पक्षत्रयवृत्तिरनैकान्तिकः । सोऽपि बहुविधः

अनैकान्तिकः

प्रमाणलक्षणटीका

पक्षत्रयवृत्तिरनैकान्तिकः । सोऽपि बहुविधः ।

तत्र पक्षत्रयव्यापको यथा । शब्दोऽनित्यः प्रमेयत्वात्’ इति । पक्षव्यापकः सपक्षविपक्षैकदेशवृत्तिर्यथा ‘प्रत्यक्षत्वात्’ इति। पक्षसपक्षव्यापको विपक्षैकदेशवृत्तिर्यथा ‘अयं गौर्विषाणित्वात्’ इति । पक्षविपक्षव्यापकः सपक्षैकदेशवृत्तिर्यथा ‘नायं गौ-र्विषाणित्वात्’ इति । पक्षत्रयैकदेशवृत्तिर्यथा ‘पृथिवी नित्या प्रत्यक्षत्वात्’ इति । पक्षसपक्षैकदेशवृत्तिर्विपक्षव्यापको यथा ‘आत्ममनसी द्रव्ये अमूर्तत्वात्’ इति । पक्षविपक्षैकदेशवृत्तिः सपक्षव्यापको यथा ‘आत्ममनसी न द्रव्ये अमूर्तत्वात्’ इति। सपक्षविपक्षव्यापकः पक्षैकदेशवृत्तिर्यथा आकाशात्ममनांसि द्रव्याणि क्षणिकविशेषगुणरहितत्वात्’ इति ।। २२३ ।।

प्रमाणलक्षणटीकाभावदीपः

।। पक्षत्रयेति ।। पक्षसपक्षविपक्षेष्वित्यर्थः ।। प्रत्यक्षत्वादिति ।। शब्दानित्यत्वे साध्ये सपक्षेष्वनित्येषु विपक्षेषु नित्येषु च सर्वत्र प्रत्यक्षत्वस्याभावात् इति भावः । अयमिति पिण्डविशेषनिर्देशः । गोत्वावच्छिन्ने सर्वत्र पक्षे सपक्षे सत्त्वात् गोत्वहीने महिषादौ सत्त्वेपि अश्वादावभावात् इति भावः।

।। अयं न गौरिति ।। महिषस्य गोत्वे साध्ये पक्षे विपक्षे गोत्वावच्छिन्ने च सर्वत्र विषाणित्वस्य सत्त्वात् सपक्षे गोत्वहीने सर्वत्रासत्त्वात् इति भावः ।। प्रत्यक्षत्वादिति ।। तस्य नित्येष्वनित्येषु च  सर्वत्राभावात् इति भावः ।। अमूर्तत्वादिति ।। तस्य पक्षैकदेशे मनसि सपक्षैकदेशे भूतचतुष्टये चाभावात् द्रव्यत्वहीने विपक्षे गुणकर्मादौ सर्वत्रा भावात् इति भावः ।। क्षणिकविशेषेति ।। अस्य हेतोः पक्षैकदेशे मनसि भावेऽप्यात्माकाशयोरभावात् अद्रव्ये गुणकर्मादौ सर्वत्राभावात् विपक्षे द्रव्ये च सर्वत्राभावात् इति भावः । अत एव तादृशागुणवतो-रात्माकाशयोर्द्वयोरपि पक्षकोटिप्रवेशः कुतः ।। २२३ ।।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

अथानैकान्तिकं लक्षयति ।। पक्षत्रयवृत्तिरिति ।। पक्षाऽदित्रयवृत्तिरित्यर्थः ।। प्रमेयत्वादिति ।। अस्य हेतोः पक्षाऽदित्रयव्यापकत्वं केवलान्वयित्वात् स्फुटमेव ।

 ।। प्रत्यक्षत्वादिति ।। अत्र ‘शब्दोऽनित्य:’ इति प्रतिज्ञाऽनुवृत्तिर्द्रष्टव्या । अयं च हेतुः पक्षव्यापकः । अनित्यत्ववति घटादौ सत्त्वेऽपि धर्मादावभावात् सपक्षैकदेशवृत्ति: । अनित्यत्वाभाववति सामान्ये सत्त्वेऽपि परमाण्वादावभावात् विपक्षैकदेशवृत्तिश्चेति ज्ञातव्यम् । अयं पुरोवृत्तिः .गौः गोरूपपदार्थः ।। विषाणि-त्वादिति ।। अयं च हेतु: पक्षव्यापकः । गोत्वाभववति महिषादौ सत्त्वेऽपि घटादावभावाद्विपक्षैकदेशवृत्तिरित्यर्थः ।। नायं गौर्विषाणित्वादिति ।। अयं च हेतुः पक्षव्यापकः । गोत्वाभाववति महिषादौ सत्त्वेऽपि अश्व•वभावात् सपक्षैक-देशवृत्तिः ।

।। प्रत्यक्षत्वादिति ।। अयं च हेतुः कार्यरूपपृथिव्यां सत्त्वेऽपि परमाणुरूपायामभावात् पक्षैकदेशवृत्तिः । तथा नित्यत्ववति सामान्ये सत्त्वेऽपि गगनादावभावात्  सपक्षैकदेशवृत्तिःनित्यत्वाभाववति घटादौ सत्त्वेऽपि धर्मादावभावाद्विपक्षैकदेशवृत्तिश्चेत्यर्थः ।

।। अमूर्तत्वादिति ।।  इयत्तावच्छिन्नपरिमाणशून्यत्वादित्यर्थः । अयं च हेतुरात्मनि सत्त्वेऽपि मनस्यभावात् पक्षैकदेशवृत्तिः । द्रव्ये गगनादौ सत्त्वेऽपि घटादावभावात् सपक्षैकदेशवृत्तिः । द्रव्यभिन्ने वस्तुनि गुणस्यैवाभावेन निरुक्तहेतोः सत्त्वाद्विपक्षव्यापकः ।। अमूर्तत्वादिति ।। उक्तरीत्या पक्षैकदेशावृत्तिरयं हेतुर्द्रव्यत्वाभावशून्ये गगने सत्त्वेऽपि घटादावभावात् विपक्षैकदेशवृत्तिः । द्रव्यत्वा-भाववति सर्वत्र सत्त्वात् सपक्षव्यापकश्चेत्यर्थः

।। क्षणिकेति ।। अयं हेतुः पृथिव्यादिद्रव्यषद्कवृत्तित्वात् सपक्षव्यापकः । तथा द्रव्यभिन्ने गुणादौ गुणस्यैवाभावेनोक्तहेतोः सत्त्वात् विपक्षव्यापकः । तथा अस्य हेतोर्मनसि सत्त्वेऽपि शब्दबुद्धिरूपक्षणिकविशेषगुणवतोराकाशात्मनोरभावात् पक्षैकदेशवृत्तिरित्यर्थः ।। २२३ ।।

प्रमाणलक्षणटीकाविवरणम्

साधारणानैकान्तिकलक्षणमाह ।। पक्षत्रयवृत्तीति ।। पक्षवृत्तिः सपक्षवृत्तिश्चेत्यर्थः । प्रमेयत्वं त्रितयव्यापकं । प्रत्यक्षत्वं सपक्षवृत्ति न भवति । सामान्यादौ सत्वेऽपि गगनादावभावात् । एवमेव विपक्षसपक्षैकदेशवृत्तित्वं बोध्यं। विषाणित्वादिति विषाणित्वं पक्षीभूते गवि वर्तते, गोत्वाभाववत् । महिष्या-दिसकलवृत्तित्वाभावाद्विपक्षैकदेशवृत्तिगोत्ववत् गवान्तरे व्यापकत्वात् । सपक्ष-व्यापकत्वं चेत्यर्थः

।। न गौरिति ।। गोत्वभावे साध्ये तद्वन्महिष्यादिसकलसपक्ष-व्यापकत्वाभावात् । सपक्षेकदेशवृत्तित्वं गोत्ववत् गोव्यक्तिमात्रे विद्यमानत्वा-द्विपक्षव्यापकत्वं।। पृथिवीनित्येति ।। घटादिरूप पृथिव्या प्रत्यक्षत्वेऽपि परमाणुरूपायास्तदभावात्पक्षैकदेशवृत्तित्वं । नित्यत्ववत् सामान्यादौ प्रत्यक्षत्वसत्वेपि तद्वद् गगनानाद्यवृत्तित्वात् सपक्षैकदेशवृत्तित्वं । नित्यत्वरूपसाध्यभावान्नित्यत्ववज्जलादौ सर्वत्र प्रत्यक्षत्वात् विपक्षैकदेशवृत्तित्वं बोध्यम् ।। मूर्तवदिति ।। मूर्तत्वस्य घटादौ सत्वेऽपि गगनादौ तदभावात् सपक्षैकदेशवृत्तित्वं । द्रव्यत्वाभाववत् गुणादिमात्रवृत्तित्वाद्विपक्षव्यापकत्वं ।

।। क्षणिकेति ।। तद्धि न गुणादिवृत्तीति ।। सकलसपक्षवृत्ति मनसि सत्वेपि अत्मन्यभावात् पक्षकदेशवृत्ति सकलपक्षवृत्तित्वाभावाद्विपक्षैकदेश-वृत्तीत्यर्थः ।। २२३ ।।