एवं असत्यपि साध्यस्य प्रसिद्धत्वे प्रयोजिका व्याप्तिरस्त्येव
तथा असत्यपि साध्यसाधनयोरेकाधिकरणत्वे प्रयोजिका व्याप्तितरस्त्येव
असदाश्रयस्य साधकत्वं न’ इत्यपि व्याप्तिं विना कथं निवार्यते ?
नन्वसतो निर्धर्मकत्वेन साध्यसाधनाश्रयत्वानुपपत्तेः कथमसदाश्रयो हेतुः साधकः स्यात् ?
असदाश्रयमित्यादिविशेषणत्वसम्भवे कथमव्याप्तिः
असत्यपि व्याप्तिरस्त्येव
आश्रयासिद्ध्यादिस्थले व्याप्तिसमर्थनम्
प्रमाणलक्षणटीका
किमतो यदि व्याप्तिरेव प्रयोजिका ? इत्यत आह
प्रमाणलक्षणम्
असत्यपि व्याप्तिरस्त्येव
प्रयोजिका च व्याप्तिः असत्यप्याश्रये साध्यसाधन-योरस्त्येव । ‘वन्ध्यासुतो न वक्ता अचेतनत्वात्’ इत्यादौ दर्शनात् । अतो नाश्रयासिद्धिर्दूषणमिति ।
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
।। प्रयोजिकेति ।। साध्यसिद्धिप्रयोजिकेत्यर्थः ।। अचेतनत्वा-दिति ।। ज्ञानानधिकरणत्वादित्यर्थः । व्यवहारस्य व्यवहर्तव्यज्ञानसाध्यत्वेन तदभावे तदभावः साध्यत इति द्रष्टव्यम् । नन्ववक्तृत्वं वचनेतरक्रियाकर्तृत्वम् अतः अचेतनत्वं बाधितविषयम् इति चेन्न । वक्तृत्वाभावमात्रस्य साध्यत्वात् । नन्वभावोऽपि असति कथं ? तत्र धर्माभावादिति चेन्न धर्माणामनेकविधत्वात् । तथा हि , केचित् धर्मिसमवेता भवन्ति यथा रूपादयः । केचित् अन्यसमवेता अपि अन्यमुपरञ्जयन्ति यथा ज्ञानादयो घटादीनां । केचित् आश्रयसमवायमपि नापेक्षन्ते । केवलं केनचित् निरूप्यन्ते यथा अभावाः । एवं च अभावरूपधर्मस्य धर्मिसत्तासापेक्षत्वाभावात् वक्तृत्वाभावसाधनमुपपन्नमेव । न च वाच्यं ‘सद्भ्यामधिकरणप्रतियोगिभ्यां अभावो निरूप्यते’ इतिवचनात् अत्र धर्मिण एवाभावात् कथं वन्ध्यासुते वक्तृत्वाभावनिरूपणम् ? इति । तथात्वे प्रागभावाद्यनिरूपणप्रसङ्गात् । घटादेः कदाचित्सत्त्वान्नैवम् इति चेन्न तस्य निरूपणसमये अनुपयोगात् । प्रतीत्यानिरूपकत्वमिति चेत् समं प्रकृतेऽपि । शब्दाभासादिना वन्ध्यासुतस्यापि प्रतीतिसम्भवात् । ननु काल्पनिकस्य कथं पक्षत्वम् ? इति चेन्न। निषेधं प्रति पक्षत्वे बाधकाभावात् । अन्यथा परपक्षप्रतिक्षेपायोगात्। अथ अचेतनत्वमसिद्धम् । तस्य चेतनातिरिक्तस्वभावत्वात् इति चेन्न । चैतन्यव्यावृत्तिमात्रस्य हेतुत्वात् । अभावस्य च असताऽपि धर्मिणा निरूपणमुप-पद्यत इत्युक्तम् ।
अथ मतं ‘वन्ध्यासुतो वक्ता सुतत्वात् संमतवत्’ इति सत्प्रतिपक्षमेतत् किं न स्यात् ? असदाश्रयताभयस्य भवद्भिरेव त्याजितत्वादिति । मैवं, तदीयवक्तृताकार्यस्य कदापि केनापि अनुपलब्धत्वेन बाधितविषयतया दुर्बलस्य अप्रतिपक्षत्वात् । न हि भवति तरक्षोः प्रतिपक्षो हरिणशावः । सिद्धं च सुतत्वं वन्ध्यासुतस्य । न चैवं स्ववचनव्याघातः । काल्पनिकानुवादेन वास्तवस्य निराकरणात् ।
न चैवं ‘गगनारविन्दं सुरभि अरविन्दत्वात् सरोजारविन्दवत्’ इत्यस्यापि साधकत्वापत्तिः । म्लानारविन्दे व्यभिचारेण तत्र व्याप्तेरेवाभावात् । नन्वथापि ‘नृशृङ्गमस्ति शृङ्गत्वात् गोशृङ्गवत्’ इत्यस्यापि साधकत्वप्रसङ्ग इति चेन्न । प्रमाणबाधितत्वात् । शृङ्गशब्दो हि महतः शिरस्संयुक्तस्य अवयवविशेषस्य वाचकः । तस्य च प्रत्यक्षेण नास्तिताया एवावधारणादिति । यथोक्तम्
दोषो व्याहतिरेवास्ति नृशृङ्गास्तित्वसाधने । इत्यादि ।
एतेन एतदपि परास्तम् ‘अप्रामाणिकस्य प्रमाणाङ्गताऽसम्भवेन असदाश्रयस्य हेतोः व्याप्त्यनुपपत्त्या च असदाश्रयस्यानुमानस्य दुष्टत्वम्’ इति । अप्रामाणिकस्यापि निषेधरूपं साध्यं हेतुं च प्रत्याश्रयत्वे निषेधरूपव्यवहार-भाजनत्वे निषेधसाधकप्रमाणाङ्गत्वे च बाधकाभावस्योक्तत्वात् । असदाश्रयेऽपि हेतौ व्याप्तेरविकलत्वाच्च । अतोऽचेतनत्वानुमानं निर्दोषमेव इत्यास्तां प्रपञ्चः ।