पक्षादीनामन्यतमस्यासिद्धिमुद्भाव्य..

कार्यसमः

प्रमाणलक्षणटीका

पक्षादीनामन्यतमस्यासिद्धिमुद्भाव्य तत्साधकत्वेन स्वयमेवोत्प्रेक्षितस्य दूषणेन वादि साधनभङ्गः कार्यसमः ।

यथा ‘पर्वतोऽग्निमान्’ इत्युक्ते पर्वतस्यैवाभावादा-श्रयासिद्धिः । ‘यदिप्रतीयमानत्वात् सोऽस्तीत्युच्यते तन्न । शुक्तिरजतादौ व्यभिचारात्’ इति । व्यवहर्तव्यद्वैतमत्र हेतु-रुत्थानस्य । तत्तदङ्गसिद्धिरारोप्या। अस्य जातावपि तुल्यत्वेन व्याघातः । उत्प्रेक्षितदोषेण वाद्युक्तस्यासाधकत्वोक्तेरविषय-वृत्तित्वञ्चेति ।। २३ ।। 

 प्रमाणलक्षणटीकाभावदीपः

।।व्यवहर्तव्यद्वैतमिति ।। व्यवहर्तव्यवस्तुषु सत्त्वादिभेदेन द्वैविध्यमित्यर्थः ।। तत्तदङ्गेति ।। आश्रयव्याप्तिपक्षधर्मताद्यङ्गेत्यर्थः ।। अस्य जातावपीति ।। धूमवत्वं असाधकं आश्रयासिद्ध्यादेः इत्यत्रापि ‘धूमवत्वं असिद्धं , प्रतीतत्वात् अस्ति चेत् छुक्तिरूप्यादौ प्रतीतिर्व्यभिचारिणी , तथा च आश्रयासिद्धिः’ इति दोषस्य जातावपि तुल्यत्वेनेत्यर्थः ।। २३ ।।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

असिद्धतां वादिहेतोरुक्त्वा तं साधयेत्स्वयम् ।

तदृूषणान्मूलहेतुभङ्गः कार्यसमो भवेत् ।।

इतिकारिकानुसारेण कार्यसमजातेर्लक्षणमाह ।। पक्षादीनामिति ।। व्यभि-चारादिति ।। ‘यत्र प्रतीयमानत्वं तत्र सत्त्वं’ इति व्याप्तेः व्यभिचारादित्यर्थः । इतिशब्दः प्रभृत्यर्थकः । तथा च धूमवत्त्वस्यैवाभावात् स्वरूपासिद्धिः । यदि प्रतीतत्वात् सोऽस्ति इत्युच्येत तन्न । शुक्तिरजतादौ  व्यभिचारात् इत्यादिकमूह्यम्।

।। व्यरहर्तव्यद्वैतमिति ।। प्रतीति जन्यविषयव्यवहारविषयस्य क्वचित् सत्त्वं क्वचित् असत्त्वञ्च इति द्वैविध्यदर्शनमित्यर्थः ।। तत्तदङ्गासिद्धिरिति ।। तस्य तस्य सदाश्रयत्वपक्षधर्मत्वादिरूपस्य अङ्गस्य असिद्धिरित्यर्थः ।

।। अस्येति ।। स्वोत्प्रेक्षितदूषणेन वादिसाधनभङ्गस्येत्यर्थः ।। जातावपीति ।। तथा च ‘धूमवत्त्वादिति हेतुः साध्यासाधकः आश्रयासिद्ध्यादेः’ इति प्रतिषेधानुमानेऽपि पक्षस्यैवाभावात् आश्रयासिद्धिः । यदि प्रतीयमानत्वात् सोऽस्ति इत्युच्येत तन्न । शुक्तिरजतादौ व्यभिचारात् इति वक्तुं शक्यत्वेन स्वन्यायविरोध इत्यर्थः ।। उत्प्रेक्षितेति ।। स्वयमेव पक्षादिसाधकत्वेनोत्प्रेक्षितेत्यर्थः

।। अविषयवृत्तित्वं चेति ।। पक्षादिसाधकत्वेन वाद्युक्तस्यैव दोष-प्रयुक्तासाधकत्वोक्तिविषयत्वेन स्वयमेवोत्प्रेक्षितस्य तदविषयत्वात् विषय-वृत्तित्वमित्यर्थः ।। २३ ।।

प्रमाणलक्षणटीकाविवरणम्

अस्येति । विमतो हेतुः साध्यासाधकः आश्रयद्यसिद्धत्वात् इति प्रतिषेधानुमानेऽपि विमतस्य  हेतोरेवाभावात् । पक्षो सिद्धस्तस्मात्प्रतीयमानत्वा-दस्तीत्युच्चते चेत् तर्हि शुक्तिरूप्ये नैकान्तिकमिति व्याघात इति भावः इति जातिप्रकरणम् ।। २३ ।।