न केवलमियं जातिः स्ववाक्यविरोधान्तर्गता
स्वन्यायविरोधजातेः प्रमाणविरोधेप्यन्तर्भावः
प्रमाणलक्षणटीका
न केवलमियं जातिः स्ववाक्यविरोधान्तर्गता । किं तु ? मानविरोधेऽपि इत्याह
प्रमाणलक्षणम्
मानविरोधश्च
‘विप्रतिपन्नं प्रमेयं प्रमाणसापेक्षं प्रमेयत्वात् मेये मानापेक्षा नास्तीतित्येतन्मेयवत्’ इत्यनुमानसम्भवात् प्रमाणविरोधे चेयं जातिरन्तर्भवतीति पूर्वावृत्त्या योजनीयम् ।
प्रमाणलक्षणटीकाभावदीपः
वाक्यं पूरयति तेनैव न्यायेन सिद्धत्वादिति । जातिरित्यादि-वाक्यद्वयम् एकवाक्यतया योजयति ।। यथेत्यादिना ।। विप्रतिपन्नमेयेऽपीति ।। यत् मेयं मानसापेक्षं न इत्युच्यते तत्प्रमेयेऽपीत्यर्थः । ।। पूर्वावृत्येति ।। दृष्टान्तत्वेन मेयेति वाक्याऽवृत्या इत्यर्थः ।
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
तृतीयायाः स्वन्यायविरोधरूपतृतीयजातेः ।। अन्यथेति ।। मानानपेक्षत्व इत्यर्थः ।। तत्प्रतिज्ञेति ।। मेेयस्य मानानपेक्षत्वप्रतिज्ञेत्यर्थः । तत्र हेत्वादिप्रमाणानभिधाने प्रतिज्ञामात्रस्य विवक्षितार्थासाधकत्वेन वैयर्थ्यापातादिति भावः ।
।। तन्न्यायेनेति ।। ‘मेये मानापेक्षा नास्ति’ इत्येतदृष्टान्तेनेत्यर्थः ।। साधयितुमिति ।। ‘विप्रतिपन्नं किंचित्प्रमेयं प्रमाणसापेक्षं प्रमेयत्वात् मेये मानापेक्षा नास्ति इत्येतन्मेयवत्’ इति साधयितुं शक्यत्वादित्यर्थः ।
इयं जातिः स्वन्यायविरोधरूपा तृतीयजातिः ।। पूर्वावृत्त्येति ।। पूर्वस्य जातिर्न मेये मानपेक्षा इत्यस्य । इयं इत्यध्याहार्यम् । तथा च न मेये मानापेक्षास्ति इत्येवं स्वन्यायविरोधरूपेयं जातिः मानविरोधश्च इति पूर्वावृत्त्या योज्यमित्यर्थः ।
प्रमाणलक्षणटीकाविवरणम्
प्रतिबन्धात्मकतृतीयजातौ परोक्तजातीनामन्तर्भावं वक्तुं जातेर्विभागमाह ।। त्रिविधेति ।। पूर्ववृत्येति ।। द्रव्यं जातिरित्यस्यावृत्येत्यर्थः । निरनुयोज्यानुयोगे च या जातिस्तस्या इत्यर्थः ।