अनिष्टभ्रमेणेष्टाऽपादनं मतानुज्ञा
मतानुज्ञा
प्रमाणलक्षणटीका
अनिष्टभ्रमेणेष्टाऽपादनं मतानुज्ञा । यथा केनचित् स्वस्य चोरत्वमभ्युपेत्य ‘त्वं चोरः पुरुषत्वात्’ इत्युक्ते ‘तर्हि तवापि चोरत्वप्रसङ्ग’ इति । न ह्यनेनात्मनश्चोरत्वं परिहृतं । नाप्ययं प्रसङ्गः इष्टापत्तिरूपत्वात् इति ।। १८ ।।
प्रमाणलक्षणटीकाभावदीपः
तस्य निग्रहस्थानत्वं साधयति ।। नहीत्यादिना ।। प्रसङ्ग इति ।। तर्करूपप्रसङ्ग इत्यर्थः ।। १८ ।।
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
‘‘अनिष्टभ्रमतोऽन्येषामिष्टमापादयेद्यदि ।
मतानुज्ञेति तस्य स्यान्निग्रहस्थानमुत्कटम्’’
इतिकारिकाऽनुसारेण मतानुज्ञां लक्षयति ।। अनिष्टभ्रमेणेति ।। इष्टस्यापादना-योगेनासम्भवः स्यात् अत उक्तम् अनिष्टभ्रमेणेति । तत एव पुरुषत्वहेतुबलादेव । अस्येष्टापादानत्वोपपादनायैव स्वस्य चोरत्वमभ्युपगम्य इत्युक्तम् । पुरुषत्वहेतोः स्वात्मनि व्यभिचारपरिहारायैतदुक्तम् इत्यप्याहुः । नन्वप्रतिपत्यादिहेतुत्वाभावात् कथमिदं निग्रहस्थानम् ? इत्यत आह ।। न ह्यनेनेति ।। तवापि चोरत्वप्रसङ्ग इत्यापादनेनेत्यर्थः । तथा च स्वस्य चोरत्वेऽपरिहृतेऽपि परिहृतमिति विरुद्धार्थ-प्रतिपत्तिरूपविप्रतिपत्तिसूचकत्वान्निग्रहस्थानं भवत्येवेति भावः ।
प्रकारान्तरेण विप्रतिपत्तिहेतुत्वमुपपादयति ।। नापीति ।। प्रसङ्ग आपादनं । समीचीन इति शेषः । कुतो न ? इत्यत आह ।। इष्टापत्तीति ।। ‘तर्कोऽनिष्टप्रसङ्गः स्यात्’ इत्युक्तत्वेनात्र तदभावादित्यर्थः । तथा चानिष्टभ्रमरूपविप्रतिपत्तिसूचकत्वा-च्चेदं निग्रहस्थानम् इति भावः ।। १८ ।।
प्रमाणलक्षणटीकाविवरणम्
मतानुज्ञालक्षणमाह ।। अनिष्टेति ।। वस्तुतो वादिन इष्टः अनिष्टत्वभ्रमेण वादिनस्तस्यापादनं मतानुज्ञेत्यर्थः ।। नाप्ययमिति ।। कुतोनेत्यत आह ।। इष्टापत्तीति ।। परं प्रति हि अनिष्टमेवापादनीयं नत्विष्टं । अनिष्टप्रसञ्जनं तर्क इत्युक्तेरिति ।। १८ ।।