अर्थाऽपत्त्युपमे अनुमाविशेषः
अर्थाऽपत्तेरनुमानान्तर्भावसमर्थनम्
प्रमाणलक्षणटीका
ननु कथं त्रीण्येव प्रमाणानि ? अर्थाऽपत्त्युप-मानयोरपि पृथक्प्रमाणत्वात् इत्यत आह
प्रमाणलक्षणम्
अर्थाऽपत्त्युपमे अनुमाविशेषः
अनुपपद्यमानप्रमितिरर्थाऽपत्तिः । सा द्विविधा, श्रुतार्था-पत्तिदृष्टार्थाऽपत्तिश्चेति । तत्राऽद्या यथा, ‘जीवंश्चैत्रो गृहे नास्ति’ इति श्रुतवतो जीवतो गृहाभावप्रमिति: ।
द्वितीया यथा, जीवतो गृहाभावं दृष्टवतस्तत्प्रमितिरिति । तया बहिर्भावप्रमा भवतीति सा अनुमाने अन्तर्भवति । विमतो बहिरस्ति जीवनवत्वे सति गृहेऽसत्वात् यथाऽहम्’ इति प्रयोगसम्भवात्।
प्रमाणलक्षणटीकाभावदीपः
करणाभिप्रायेणाऽह ।। अनुपपद्यमानप्रमितिरिति ।। तयेति ।। जीवनवतो गृहाभावप्रमित्येत्यर्थः । वहिर्भावो बहिः सत्वम् । इतिशब्दोहेतौ । मृते अव्यभिचाराय सत्यन्तम् । गृहे विद्यमाने अव्यभिचाराय विशेष्यम् ।
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
।। अनुपपद्यमानप्रमितिरिति ।। अनुपपद्यमानार्थदर्शनात् तदुपपादकभूतार्थान्तरप्रमितिरित्यर्थः ।। जीवनवत्वे सतीति ।। मृते व्यभिचारवारणाय सत्यन्तम् । गृहे सति व्यभिचारवारणाय विशेष्यभाग इति द्रष्टव्यम्।
प्रमाणलक्षणटीकाविवरणम्
प्रमाणान्तरस्याप्यंतर्भावं वक्तुं शङ्कते ।। नन्विति ।। अर्थापत्तिलक्षणाज्ञाने तस्यानुमानेऽन्तर्भावस्य ज्ञातुमशक्यत्वात् तदथर् ंलक्षणमाह ।। अनुपपद्यमानेति ।। प्रमितिमात्रस्य प्रत्यक्षादिप्रमितिसाधारणत्वात्पूर्वविशेषणं । तावन्मात्रं च पटत्वादिना अनुपपद्यमाने घटादावप्यस्तीति उत्तरविशेषणं ।। जीवन वत्वे सतीति ।। पूर्वविशेषणमात्रं गृहे विद्यमानपुरुषे व्यभिचारीत्यतो गृहे असत्वदित्युक्तं । तावन्मात्रं च मृते गतमतः पूर्वविशेषणमिति बोध्यं ।