न प्रमासाधनं प्रमाणम् ज्ञानव्यतिरिक्तप्रमायां प्रमाणाभावात्

भाट्टप्रमाणसामान्यलक्षणनिराकरणम्

प्रमाणलक्षणटीका

एवं प्रमाणतदाभासस्वरूपं निरूप्य स्वोक्तलक्षणदृढी-करणाय वाद्यन्तरोक्तलक्षणानि निराकुर्वन् भाट्टानां लक्षणं तावन्निराचष्टे

प्रमाणलक्षणम्

न प्रमासाधनं प्रमाणम्

प्रमेयगतं ज्ञाततापरपर्यायं प्राकट्यं प्रमेत्युच्यते । तत्साधनं प्रमाणम् । अत्र प्रमाग्रहणं कुठारादिव्यावृत्त्यर्थम् । साधनग्रहणं प्रमायामतिव्याप्तिं प्रत्यक्षादावसम्भवं च व्यवच्छिनत्ति ।

न चेन्द्रियसन्निकर्षादावव्याप्तिः । ज्ञानस्यैव मुख्यतः प्रामाण्यात् । न च भ्रमादावतिव्याप्तिः । अर्थानुसारिणो ज्ञातता विशेषस्यैव प्रमात्वात् । भ्रमादिना च तदजननात् । इदमित्या-द्याकारेण जननेऽपि तत्र प्रामाण्याभ्युपगमात् । ज्ञाते पुन-र्ज्ञाततानुदयेन न स्मृतावतिव्याप्तिः । साधनग्रहणेनैव प्रमात्रा-दिव्युदास इति । तदेतल्लक्षणं नोपपद्यते । कुतः ? इत्यत आह

ज्ञानव्यतिरिक्तप्रमायां प्रमाणाभावात्

प्रमेयाश्रयायाः प्रमाया एवाभावेन असम्भवित्वादयुक्त-मिदं लक्षणम् । न हि प्रमेयनिष्ठप्रमायां प्रमाणमस्ति । ज्ञातो घटः ,प्रकटो घटः इति प्रमेयधर्मतया प्रमा प्रत्यक्षत एवानुभूयत इत्यत उक्तम् ।। ज्ञानव्यतिरिक्तेति ।। ज्ञातो घटः इत्यादौ हि ज्ञानमेवप्रमेयविशेषणतया दृश्यते । न तु ततोऽन्या प्रमेति । न च आत्मधर्मस्य ज्ञानस्य प्रमेयविशेषणताऽनुपपत्तिः । इष्टो घटः इत्यादावपि तदभावापातात् । विषयविषयिभावात् तत्रोपपत्तिरिति चेत् समं प्रकृतेऽति ।

न च वाच्यं ज्ञातताऽभावे ज्ञानस्य विषयनियम एव अयुक्तः । यदाकारं यत् विज्ञानं तत् तद्विषयमिति हि बौद्धानामेव शोभत इति । तथा सति इच्छादीनामपि विषय-नियमाभावप्रसङ्गादिति ।। करणविषयतया तत्रोपपत्तिरिति चेत् तुल्यम् । अन्यथा तेनैव ज्ञानेन अत्रैव ज्ञातता जायत इति नियमो न स्यादिति ।

प्रमाणलक्षणटीकाभावदीपः

।। ज्ञानस्यैव मुख्यतः प्रामाण्यादिति ।। ज्ञानस्यैव साक्षात् ज्ञातताशब्दितप्रमासाधनत्वात् सन्निकर्षस्य तु तद्द्वारेति इह साक्षात्साधनमेव अभिमतमिति भावः  ।। भ्रमादाविति ।। भ्रमे तत्साधने चेत्यर्थः । तयोरपि मुख्यामुख्यतः प्रमासाधनत्वादिति भावः । यद्वा आदिपदेन संशयग्रहः ।। अर्थानुसारिण इति ।। सत्यभूतवस्त्वनुसारिणो भ्रमविषयव्यावृत्तस्य ज्ञातता-विशेषस्यैव प्रमात्वादित्यर्थः ।। न स्मृताविति ।। तद्विषये ज्ञाततानुदयेन तत्र ज्ञाततासाधनत्वाभावादिति भावः ।। प्रमात्रादीति ।। तस्य प्रमां प्रति हेतुत्वेऽपि साधनत्वाभावादिति भावः।

 ।। न चात्मधर्मस्येति ।। पररीत्येयमुक्तिः । स्वामितासम्बन्धेन आत्म-धर्मस्येति वा ।। विषयविषयीति ।। आन्तरस्यैव इच्छादेः विषयविषयिभावरूप-सम्बन्धेन बाह्यर्थं विशेष्यतया इच्छादिकं विशेषणतया साक्षी वा मानसानुव्यवसायो वा गृह्णातीति चेत् समं ज्ञानेऽपीत्यर्थः ।। करणेति ।। करणानामपि ज्ञानादेरिव सविषयकत्वात् तद्विषया एव इच्छाद्वेषादिविषयाश्चेत् ज्ञानेऽपि तथात्यर्थः ।। अन्यथेति ।। करणकृतनैयत्याभाव इत्यर्थः ।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

असङ्गतिपरिहारायोक्तम् ।। स्वोक्तलक्षणदृढीकरणायेति ।। यथार्थं प्रमाणम् इति स्वोक्तलक्षणदृढीकरणायेत्यर्थः । तदीयग्रन्थेषु ‘प्राकट्यसाधनं ज्ञानं प्रमाणम्’ इति व्यवहृतं । अतोऽसदनुवादोयमिति शङ्कावारणाय ज्ञाततापरपर्यायं  प्राकट्यमित्युक्तम् । प्रमेयगतमित्यनेन ‘ज्ञातो घटः, प्रकटो घटः’ इति प्रत्यक्षमपि तत्र प्रमाणमिति सूचयति ।। कुठारादीति ।। साधनं प्रमाणमित्युक्ते  कुठारादावतिव्याप्तिः स्यात् । तदर्थं प्रमाणग्रहणमित्यर्थः । प्रमायां ज्ञाततायं । प्रत्यक्षादौ ‘अयं घटः’ इत्यादिज्ञाने । तथा च प्रमा प्रमाणम् इत्युक्ते ज्ञाततायामेव अतिव्याप्तिः लक्ष्यभूते ज्ञाने असम्भवश्च । अतः साधनग्रहणमित्यर्थः ।

।। इन्द्रियसन्निकर्षदाविति ।। ज्ञानस्यैव ज्ञाततासाधनत्वेन इन्द्रियसन्नि-कर्षलिङ्गादेः तदभावादव्याप्तिरित्यर्थः ।। ज्ञानस्यैवेति ।। तथा च इन्द्रियसन्निकर्षादेः प्रामाण्यानङ्गीकारात् न तत्राव्याप्तिर्दोष इति भावः ।। भ्रमादाविति ।। ज्ञातता-साधनत्वस्य भ्रमरूपज्ञानेऽपि सत्त्वादित्यर्थः ।। अर्थानुसारिण इति ।। यथाव-स्थितार्थगतस्येत्यर्थः । प्रमात्वात् प्रमाशब्दवाच्यत्वात् । तथा च ज्ञातताविशेषसाधनं प्रमाणमिति लक्षणार्थाे द्रष्टव्यः ।

।। तदजननादिति ।। ज्ञातताविशेषस्य अजननादित्यर्थः । तथा च तत्रार्थस्यैवाभावेन भ्रमेण तत्र ज्ञातताविशेषस्य अजननात् ज्ञातताविशेष साधनत्व-लक्षणस्य न भ्रमेऽतिव्याप्तिरिति भाव: ।

नन्विदमंशस्य यथार्थत्वात् तदंशे ज्ञातताविशेषजनकत्वं भ्रमेऽस्तीति पुनरतिव्याप्तिरेव इत्यतः तदंशे प्रामाण्यस्यापि सत्त्वेन लक्ष्यत्वात्् नातिव्याप्तिरित्याह ।। इदमित्याद्याकारेणेति ।। ‘तद्विषयत्वमेव तदाकारत्वम्’ इति वचनात् इदमंशविषयकज्ञानेनेत्यर्थः । जननेऽपि ज्ञातताया इति शेषः । तत्र तदंशे ।

ननु स्मृतेरपि ज्ञाततासाधनत्वात्  अतिव्याप्तिरित्याशङ्क्य निराकरोति ।। ज्ञाते पुनरिति ।। स्मृतिविषयभूतार्थस्य पूर्वानुभवेनैव ज्ञातत्वेन तेनैव तत्र ज्ञातताय उत्पन्नत्वादिति भावः ।। साधनग्रहणेनैवेति ।। प्रमाकारणं  प्रमाणमित्युक्ते  प्रमातुरात्मनो घटादेः प्रमेयस्यापि ज्ञानद्वारा तत्कारणत्वादतिव्याप्तिः स्यात् । अतः साधनग्रहणम् । तथा च आत्मादेः करणत्वाभावात् तेन तद्व्युदास इत्यर्थः । प्रमात्रादीत्यादिपदेन प्रमेयग्रहणम् ।

 ।। प्रत्यक्षत एवेति ।। अनुव्यवसायरूपादेवेत्यर्थः ।। ज्ञानव्यतिरिक्तेतीति ।। तथा च प्रत्यक्षस्य ज्ञानविषयकतया अन्यथासिद्धत्वात् न ज्ञातताविषयकत्वमिति भावः । तदेवोपपादयति ।। ज्ञातो घट इत्यादाविति ।। इत्यादौ अनुव्यवसाये ।। प्रमेयविशेषणतयेति ।।

अयं भावः, क्रिया हि कर्तृस्थैव । सा यदि कर्तृप्राधान्येन व्यवह्रियते तदा कर्तृधर्मतया प्रतीयते । यथा देवदत्तो घटमिच्छति द्वेष्टि इति । यदा च कर्मप्राधान्येन तदा तद्धर्मतया । यथा इष्टो द्विष्ट इति । यदापुनः  स्वप्राधान्येन तदा स्वतन्त्रैव । यथा इच्छा द्वेष इति । एवं कर्तृभूतात्मगता ज्ञानरूपा क्रियाऽपि यदा  कर्तृप्राधान्येन व्यवह्नियते तदा देवदत्तो जानाति’ इति कर्तृधर्मतया प्रतियते यदा तु स्वप्राधान्येन व्यवह्नियते तदा स्वतन्त्रैव प्रतीयते । यथा ज्ञानम् इति । यदा पुनः कर्मप्राधान्येन व्यवह्रियते  तदा ज्ञातो घटः इति  कर्मंभूतप्रमेयधर्मंतया प्रतीयत इति  किमनुपपन्नम् ? इति

।। न तु ततोऽन्या प्रमेति ।। ‘अयं घटः’ इति प्रथमज्ञाने हि शुद्ध एवार्थोऽ-वभासते । न तु ज्ञातताविशिष्टः । तदानीं तस्य अजातत्वात् । तामुत्पाद्य पुनः तद्विशिष्टार्थं विषयीकरोतीत्यङ्गीकारे तु विरम्यव्यापारप्रसङ्गात्।न च ‘जातो घटः’इत्यनुव्यवसायरूपोत्तरज्ञाने प्रथमज्ञानविषयीकृतात्  अधिकोऽर्थश्चकास्ति  सैव ज्ञाततेति वाच्यम् । तस्य ज्ञानविषयकत्वेन अन्यथासिद्धतया उक्तरूपज्ञातताविषयकत्वाभावादिति भावः । उक्तं च अनुव्याख्याने

मयैतज्ज्ञातमिति तु साक्षिगं ज्ञानगोचरं ।

ज्ञानमेव ततोऽन्या न प्रमितिर्नाम दृश्यते ।। इति ।।

इष्टो घटः’ इत्यादावित्यत्र आदिपदेन ‘द्विष्टो घटः’ इत्यस्य संग्रहः ।। तदभावापातादिति ।। आत्मधर्मभूताया इच्छाया अपि प्रमेयविशेषणत्वा-भावापातादित्यर्थः ।। विषयेति ।। ‘इष्टो घटः’ इत्यादौ इच्छाघटयोर्विषयविषयि-भावसद्भावेन आत्मधर्मभूताया अपि इच्छायाः घटविशेषणत्वमुपपन्नमित्यर्थः ।। सममिति ।। ‘ज्ञातो घटः’ इत्यादावपि ज्ञानघटयोर्विषयविषयिभावसद्भावेन आत्मधर्मभूतस्यापि ज्ञानस्य घट विशेषणत्वमुपपन्नमित्यर्थः  ।। विषयनियम एवायुक्त इति ।। ज्ञाततासद्भावे तु घटज्ञानजन्यज्ञातताधारत्वात् घटज्ञानस्य घट एव विषयो नान्य इति विषयनियमः सम्भवतीति भावः।

ननु ज्ञाततानङ्गीकारेऽपि ज्ञानस्य विषयनियमः सम्भवति । ‘यदाकारं यत् विज्ञानं तत् तद्विषयकम्’ इत्यङ्गीकारेण घटज्ञानस्य घटाकारत्वेन पटाकारत्वाभावात् घटविषयकत्वस्यैवोपपत्तेः इत्याशङ्क्य निषेधति ।। यदाकारमिति ।। शोभत इति ।। तथा च मम तथा अङ्गीकारे अपसिद्धान्तः स्यात् । अतो ज्ञाततयैव विषयनियमो वाच्य इति भावः । इति न च वाच्यमिति सम्बन्धः

।। तथा सतीति ।। ज्ञाततयैव ज्ञानस्य विषयनियमाङ्गीकार इत्यर्थः ।। इच्छादीनामपीति ।। तथा च इच्छादीनामपि  विषयनियमार्थं इष्टतापि काचन अङ्गीकार्या स्यादिति भावः ।

नन्विष्टताऽनङ्गीकारेऽपि इच्छाविषयनियमः सम्भवति । इच्छाकारणीभूतस्य ज्ञानस्य घटमात्रविषयकत्वेन तज्जन्येच्छाया अपि तन्मात्रविषयकत्वोपपत्तेः  इत्याशङ्कते ।। कारणविषयतयेति ।। तुल्यमिति ।। ज्ञाततानङ्गीकारेऽपि ज्ञानस्य विषयनियमः सम्भवति । तत्कारणीभूतस्य इन्द्रियसन्निकर्षस्य घटमात्रविषयकत्वेन तज्जन्यज्ञानस्यापि तन्मात्रविषयत्वोपपत्तेरिति तुल्यमित्यर्थः

।। अन्यथेति ।। घटसन्निकृष्टेन्द्रियजन्यत्वात् घटज्ञानस्य तद्विषयकत्वमित्य-नङ्गीकृत्य ज्ञानतजन्यज्ञातताधारत्वादेव ज्ञानस्य विषयनियम इत्यङ्गीकारे घटज्ञानजन्यज्ञातताधारत्वं घट एव कुतः ? पटेऽपि किं न स्यात् ? तथा च घटज्ञानेन घट एव  ज्ञातता जायत इत्यपि नियमो न स्यादित्यर्थः । तथा चैतदतिप्रसङ्गपरिहाराय’ घटज्ञानस्य घटसन्निकृष्टेन्द्रियजन्यत्वात् घट एव ज्ञातताजनकत्वं, न पटे’ इत्येवं ज्ञातताङ्गीकारवादिनापि अवश्यं वक्तव्यमेव तथा च अस्माकमपि तेनैव ज्ञानस्य विषयनियमोपपत्तौ किं ज्ञातताङ्गीकारेण ? इति भावः ।

प्रमाणलक्षणटीकाविवरणम्

।। स्वोक्तलक्षणेति ।। तथा च नासंगतिरिति भावः । नन्वेवं प्रमासाधनत्वस्य नैय्यायिकलक्षणत्वेन तद्दूषणेनैवास्य दुष्टत्वात्पृथद्गूषणमुक्त म्। अनुक्तानुवादश्च स्यात् । अत एव पद्धतौ पृथगेव लक्षणमभिहितम् । ज्ञातताप्राकट्या-परपर्यायस्येत्यादिना तत्कथमेतदित्यत आह ।। प्रमेयगतमिति ।। प्रमाया ज्ञाततायां प्रत्यक्षादाविति ज्ञानसाधनत्वस्यैव तत्वेन ज्ञाततात्वाभावादिति भावः।न चेति ।। ज्ञानस्यैव ज्ञातता साधनत्वादिति भवः । अर्थानुसारिण इति । ज्ञानजन्यज्ञेयनिष्ठ-ज्ञातताविशेषस्येत्यर्थः । कथमेतावतापि तद्व्यावृत्तिरित्यत अह भ्रमादिनेति ।।

नन्विदमाकारस्य ज्ञाततासाधनत्वात्तत्रातिव्याप्तिरित्यतो लक्ष्यत्वादेव नातिव्याप्तिरित्याह ।। इदमिति ।। ज्ञातइति ।। अनुभवेनैव ज्ञाततोत्पादादित्यर्थः । ।। साधनग्रहणेनेति ।।

नन ुकथं सधनग्रहणेनापि तद्व्यावृत्तिरिति चेत् । यस्मिन् सति नियमेन कार्यमुत्पद्यते यदभावे च नोत्पद्यते तदुच्यते साधनम् । न च तादृशं प्रमात्रादि । उपपादितं चैतत् प्रमाणलक्षणव्याख्यानावसरे । अत्र सर्वत्र प्रमापदेन ज्ञाततैव ग्राह्येति हृदयम् । तदभावापातादिति इच्छाया अपि आत्मधर्मत्वेन घटविषयत्वा-भावापातादित्यर्थः । ननु इच्छाया आत्मधर्मत्वेऽपि घटेच्छयोर्विषयविषयीभवसत्वेन तद्विषयत्वं संभवतीति शंकते ।। विषयेति ।।

ननु ज्ञाततानङ्गीकारेऽपि सविषयनियमः संभवति । यदाकारं यद्विज्ञानं स तस्य विषय इति अङ्गीकारे घटोऽयमित्याकारस्य घटाकारत्वेन घटविषयकत्वेऽपि पटविषयत्वं नस्ति तदाकारत्वाभावादित्यत आह ।। यदाकारमिति ।। शोभत इति ।। न च वाच्यमिति संबन्धः ।। तथा सतीति ।। तथा चेष्टताऽप्यंगीकार्यः स्यात् । न चेष्टापत्तिः । अपसिद्धांतादिति ।

ननु इष्टतानङ्गीकारेऽपीच्छाविषयः संभवति । इच्छाजनकज्ञानस्य घटमात्रविषयकत्वेन तज्जन्येच्छाया अपि तन्मात्रविषयत्वसंभवादित्यभिप्रायेण शंकते ।। कारणेति ।। तुल्यमिति ।। ज्ञाततानंगीकारेऽपि तत्कारणीभूतेन्द्रियसंन्नि-कर्षस्य घटमात्रविषयकत्वेन तस्य ज्ञानस्य घटमात्रविषयकत्वादिति तुल्यमिति अंगीकुर्वद्भिरस्माभिः संस्कारमात्रेत्यत्र मात्रपदेन प्रत्यभिज्ञाव्यावृत्तिः ।