अबोधकशब्दप्रयोगो निरर्थकम्
निरर्थकम्
प्रमाणलक्षणटीका
अबोधकशब्दप्रयोगो निरर्थकम् । तच्च बहुप्रकारम् ।
कचटतपेत्यादिमातृकापाठमात्रम् लिङ्गविभक्तिवर्णविपर्यासः कृत्तद्धितसमासाऽख्यातविपर्यासः भाषाऽन्तरसङ्करश्चेत्यादि ।
कथञ्चित् ज्ञापकत्वात् कथमेतन्निग्रहस्थानमिति चेन्मैवम्। नहि कथञ्चिज्ज्ञापकत्वं शब्दधर्मः प्रकरणाऽदिनैव तत्र ज्ञानोदयात् । भाषाऽन्तरसङ्करोऽपि समसमयत्वाभावे निग्रह-स्थानम्। अन्यथा ज्ञानसङ्गूहनार्थं स्वभाषया प्रत्यवतिष्ठमानं प्रति तदनभिज्ञस्योत्तराभावप्रसङ्ादिति ।। ७ ।।
प्रमाणलक्षणटीकाभावदीपः
लिङ्गेति ।। विपर्यासपदं प्रत्येकमन्वेति ।। कथञ्चिदिति ।। ‘घटं तिष्ठति’ इत्याद्युक्तावपि अर्थबोधदर्शनात् इति भावः । तत्र जायमानो बोधो न शब्दजन्य इत्याह ।। प्रकरणाऽदिनेति ।।। ‘घट’ इत्यादिरनुमितः शब्दआदिपदार्थः।। समसमयत्वेति ।। वादिप्रतिवादिनोर्द्वयोरपि समसङ्केतत्वाभाव इत्यर्थः। अन्यतरस्य भाषापरिज्ञानाभाव इति यावत् ।। अन्यथेति ।। तस्य पराजयहेतुत्वाभाव इत्यर्थः।
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
‘‘अवाचकप्रयोगे स्यान्निरर्थकसमुद्भवः’’
इति कारिकाऽनुसारेण निरर्थकं लक्षयति ।। अबोधकशब्देति ।। मातृकापाठेति ।। अक्षरपाठेत्यर्थः ।।कथञ्चिदिति ।। तत्वाप्रतिपत्तिलिङ्गत्वरूपनिग्रहस्थानलक्षणा-भावादित्यर्थः ।। न हीति ।। किं तु ? सम्याज्ञापकत्वमेव । तत्तु कचटतपेतिमातृका-पाठलिङ्गविपर्यासाऽदिभिर्न भवत्येवेति तत्वाप्रतिपत्तिलिङ्गत्वात् युक्तं निग्रह-स्थानत्वमिति भावः । ननु कथञ्चिज्ज्ञापकत्वस्य शब्दधर्मत्वाभावे कथञ्चिज्ज्ञानमपि तत्र कथं भवति ? इत्यत आह ।। प्रकरणाऽदिनैवेति ।। न तु शब्देनेत्यर्थः ।
ननु भाषान्तरसङ्करस्य निग्रहस्थानत्वे वादिप्रतिवादिनोः परस्परं भाषाऽभि-ज्ञयोर्यत्र ‘स्वस्वभाषयैव कथनीयम्’ इति समयबन्धेन कथाप्रवृत्तिस्तत्रापि निग्रहस्थानं स्यात् इत्यत आह ।। भाषाऽन्तरसङ्करोऽपीति ।। समसमयः ‘स्वस्वभाषयैव कथनीयम्’ इति सङ्केतबन्धः । समसमयत्वदशायां तु न निग्रहस्थानत्वमिति भावः।
।। अन्यथेति ।। समसमयत्वाभावदशायामपि निग्रहस्थानत्वानङ्गीकार इत्यर्थः। समसमयत्वाभावदशायामिति शेषः । तदनभिज्ञस्य । तदीयभाषानभिज्ञस्य प्रतिवादिनः ।। उत्तराभावप्रसङ्गादिति ।। तदनमिज्ञः ‘त्वया भाषाऽन्तर-सङ्करकरणात् मम तदज्ञानात् तव निरर्थकं नाम निग्रहस्थानम्’ इति उत्तरं वदति । तन्न स्यात् इत्यर्थः । तथा च समसमयत्वाभावे निग्रहस्थानं भवत्येवेति भावः ।। ७।
प्रमाणलक्षणटीकाविवरणम्
निरर्थकं लक्षयति ।। अबोधकेति ।। ननु भाषांतरसङ्करस्य कथं निग्रहस्थानत्वमित्यत आह ।। भाषेति ।। समसंकेतभाव इत्यर्थः । निग्रह-स्थानत्वाभावे दूषणमाह ।। अन्यथेति ।। समसंकेतत्वाभावेऽपि निग्रह-स्थानत्वानङ्गीकार इत्यर्थः ।
अयमाशयः – शब्दप्रयोगो हि परस्यार्थज्ञानार्थं क्रियते । अन्यप्रयोजनाभावात्। तथाच स्वभाषया प्रत्यवस्थाने परस्य तद्भानाभावेन शब्दप्रयोजनाभावेन तत्प्रयोगस्य वैय्यर्थ्यं स्यादिति भावः ।