं द्विविधमित्यनुक्त्वा स्वतन्त्रमस्वतन्त्रम् चेति प्रथमतस्तत्कीर्तनस्य मङ्गलसूचकत्वाभिधानात् इदानीम् प्राधान्यात्तदेवादावुद्दिष्टमिति कथने कथं न विरोध इति चेदुच्यते । पूर्वं अनिश्चितभाष्यकृदाप्तभावस्य अत एव मङ्गलानुमापकपरमास्तिकत्वहेतोः स्वरूपासिद्धिं मन्वानस्य प्रतिवादिनः मङ्गलानुष्ठान निश्चयाय प्रत्यक्षतोऽपि मङ्गलश्रुतिरियं श्रूयत इति वक्तुं तथाऽभिहितम् । इदानीं अवगततदाप्तभावस्योक्तहेतुनैव मङ्गलसिद्धेः स्वतन्त्रतत्वस्य प्रथमत उद्देशे निमित्तपरिचोदनायां प्राधान्यरूपो हेतुरभिहित इति न वैयर्थ्याख्यविरोध इति । स्वतन्त्रो विष्णुरित्येतन्मात्रोक्तावभिलषितसिद्धेः किं तत्वविवेक इव पूजार्थकभगवच्छब्दग्रहणेनेत्यत आह ।। अत्रेति ।। अस्मिन्प्रकरण इत्यर्थः । तत्वविवेके ‘निर्दोषाशेषसद्गुण’ इति स्वातन्त्र्योपपादकस्यान्यस्य विद्यमानत्वात्तस्य पूजार्थकत्वेऽप्यत्र तदभावात्स्वातन्त्र्यं विष्णोरेव कुत इत्यत उक्तं भगवानिति ।। भगवांश्च स उच्यते यः

ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः ।

ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा ।।

इत्युदीरितैश्वर्यादिषड्गुणः । ततश्च विष्णुः स्वतन्त्रः भगवत्त्वात् । व्यतिरेकेण यज्ञदत्तवदिति प्रकारेण भगवत्त्वं स्वातन्त्र्यस्योपपादकं साधकं भवतीति भावः । प्राधान्यात्स्वतन्त्रतत्वस्य विष्णोरादौ शृङ्गिग्राहकया निर्देशेनैवार्थात्सूचितं तदितरस्यास्वातन्त्र्यं कण्ठत आह ।। अन्यदिति ।।

अत्र भगवानिति विष्णोरिति टीका विष्णुशब्दस्य रूढत्वं भगवच्छब्दस्य यौगिकत्वमभ्युपेत्य प्रवृत्ता । यदा तु वैपरीत्यं विवक्षितं तदा विष्णुरिति भगवतः स्वातन्त्र्योपपादकमिति टीकाविन्यासो बोध्यः । ततश्च ‘‘भगवान् भगहा नन्दी’’त्युक्तदिशा भगवान्हरिः स्वतन्त्रः । विष्णुत्वात् । व्यतिरेकेण चैत्रवदिति प्रयोगो बोध्यः । विष्णुत्वात् सर्वव्यापित्वात् । विष्लृ व्याप्ताविति धातोः ‘‘विषेःकिच्च’’ इति सूत्रेण ‘‘स्थोणु’’रिति सूत्रादनुवृत्तणुप्रत्यये तस्य कित्त्वेन गुणाभावे विष्णुरिति रूपम् ।। १ ।।

वियन्त्यनेन मोक्षम् प्रति जना इति वा विष्णुः । गत्यर्थाद्वीधातोः करणे क्स्नुप्रत्यये पृषोदरादित्वाद्धात्वीकारह्रस्वत्वे कित्त्वाद्गुणाभावे ‘‘आदेश प्रत्यययोरि’’ति सस्य षत्वे ‘‘रषाभ्याम् नो णः समानपद’’ इति नस्य णत्वे रूपम् ।। २ ।।

सर्वप्रवेशित्वाद्वा विष्णुः । ‘‘विश प्रवेशन’’ इत्यस्मात् उणादयो बहुलमिति क्स्नुप्रत्यये पृषोदरादिभावेन शस्य षत्वे णत्वे च रूपम् ।। ३ ।।

कान्त्यर्थार्द्वीधातोर्वा क्स्नुः । शिष्टं पूर्ववत् कान्तिश्च न सर्वसाधारणी किन्त्वभ्यधिकेति द्रष्टव्यम् ।। ४ ।।

अधिभूतादिसम्बन्धिजन्मादिविषयेच्छावत्त्वाद्वा । ‘‘वश कान्तौ’’ कान्तिरिच्छेत्युक्तेरिच्छार्थाद्वादशधातोर्बाहुलके नुप्रत्यये निर्वचनत्वादुपधाकारस्येकारे शस्य षत्वे रूपम् ।। ५ ।।

त्रिविक्रमरूपेण चरणक्रमणाद्वा विष्णुः । गत्यर्थाद्वयतेः कर्तरि क्स्नुः । पूर्ववदुर्वरितम् ।। ६ ।।

तदुक्तं श्रीगीताभाष्ये ‘‘विष्णुः सर्वव्यापित्वप्रवेशित्वादेः । विष्लृ व्याप्तौ, विश प्रवेशन इति च पठन्ति ।

गतिश्च सर्वभूतानां प्रजानां चापि भारत ।

व्याप्तौ मे रोदसी पार्थ कान्तिश्चाभ्यधिका मम ।

अधिभूतनिविष्टश्च तदिच्छुश्चास्मि भारत ।

क्रमणाच्चाप्यहं पार्थ विष्णुरित्यभिसंज्ञितः ।।

इति मोक्षधर्म’’ इति । आगमेन हि विष्णुत्वमिति ज्ञानपादीयसुधायाम् ‘‘विष्णुत्वन्तु समस्तगुणपरिपूर्णत्वनिर्दोषत्वजगज्जन्मादिकारणत्वलक्षणं न प्रत्यक्षमत’’ इत्याद्युक्तेर्भवति स्वतन्त्रत्वोपपादकं विष्णुत्वमिति मन्तव्यम् । एवमैतरेयभाष्येऽपि

सर्ववेष्टयितृत्वाच्च विशिष्टबलतस्तथा ।

विष्णुरित्यभिधा मह्यं सा न युक्ता दिवौकसाम् ।।

इत्यादिना विष्णुपदार्थ उक्तोऽनुसन्धेयः । विष्णुर्नारायण इत्यमरव्याख्याने ‘वेष्टि सर्वमिति विष्णुः । विष्लृ व्याप्तौ । विषेः किच्चेति’ इत्येवमेवोक्तम् । विष्णुत्वोपपादकत्वं च पूर्वोदीरितरीत्या ज्ञेयम् ।। उक्तपक्षे अन्यदित्यादिशेषकल्पना कार्येत्यस्वरसादाह ।। अथवेति ।। इत्युक्ते एवं विन्यासकरणे ।। प्रसज्येतेति ।। यत्र व्यक्त्यैक्यं तत्रैव प्रायेण द्वित्वप्रयोगादिति भावः । किमतो यद्येवमित्यत आह ।। तथा चेति ।। प्रमाणविरोध इति ।। अस्वतन्त्रानेकत्वस्य प्रत्यक्षादिसिद्धत्वेन तद्विरोध इत्यर्थः ।। वक्ष्यमाणविभागविरोधश्चेति ।। भावाभावौ द्विधेतरदिति वक्ष्यमाणविरोधश्चेत्यर्थः ।। अत इति ।। यद्यपि यत्र प्रकारद्वित्वमुच्यते तत्र प्रकारिद्वित्वं न सेत्स्यति । तथापि प्रकारद्वित्वं स्वाविनाभाविप्रकारिद्वित्वमाक्षिपत्येवेति द्वे इति प्रकारिद्वित्वमनुक्त्वा प्रकार्यवान्तरभेदसूचनाय विधान्तेन प्रकारद्वित्वमभिहितमित्यर्थः ।। ततश्चेति ।। द्विविधमित्युक्तौ सत्यामित्यर्थः ।। अनेकं स्यादिति ।। परतन्त्रवदिति भावः । इदमुक्तं स्वतन्त्रो भगवानित्युक्तमित्यर्थः ।

नन्वेवं सति कथं न व्याहतिः । द्विविधमिति स्वतन्त्रतत्वस्यानेकत्वमुक्त्वा स्वतन्त्रो भगवान्विष्णुरित्येकत्वोक्तेरिति चेन्न । अयमभिप्रायो मूलकारस्य । न वयं प्रकारिणोरवान्तरभेदः प्रकारद्वैविध्योक्त्या वचनवृत्त्या प्रतिपाद्यत इति ब्रूमः । येनोक्ता व्याहतिः स्यात् । नापि प्रकारद्वैविध्यं प्रकार्यवान्तरस्य भेदस्य व्याप्यम् । येनैतदुक्त्या व्यापकस्य तस्य लाभेनोक्तो दोषः स्यात् । किं नामाश्रययोरैक्यप्रापकप्रकारिद्वित्वमनुक्त्वा द्विविधमिति प्रकारद्वित्वोक्तिः प्रकार्यवान्तरभेदस्य सूचिकैव । साऽप्यपवादाभावे । यथा भावाभावौ द्विधेतरदित्यादौ । यत्र पुनरपवादस्तत्र यस्मिन् प्रकारिण्यवान्तरभेदस्तत्रैव पर्यवस्यति । यथा ‘‘दुःखस्पृष्टं तदस्पृष्टमिति द्वेधैव चेतन’’मित्यादौ । एवञ्च प्रकृतेऽपवादसद्भावेन तथोक्तिरिति कथं व्याहतिः । एवं तार्तीयचरणस्य विधान्तसूचितप्रकार्यवान्तरभेदनिरासकत्वेन स्वतन्त्रतत्वस्य शृृङ्गिग्राहकया निर्देशरूपत्वाभावेन न तन्निर्देशानन्तरमस्वतन्त्रं किमित्याकांक्षायां निवर्तकत्वेनावश्यं वक्तव्यस्यान्यदस्वतन्त्रमित्यनुक्तिप्रयुक्तो दोष इति भावः । प्रकारान्तरेणैतत्पादप्रवृत्तिं दर्शयति ।। अथ वेति ।। सांख्यादय इत्यत्रादिपदेन शैवसौरादीनां सङ्ग्रहः । प्रधानं जडप्रकृतिः । आदिना हरमिहिरादयो ग्राह्याः । इदं स्वतन्त्रमित्यादि । तन्निरासप्रकारस्तु रचनानुपपत्तेश्च नानुमानमिति सूत्रतद्भाष्यादितो ज्ञेयः ।

भावचन्द्रिका

(पा.टि.)

ननु स्वतन्त्रतत्त्वस्य प्रथमं शृृङ्गिग्राहकतया प्रदर्शनमनुचितम् । तत्रापि निमित्ताभावात् । न तावत् भावत्वं तत्र निमित्तम् । घटादिसाधारण्यात् । नापि नित्यत्वम् । आकाशादिसाधारण्यात् । तत्कथमेतत् ? इत्यत उक्तम् प्राधान्यादिति । ननु च यथोद्देशं लक्षणप्रणयनम् इति न्यायेन उद्देशानुसारेण लक्षणस्याप्यवश्यं वक्तव्यत्वात्, तदनभिधाने न्यूनता इत्यत आह उद्देशेनैवेति । यथा उद्देशेनैव लक्षणलाभः तथा तद्ग्रन्थव्याख्यावसरे एव उक्तमिति भावः ।। तत एवेति । प्रथमोद्देशनिमित्तात् प्राधान्यादेव इत्यर्थः । तत् स्वतन्त्रम् । निर्दिशति शृृङ्गिग्राहकतया दर्शयति इत्यर्थः ।

स्वतन्त्रो भगवान्विष्णुः’ इति मूले तत्त्वविवेकोक्तरीत्या भगवत् शब्दस्य पूज्यार्थत्वप्रतीतिनिरासाय आह अत्रेति । तत्र निर्दोषाखिलसद्गणत्वरूपस्वातन्त्र्योपपादकविशेषणान्तरस्य सत्वात् भगवान् इत्यस्य तदुपपादकत्वानाश्रयणेऽपि प्रकृते स्वातन्त्र्योपपादकस्य अन्यस्य विशेषणस्य अभावात् भगवत्त्वमेव तदुपपादकम् इत्याश्रितमिति भावः । ननु निर्दिष्टयोः स्वतन्त्रास्वतन्त्रयोः मध्ये किं स्वतन्त्रम् ? इति जिज्ञासानिवृत्तये शृृङ्गिग्राहकतया स्वतन्त्रतत्त्वस्य इव अस्वतन्त्रस्यापि तथा निर्देष्टव्यस्य अनिर्देशात् न्यूनता स्यादित्यत आह अन्यदिति ।

अस्मिन्पक्षे ‘अन्यत् अस्वतन्त्रम्’ इति वाक्यशेषकल्पनमेव अस्वरसं मनसि निधाय पक्षान्तरमाह अथवेति । तत्त्वम् स्वतन्त्रम् अस्वतन्त्रञ्च इति चशब्दस्य बलात् स्वतन्त्रास्वतन्त्ररूपे द्वे तत्त्वे इति प्राप्तौ, द्वित्वस्य औत्सर्गिकव्यक्त्यन्वयबलात् स्वतन्त्रव्यक्तिवत् अस्वतन्त्रव्यक्तिः एकैव प्रसज्येत इत्यर्थः । किमतो यद्येवम् ? इत्यत आह तथा चेति ।। प्रमाणेति । अस्वतन्त्रव्यक्तिभेदप्रतिपादकप्रमाणविरोधः इत्यर्थः ।। वक्ष्यमाणेति । भावाभावौ द्विधेतरत् इत्यादिवक्ष्यमाणेन इत्यर्थः ।। द्विविमिधमित्युक्तमिति । प्रकारद्वित्वेन प्रकारिद्वित्वासिद्धावपि प्रकारिद्वित्वेन अवश्यंप्रकारद्वित्वसिद्धेः, अनुक्त्वैव प्रकारिद्वित्वं प्रकारद्वित्वोक्तेः प्रकार्यवान्तरभेदसद्भावसूचनार्थत्वात् तत्सूचनाय द्विविधम् इत्युक्तम् इति भावः । अनेकविधं स्यादिति । परतन्त्रवदेव अवान्तरभेदवत् स्यादित्यर्थः । तेन स्वतन्त्रतत्त्वस्य भगवतो मत्स्याद्यनेकरूपस्य सिद्धान्ते स्वीकारात्, इष्टापादनमेतत् इति चोद्यानवकाशः इति ध्येयम् ।। इदमुक्तमिति । स्वतन्त्रः भगवान् विष्णुः एक एव इत्युक्तमित्यर्थः ।

ननु च अस्वतन्त्रमिव स्वतन्त्रमपि अवान्तरभेदवदिति द्विविधम् इत्यनेन उक्तत्वात्, स्वतन्त्रो भगवान्विष्णुः इत्यनेन स्वतन्त्रव्यक्तेः एकत्वोक्तौ स्ववचनव्याघातः इति चेत् न, भावानवबोधात् । न हि प्रकारद्वैविध्योक्तिः प्रकारिणोः अवान्तरभेदस्य वाचिका । येन तु द्विविधम् इत्युक्त्या स्वतन्त्रस्यापि अवान्तरभेदः वचनवृत्त्या एव उक्तः स्यात् । नापि प्रकारद्वैविध्यं प्रकारिणोः अवान्तरभेदस्य व्याप्यम् । येन तत् द्विविधम् इत्युक्त्या स्वतन्त्रस्यापि अवान्तरभेदः अर्थात् उक्तः स्यात् । किन्तु आश्रययोः ऐक्यप्रापकं प्रकारिद्वित्वं अनुक्त्वा द्विविधम् इति प्रकारद्वित्वोक्तिः प्रकार्यवान्तरभेदस्य सूचिकैव । सा च अपवादाभावे प्रकारिणः अशेषस्य अवान्तरभेदं सूचयति । यथा भावाभावौ द्विधेतरत् इत्यादौ । सति तु अपवादे अपवादविषयातिरिक्ते अवान्तरभेदसूचनेनापि उपपन्ना, न अपवादविषयेऽपि अवान्तरभेदं सूचयति । यथा ‘दुःखस्पृष्टं तदस्पृष्टमिति द्वेधैव चेतनम्’ इत्यादौ । तथा च कुतः स्वोक्तिविरोधः ? न चैवम् द्विविधमित्युक्त्या स्वतन्त्रपरतन्त्रयोः अवान्तभेदः अस्ति इति सूचितम् । तत्र स्वतन्त्रप्रमेयम् एकमेव इत्युक्तं भवति इतितत्त्वविवेकटीकोक्तिः कथम् ? इति वाच्यम् तस्यापि स्वतन्त्रपरतन्त्रयोर्मध्ये अवान्तरभेदः अस्ति इति सूचितमित्येव व्याख्येयत्वात् । अत एव अत्र वक्ष्यति द्विविधमित्युक्त्या परतन्त्रमवान्तरभेदवदिति सूचितम् इति । इति दिक् । साङ्क्यादय इति । अत्र आदिपदेन शैवसङ्ग्रहः । तन्निरासायेति । प्रधानादेः स्वातन्त्र्यनिरासस्तु रचनानुपपत्तेश्च नानुमानम् इत्यादिना शास्त्रे एव कृतो द्रष्टव्यः ।

(वें.टि.) अत्रेति ।। तत्त्वविवेके निर्दोषाखिलसद्गुणत्वस्य स्वातन्त्र्योपपादकस्य सत्वात् ‘भगवान्’ इत्येतत्पूजार्थमिति व्याख्यातम् । अत्र पुनः स्वातन्त्र्योपपादकस्यान्यस्याभावात् तदुपपादकमेव तदिति भावः ।। इदमुक्तमिति ।। स्वतन्त्रो भगवान् विष्णुरेक एवेत्युक्तमित्यर्थः । एतेन अस्वतन्त्रमिव स्वतन्त्रमपि अवान्तरभेदवदिति द्विविधमित्यनेनोक्त्वा ‘स्वतन्त्रो भगवान् विष्णुः’ इत्यनेन स्वतन्त्रव्यक्तेरेकत्वोकौ स्ववचनव्याहतिरित्यपास्तम् । भावानवबोधात् । नहि प्रकारद्वैविध्योक्तिः प्रकारिणोप्यवान्तरभेदस्य वाचिका, येन ‘द्विविध’मित्युक्त्या स्वतन्त्रस्याप्यवान्तरभेदो वचनवृत्या उक्तः स्यात् । नापि प्रकारद्वैविध्योक्तिः प्रकारप्रकारिणोः अवान्तरभेदस्य व्याप्यम् । येन द्विविधमित्युक्त्या स्वतन्त्रस्याप्यवान्तरभेदोऽप्यर्थादुक्तस्स्यात् । किन्तु आश्रययोः व्यक्त्यैक्यप्रापकप्रकारिद्वित्वमनुक्त्वा ‘द्विविधम्’ इति प्रकारद्वित्वोक्तिः प्रकार्यवान्तरभेदस्य सूचिकैव, साचापवादाभावे प्रकारिणोऽशेषस्यावान्तरभेदं सूचयति-  यथा ‘भावाभावौ द्विघेतरत्’ इत्यादौ । सति तु अपवादे अपवादविषयातिरिक्ते अवान्तरभेदसूचनेनाप्युपपन्ना, नापवादविषये अवान्तरभेदं सूचयति । यथा ‘दुःखस्पृष्टं तदस्पृष्टमिति द्वेधैव चेतनम्’ इत्यादौ । तथा च कुतः खोक्तिविरोध इत्यादि ।। तन्निरासायेति ।। ‘न च कर्मविमामलकालगुणप्रभृतीशमचित्तनु तद्भियतः’ इत्युक्तरीत्या प्रधानादिस्वातन्त्र्यनिरासाय ‘स्वतन्त्रो भगवान् विष्णुरेक एवेत्युक्तमित्यर्थः’ ।

काशी टिप्पणी

नन्वस्वतन्त्रमेवादौ कुतो नोद्दिष्टं ? । तज्ज्ञानस्यार्थतः स्वतन्त्रपदार्थधीहेतुत्वादिति । अत आह स्वतन्त्रतत्वस्येति ।। प्राधान्यात् उत्तमत्वात् । तज्ज्ञापनायेति यावत् । उद्दिष्टस्य लक्षणं कुतो नोक्तम् ? अत आह ।। उद्देशेनेति ।। नामसङ्कीर्तनेनेत्यर्थः । इष्यते इत्युक्त्या परीक्षापि लब्धेति चार्थः ।। तत इति ।। स्वतन्त्रस्य प्रथमोद्दिष्टत्वाल्लक्षणादेर्लब्धत्वाच्च तत्स्वरूपमात्रं दर्शयतीत्यर्थः । एतेन मूले भगवानिति लक्षणोक्तेस्तन्निर्देशमात्रत्वं कुतः ? इत्यपास्तम् । उद्देशेनैव लक्षणस्य लब्धत्वेनानाकाङ्क्षितत्वात् । तर्हि भगवत्पदं व्यर्थमत आह ।। अत्रेति ।। भगवत्वं समग्रैश्वर्यादिमत्वम् । विष्णुः स्वतन्त्रो भगवत्त्वात् व्यतिरेकेण जीववत् इति प्रयोगो बोध्यः । न्यूनताभङ्गाय पूरयति ।। अन्यदिति ।। यद्यप्येकस्य स्वातन्त्र्योक्तावन्यस्यास्वातन्त्र्यमर्थाल्लभ्यते तथापि प्रमाणप्रमेयेत्यादिवदेतद्विभागस्य सङ्कीर्णत्वशङ्कानिरासाय पूरणमावश्यकम् । न च स्वातन्त्र्यास्वातन्त्र्ययोर्विरोधान्नैतच्छङ्कावकाश इति वाच्यम् । राजाधीनत्वतदभावयोरिव कादाचित्कसमावेशस्य शङ्क्यत्वात् । पूरणमन्तरापि मूलं व्याख्यातुमाह ।। अथ वेति ।।

अत्र द्विविधमित्युक्त्या प्रसक्तस्वतन्त्रानेकत्वशङ्कापरिहाराय तदेकत्वाभिधानापेक्षया द्वैविध्यानुक्तिरेव लाघवाद्वरमित्याशङ्कामपनेतुं तदावश्यकत्वं तावदाह ।। द्वे इति ।। प्रसज्यत इति ।। द्वित्वस्य व्यक्तिद्वयमात्रवृत्तित्वादिति भावः । ननु द्वे तत्वे इत्यपि न वक्तव्यम् । इतिशब्दाध्याहारमन्तरेणैव स्वतन्त्रमस्वतन्त्रं च तत्वमित्यन्वयोपपत्तेः । ‘‘न च द्रव्यादयः सप्त पदार्थाः’’ इत्यादिवदुक्ताधिकतत्वव्यवच्छेदाय सङ्ख्यानिर्देशावश्यकतेति वाच्यम् । स्वातन्त्र्यास्वातन्त्र्ययोर्भावाभावरूपत्वेन तदुभयानाश्रयत्वशङ्काऽयोगात् । मैवं, नित्यानित्यवत्तदुभयानाश्रयतत्वान्तरसम्भावनाभङ्गाय तदावश्यकत्वात् ।। प्रमाणविरोध इति ।। परतन्त्रानेकत्वग्राहकप्रत्यक्षादिविरोध इत्यर्थः । द्विविधमित्युक्तौ च द्वित्वस्य विधापदार्थप्रकारान्वयान्नोक्तविरोध इति भावः । ततः किं प्रकृते ? इति । अत आह ।। ततश्चेति ।। अनेकं स्यादिति ।। अनेकमिति शङ्का स्यादित्यर्थः । इदमुक्तं स्वतन्त्रो भगवान्विष्णुरित्येतदुक्तम् । अनेन च स्वतन्त्रस्यैकत्वलाभादनेकत्वशङ्कानिरास इति भावः । एतत्कल्पे च स्वतन्त्रमेकमेवेत्येव वक्तुमुचितमित्यपरितोषादाह ।। अथ वेति ।। प्रधानं जडप्रकृतिः । शैवादयः शिवादिकमङ्गीकुर्वन्तीत्यादिशब्दार्थः ।। तन्निरासायेति ।। भगवत्त्वाद्विष्णुरेव स्वतन्त्रो न प्रधानादिरभगवत्त्वात् । अन्यथा ‘‘न ते विष्णो जायमानो न जातो देवमहिम्नः परमन्तमाप इत्यादिश्रुतिविरोधः’’ इत्यादिरीत्या परपक्षनिरासेन स्वपक्षस्थापनायेत्यर्थः । अत्र मूलस्यानेकार्थत्वमभिप्रेतम् । एवमन्यत्राप्यवधेयम् ।