दोषपरिजिहीर्षया निर्दिष्टसाध्यभागेऽधिकप्रक्षेपः प्रतिज्ञाऽन्तरम्
प्रतिज्ञाऽन्तरम्
प्रमाणलक्षणटीका
दोषपरिजिहीर्षया निर्दिष्टसाध्यभागेऽधिकप्रक्षेपः प्रतिज्ञाऽन्तरम् ।
प्रतिज्ञा उदाहरणे प्रयोज्यभागः निगमनं चेति साध्यभागः । द्विविधं चेदं दोषपरिहारहेतुः तदहेतुश्चेति ।।
दोषसदसद्भावाभ्यां पुनर्द्विविधम् ।
तत् प्रतिज्ञायां चतुर्विधम् । पक्षतद्विशेषणसाध्यतद्विशेषण-प्रक्षेपभेदात् ।
पक्षप्रक्षेपोऽपि द्वेधा । स्वरूपतः पक्षान्तरतश्चेति । एवं साध्य-प्रक्षेपोऽपि ।
तत्र सद्दोषपरिहारार्थमाद्यं यथा ‘अनित्यः कृतकत्वात्’ इत्यत्र न्यूनतया प्रत्युक्ते ‘शब्दोऽनित्य’ इति ।
द्वितीयं यथा ‘शब्दोऽनित्यः ऐन्द्रियकत्वात्’ इत्यत्र सामान्येनानैकान्तिकत्वेऽभिहिते ‘तदपि पक्ष’ इति ।
तृतीयं यथा, तत्रैव ध्वनिभिः सिद्धसाधनत्वोद्भावने ‘वर्णात्मकः शब्दः पक्ष’ इति ।
चतुर्थं यथा ‘शब्दः कृतकत्वात्’ इत्यत्र न्यूनतया प्रत्युक्ते ‘शब्दोऽनित्य’ इति ।
पंचमं यथा ‘पर्वतोऽग्निमान् सुरभिमलिनधूमवत्वात्’ इत्यत्र विशेषणासामर्थ्येऽभिहिते ‘साग्निकृष्णागरुमान्’ इति।
षष्ठं यथा ‘क्षित्यादिकं कारणपूर्वकं कार्यत्वात्’ इत्यत्र सिद्धसाधनत्वोक्तौ उपादानाऽदिबुद्धिमत्कारणपूर्वकमिति ।
प्रमाणलक्षणटीकाभावदीपः
हेत्वन्तरेऽनतिव्याप्तये निर्दिष्टसाध्यभाग इत्युक्तम् ।। प्रतिज्ञेति ।। साध्यभाग इत्यन्वेति ।। इदमिति ।। प्रतिज्ञान्तरमित्यर्थः ।
।। एवं साध्यप्रक्षेपोऽपीति ।। तथा चायमर्थः । सद्दोषपरिहारहेतुः पक्षे धर्मिस्वरूपप्रक्षेप आद्यः, तादृशो धर्म्यन्तरप्रक्षेपोः द्वितीयः, तादृशधर्मिविशेषण-प्रक्षेपस्तृतीयः, तादृशः साध्यस्वरूपप्रक्षेपश्चतुर्थः, तादृशः साध्यान्तरप्रक्षेपः पञ्चमः, तादृशः साध्यविशेषणप्रक्षेप: षष्ठ इति । एवमसद्दोषपरिहारहेतुरपि प्रतिज्ञायां धर्मिस्वरूपधर्म्यन्तरधर्मिविशेषणसाध्यस्वरूपसाध्यान्तरसाध्यविशेषणप्रक्षेप इति षाड्विध्यम्, एवं सद्दोषपरिहारहेतुभूतधर्मिस्वरूपाऽदिप्रक्षेपभेदेन षाड्विध्यम्, असद्दोषपरिहारहेतुभूतधर्मिस्वरूपाऽदिप्रक्षेपभेदेन षाड्विध्यम् इति प्रतिज्ञायां चतुर्विशतिप्रभेदभिन्नं तावत्प्रतिज्ञाऽन्तरमिति । तत्राऽद्यषट्कं क्रमेणोदाहरति ।। तत्र सद्दोषेत्यादिना ।।
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
‘‘अविशेषितपूर्वोक्तसाध्यांशे दूषिते पुनः ।
तद्विशेषणनिक्षेपः प्रतिज्ञाऽन्तरमिष्यते ।।
इति कारिकाऽनुसारेण प्रतिज्ञाऽन्तरं लक्षयति ।। दोषेति ।। निर्दिष्टसाध्यभाग इत्यस्य पूवोत्तराभ्यां सम्बन्धः । हेत्वन्तरव्यावृत्तये साध्यभाग इत्युक्तम् । कः साध्यभागः ? इत्यत आह ।। प्रतिज्ञेति ।। उदाहरणे प्रयोज्यभाग इति ।। ‘यो धूमवान् असावग्निमान् यथा महानस’ इत्युदाहरणे ‘अग्निमान्’ इति प्रयोज्यभागो विधेयभाग इत्यर्थः ।। दोषसदसद्भावाभ्यामिति ।। तथा च सति ,सद्दोषपरिहारहेतुः सद्दोषपरिहाराहेतुरसद्दोषपरिहारहेतुरसद्दोषपरिहाराहेतुश्चेत्येवं चतुर्विधमित्यर्थः । दोषपरिहारहेतुत्वं साधारणम् । स च दोषः क्वचित् सन् क्वचित् असन् भवति । तथा दोषपरिहाराहेतुत्वं समम् । सोऽपि दोषः क्वचित् असन् इति भावः ।
।। एवमिति ।। पक्षप्रक्षेपवत् साध्यप्रक्षेपोऽपि सध्यस्वरूपतः साध्यान्तरत इति द्विविध इत्यर्थः ।। तत्रसद्दोषेति ।। सद्दोषपरिहारहेतुः स्वरूपतः पक्षप्रक्षेपरूपं प्रतिज्ञाऽन्तरं यथेत्यर्थः ।
।। द्वितीयमिति ।। सद्दोषपरिहारहेतुः पक्षान्तरतः पक्षप्रक्षेप इत्यर्थः ।। तृतीयमिति ।। सद्दोषपरिहारहेतुः पक्षविशेषणप्रक्षेप इत्यर्थः । पक्षप्रक्षेपस्य द्विविधत्वात् अस्य तृतीयत्वं मन्तव्यम् । एवमुत्तरत्रापि द्रष्टव्यम् ।
।। चतुर्थमिति ।। सद्दोषपरिहारहेतुः स्वरूपतः साध्यप्रक्षेप इत्यर्थः ।। पञ्चममिति ।। सद्दोषपरिहारहेतुः साध्यान्तरतः प्रक्षेप इत्यर्थः ।। विशेषणासामर्थ्य इति ।। व्यर्थविशेषणत्व इत्यर्थः । वह्निमात्रसाधने धूमस्यैव समर्थत्वात् इति भावः ।। कृष्णेति ।। अगरोः कृष्णत्वात् सुरभित्वाच्च तत्सम्बद्धाग्निजन्यधूमस्यापि सुरभित्वं मलिनत्वञ्चेति ज्ञातव्यम् ।। षष्ठमिति ।।। सद्दोषपरिहारहेतुः साध्यविशेषणप्रक्षेप इत्यर्थः ।
प्रमाणलक्षणटीकाविवरणम्
क्रमप्राप्तं प्रतिज्ञांतरं लक्षयति ।। दोषेति ।। निर्दुष्टसाध्यभागे दोषपरिजिहीर्षयेत्यन्वयः ।। प्रतिज्ञेति ।। यद्यप्यत्र निगमनेऽपि प्रयोज्यभागोऽस्ति तथाऽपि प्रतिज्ञादिवाक्यचतुष्टयं साधकत्वेन प्रयुज्यते । तथाहि पर्वतो वह्निमानिति प्रतिज्ञाते कुतस्तदिति हेत्वाकांक्षायां हेतुवाक्यं साधकत्वेन प्रयुज्यते कुतस्तस्य साधकत्वमित्यत उदाहरणवाक्यमपि तत्वेनैव प्रयुज्यते । अस्तु तस्य तेनैव व्याप्तिः प्रकृते तु साध्यं कुत इत्याकांक्षायां उपनयवाक्यं प्रयुज्यते । निगमनं तु न साधकत्वेनातस्तस्य सर्वस्यापि साध्यगत्वं युक्तं उदाहरणस्य तु न तथेति न तत्प्रतिबंदीति ।
।। दोषसदसद्भावाभ्यामिति ।। सद्दोषपरिहारहेतुः असद्दोषपरिहारहेतुस्तदहेतुश्चेत्यर्थः ।। एवमिति ।। पक्षे प्रक्षेपवत् साध्यप्रक्षेपोऽपि साध्यस्वरूपतः साध्यांतर इति द्विविध इत्यर्थः । तदेवोदाहरति ।। तत्रेति ।। सद्दोषपरिहारहेतुः स्वरूपतः पक्षप्रक्षेपो यथेत्यर्थः ।। द्वितीयमिति ।। सद्दोष-परिहारहेतुः पक्षांतरतः पक्षप्रक्षेप इति द्वितीयमित्यर्थः ।। तृतीयमिति ।। सद्दोष-परिहारहेतुः पक्षविशेषणप्रक्षेप इति तृतीयं यथेत्यर्थः। ।। चतुर्थमिति ।। सद्दोष-परिहारहेतुः स्वरूपतः साध्यप्रक्षेप इति चतुर्थमित्यर्थः ।। पंचममिति ।। सद्दोष-परिहारहेतुः साध्यांतरतः साध्यप्रक्षेपो यथेत्यर्थः ।। षष्ठमिति ।। सद्दोषपरिहारहेतुः साध्यविशेषणप्रक्षेपो यथेत्यर्थः ।