व्याप्तिरूपपत्तिमूलम्
व्याप्तिनिरूपणम्
यदुक्तं निर्दोषं प्रमितं लिंगमनुमानमिति । तदयुक्तम् । नारिकेलद्वीपवासिनो धूमदर्शनेऽपि वह्निप्रमानुदयादित्यत आह
व्याप्तिरूपपत्तिमूलम्
व्याप्तिरिति विषयेण विषयिणः प्रत्ययस्योऽपलक्षणम् ।
न केवलं प्रमितं लिङ्गमात्रमनुमितिजनकमंगीक्रियते । किं नाम ? निर्दोषत्वान्तर्गतव्याप्तिप्रमितिपूर्वकमेव । न च तादृशं नानुमितिजनकम् । अविनाभावो व्याप्तिः । सा द्विविधा अन्वयव्याप्तिर्व्यतिरेकव्याप्तिश्चेति । तत्र साध्येन साधनस्य व्याप्तिरन्वयव्याप्तिः । यथा ‘यो धूमवानसावग्निमान्’ इति । साधनाभावेन साध्याभावस्य व्याप्तिर्व्यतिरेकव्याप्तिः । यथा, ‘योऽग्निमान्न भवति स धूमवान्न भवति’ इति । भूयो भूयो हि धूमं पश्यन् तत्राग्निं पश्यति, अग्न्यभावं पश्यंश्च धूमाभावं । ततो निश्चिनोति धूमाग्न्योः साहचर्यात् अस्त्यविनाभाव इति। गृहीतव्याप्तिश्च पर्वते धूमं पश्यंस्तामनुस्मरति ‘यत्सन्निधौ यो दृष्ष्टः स तस्य स्मारकः’ इति न्यायात् । स्मृतव्याप्तिश्च व्याप्तं धूमं पर्वते प्रत्यभिजानाति । तेनाग्न्यनुमितिरिति युक्तं लक्षणमिति ।
प्रमाणलक्षणटीकाभावदीपः
प्रमितमित्यभिप्रेतार्थोक्तिः । उपपत्तिश्च यथार्थतो ज्ञातैव इति स्वोक्त्यभिप्रायेण वा इयमुक्तिः । प्रत्ययस्य ज्ञानस्य । अविनाभाव इत्यत्र नञ्व्यत्यासेन विना अभावः असम्भवः अनुपपत्तिः । येन विना यस्य अनुपपत्तिः तेन तस्य व्याप्तिरित्यर्थः । यदभावे यस्य सत्वं प्रमाणविरुद्धं तत् तेन व्याप्तमिति यावत् । न चेयं व्यतिरेकव्याप्तिरेव नान्वयव्याप्तिरिति शङ्क्यम् केवलान्वयिन्यपि साध्येन विना हेतोरनुपपत्तिरूपव्याप्तेः सत्वात् ।
न च तत्र साध्येन विना हेतोर्या उपपत्तिः तदभावरूपा अनुपपत्तिरयुक्ता, तेन विना तदुपपत्तेरप्रामाणिकत्वेन तदभावस्य तत्र हेतावसम्भवात् इति वाच्यम् । सिद्धान्ते अप्रामाणिकस्यैव निषेधप्रतियोगित्वात् । तथा च रसस्य समानदेशकालेन रूपेण विनैव , पाकजरूपाऽदेः समानदेशेन भिन्नकालेन पाकेन विनैव . कृतिकोदयस्य स्वसत्तासमानकालया भिन्नदेशया रोहिण्युदयाऽसत्त्या विना, अधोदेशे नदीपूरस्य भिन्नदेशकालया ऊर्ध्वदेशवृष्ट्या विना अनुपपतिरस्तीति सामानाधिकरण्य इव वैयधिकरण्येऽपि उक्तरूपा व्याप्तिरुक्ता भवतीति भावः ।
व्याप्तिग्रहस्य तर्काधीनत्वात् तत्र च व्याप्तिग्रहापेक्षायामनवस्थेत्यतो भूयोदर्शनरूपप्रत्यक्षेणैव व्याप्तिग्रहमाह ।। भूयो भूय इति ।। पुनः पुनः इत्यर्थः ।। तत इति ।। भूयोदर्शनात् इत्यर्थः ।। प्रत्यभिजानातीति ।। ‘अयं च धूमो वह्निव्याप्यः’ इत्येवमनुसन्धत्त इत्यर्थः । अत्र एक इति व्याप्तिद्वैविध्य एवाऽरुचिं सूचयति । अन्यत्तु अनुमतमेवेति ज्ञेयम् ।
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
धूमदर्शनेऽपीत्यनेन लिङ्गस्य प्रमितत्वमुक्तमित्यवधेयम् ।। अनुदयादिति ।। तथा च सा स्यादिति भावः । ननु व्याप्तिरूपपत्तिमूलमिति कथमुच्यते ? स्वरूपसत्या व्याप्तेरपि धूमे सत्वेन पुनर्नारिकेलद्वीपवासिनो धूमदर्शनेन वह्निप्रमा स्यात् इत्यतिप्रसङ्गः अपरिहृत एवेत्यत आह ।। व्याप्तिरितीति ।। लक्षणाबीजशक्यसम्बन्धोपपादनाय विषयेणेऽत्याद्युक्तम् ।
।। निर्दोषत्वान्तर्गतेति ।। व्याप्तिप्रमित्यभावस्य दोषत्वेन व्याप्तिप्रमितिर्निदोषत्वान्तर्गतैवेत्यर्थः । तथा च नारिकेलद्वीपवासिनो व्याप्तिप्रमित्यभावेन न वह्न्यनुमितिर्भवतीति निर्दोषपदेनैव तद्व्यावृत्तिरिति भावः । तथा च व्याप्ति: व्याप्तिप्रमितिः उपपत्तेः लिङ्गस्य अनुमितिजनने मूलं कारणं सहकारिणीऽति यावदिति मूलयोजना द्रष्टव्या ।
व्याप्तिरूपपत्तिमूलत् इत्युक्तम् । तत्र व्याप्तिस्वरूपजिज्ञासायामाह ।। अविनाभावो व्याप्तिरिति ।। अत्र भावः सत्ता । एवं च साध्येन विना साधनस्य भावो न इत्यनेन साध्याभाववन्निष्ठात्यन्ताभावप्रतियोगित्वं व्याप्तिः इत्युक्तं भवतीति द्रष्टव्यम् । नन्विदमयुक्तम् तथात्वे तुच्छस्यापि वह्निव्याप्यताऽपत्तेः । तदत्यन्ताभावस्य केवलान्वयित्वेन वह्न्यभाववन्निष्ठत्वात् । किं च अस्य व्यतिरेकव्याप्तिलक्षणत्वेन साध्याभावसाधनाभावयोरेव व्याप्तिरुक्ता स्यात्, न साध्यसाधनयोरन्वयव्याप्तिः । व्यतिरेकव्याप्तिश्च सिद्धान्तेनानुमानाङ्गम् । केवलान्वयिन्यप्रसिद्धिश्च स्यात् इति चेन्न । साहचर्यनियम इत्यत्र तात्पर्यात् । अत एवोक्तं पद्धतौ, अविनाभावो व्याप्तिः साहचर्यनियम इति यावत् इति ।
अत्र साहचर्यं नाम स्वदेशकालविशेषगतस्य हेतोः स्वदेशकालविशेषगतेन साध्येन सम्बन्धमात्रं विवक्षितम् । न तु सामानाधिकरण्यमेव । तथात्वे अधोदेशे नदीपूराऽदावव्याप्तेः । सम्बन्धमात्रं तु तत्राप्यस्ति । वृष्टिमदूर्ध्वदेशाऽगतत्वात् पूरस्य । एवमन्यत्रापि कृत्तिकोदयाऽदौ हेतुसाध्यसम्बन्धमात्रमुपपादनीयम् । तुच्छस्य चोक्तरूपत्वाभावात् नातिव्याप्तिः । व्यभिचारिसम्बन्धव्यावर्तनाय नियम इत्युक्तम् । नन्वेवं नियमस्य व्याप्तिरूपतया आत्माऽश्रय इति चेन्न । नियमपदेनाव्यभिचारस्य विवक्षितत्वात् । तथा च अव्यभिचरितसाध्यसम्बन्धो व्याप्तिः इत्युक्तं भवति । अत एवोक्तं पद्धतौ, व्याप्तिरव्यभिचरितः सम्बन्ध इति । अत्र सम्बन्धस्याव्यभिचरितत्वं नाम स्वाभाविकत्वं विवक्षितम् । अतो हेतुधर्मस्याव्यभिचारस्य कथं सम्बन्धविशेषणत्वम् ? इति चोद्यानवकाश इति ज्ञातव्यम् ।
।। सा द्विविधेति ।। यद्यपि अस्मन्मते अन्वयव्याप्तिरेव साध्यसिद्धु्य-पयोगिनी न व्यतिरेकव्याप्तिः , तथाऽपि पररीत्या शिष्यमतिवैशद्यायेदं व्युत्पादनमिति ज्ञातव्यम् । एवमुत्तरत्रापि । यथोक्तम् युक्तिपादीयसुधायां,शिष्यमतिवैशद्याय व्युत्पादनं तु अनुमतमेवेति न स्वीयव्यवहारविरोध इति ।
भूयोदर्शनरूपव्याप्तिग्राहकसामग्रीं दर्शयति ।। भूय इति ।। अनेन प्रथमज्ञानमुपदर्शितम् । पर्वते धूमं पश्यन् इत्यनेन द्वितीयज्ञानम् ।। धूमं पर्वते प्रत्यभिजानातीति ।। ‘अस्त्यत्र पर्वते वह्निना व्याप्तो धूमः’ इति प्रत्यभिजानाती-त्यर्थः । अनेन तृतीयलिङ्गपरामर्शः प्रदर्शितः ।। तेनेति ।। तृतीयलिङ्गपरामर्शेनेत्यर्थः।
प्रमाणलक्षणटीकाविवरणम्
ननु व्याप्तेः स्वरूपसत्याः तत्राप्रयोजकत्वेन तद्भानस्यैव तन्मूलत्वद् व्याप्तिरुपपत्तिमूलं इति कथमुच्यत इत्यत आह ।। व्याप्तिरितीति ।। लक्षणप्रयोजकीभूतं शक्यसंबंधमाह ।। विषयेणेति ।। व्याप्तिलक्षणमाह ।। अविनाभावो व्याप्तिरिति ।।
नन्वत्राविनाभावो नाम साध्येन विना साधनस्याभावो वा, साध्यसाहित्यं वा, साहित्यनियमो वा ? नाद्यः । केवलान्वयिसाध्यकहेतौे साध्याभावस्य अप्रसिद्धत्वाद् व्याप्तिः । व्यभिचारिसाधरण्यान्न द्वितीयोऽपि । आत्माश्रयापातेन न तृतीयोऽपि । नियमस्य व्याप्तिरूपत्वात् । अधोदेशनदीपूरोर्ध्वदशवृष्ट्योः देशतः कालतः साहित्याभावेनाव्याप्तेश्च । अथ एवानैपधिकसंबंधो वा साहचर्यनियमो वा स्वाभाविकसंबंधो वा साध्याभाववद्वृत्तित्वं वा व्याप्तिरिति निरस्तं । अधोदेशनदीपूरोर्ध्वदेशवृष्ट्योः संबंधस्य साहचर्यस्य चाभावान्नदीपूरहेतोः वृष्टिरूपसाध्याभाववदधोदेशवृत्तित्वेन साध्याभाववदवृत्तित्वस्य तत्राभावाच्च । तस्मादयुक्तमेतल्लक्षणमिति चेत् ।
अत्र ब्रूमः । यद्देशकालसंबद्धस्य यद्देशकालसंबद्धेन विनाऽनुपपत्तिः तस्य तेन सह व्यप्तिः । अवश्यं चैतदङ्गीकर्तव्यं । यदनुपपत्तिरिव व्याप्तिरिति । परिशेषोऽ-र्थापत्तिरनुमानमित्यविशेष इत्यत्र अर्थापत्तिरिवानुमानमप्याव्यावश्यकानुपपत्त्येव गमकमित्युक्तत्वात् । उपमानेऽपि हि नहि स्वसदृशेनासदृशं किंचिद् दृष्टमित्यनेन गवयनिष्ठगोसादृश्यस्य गोनिष्ठगवयसादृश्यं विनानुपपत्तेरेवोक्तत्वात् । पद्धतौ च निर्दोषोपपत्तिरनुमेति एतद्ग्रन्थस्थोपपत्तिशब्दो न पर्यायांतरमात्रं किंतु साध्ये सत्युपपद्यते । अन्यथा नेत्युपपत्तिरिति भावेनोपपत्तिर्व्याप्यमिति व्याख्यातत्वात्। अत्रापि टीकायां जीवनवत्वे सति गृहे असत्वरूपे व्याप्ये अनुपपद्यमानर्थप्रमिति-रर्थापत्तिरित्यनुपपद्यमानपदप्रयोगात् ।
परिशेषादेरनुमानत्वानङ्गीकारे धूमोऽप्यनुपपत्त्या आगम नानुमानं स्यादिति चोक्तत्वात् । अनुपपत्तिश्चाघटनं प्रमाणविरोध इति यावत् । अत एवोत्तरत्र वक्ष्यति। अनुपपत्तिश्चासंभव इति । इयमेव व्याप्तिः साध्येन विना साधनस्याभावोऽनुप-पत्तिरित्यभिप्रायेणाविनाभावो व्याप्तिरित्युक्तं । अस्ति चेयं धूमादौ ।
ननु तथाऽपि धूमस्यानुपपत्तिः । वह्निसामान्यं विना पर्वतीयवह्निं विना वा। नाद्यः । पर्वतीयवह्निसिद्धिर्न स्यात्। यो येन विनाऽनुपपन्नः स तत्साधक इति न्यायात्। न द्वितीयः । पर्वतीयवह्निसिद्धौ तेन विनाऽनुपपत्तेर्ज्ञातुमशक्यत्वात् । सिद्धौ वा तस्यानुमितिरूपत्वेन तत्करणत्वायोगादिति चेन्न। धृमस्य वह्निसामानाधिकरण्यं किं वह्निसामान्येन किं पर्वतीयेन । आद्ये तेन वह्निसामान्यसिद्धावपि पर्वतीयवह्न्यसिद्ध्यापत्तेः ।
न द्वितीयः । पर्वतीयवह्न्यसिद्धौ तत्सामानाधिकरण्यस्य दुर्ज्ञानत्वादिति त्वत्पक्षेऽपि साम्येनैतादृशोक्तेरयोगात् । नदीपूरस्यापि वृष्टिं विनाऽनुपपत्तिसत्वेन तस्यापि तद्व्याप्तत्वमयुक्तम् ।
नच तथापि केवलान्वयिन्यव्याप्तिः । साध्याभावप्रसिद्धेरिति वाच्यं । तत्र साध्याभावस्यासत्वादेव साध्याभावे सति साधनस्य वाऽनुपपत्तिस्तदभाव-रूपानुपपत्तेः सत्वात् । नच प्रतियोग्यप्रसिद्धेस्तस्य न निषेधप्रतियोगित्वमिति वाच्यं । अप्रामाणिकस्यैव निषेधप्रतियोगित्वात् । प्रतियोगित्वादिधर्माणां धर्मिसत्तनिर-पेक्षत्वादिति ।
यद्वा साध्याभावमसंभवेन प्रसिद्धिसंभावाच्च। सर्वथा प्रसिद्धत्वे साध्याभावस्य अप्रसिद्धत्वादित्यपि वक्तुं शक्यत्वाच्चेति दिक् ।।