उपपत्तिदोषौ विरोधासङ्गती
उपपत्तिदोषनिरूपणम्
प्रमाणलक्षणटीका
निर्दोषोपपत्तिरनुमेत्युक्तम् । को दोष उपपत्तेः संभवति ? । द्विविध उपपत्तिदोषः । साक्षात् वाचनिकश्चेति । यस्तत्रोपपत्तेरेव साधनदूषणक्षमत्वाऽपादकः स साक्षादुप-पत्तिदोषः । तं विभज्य दर्शयति ।
उपपत्तिदोषौ विरोधासङ्गती
उपपत्तिदोषो द्विविधः । विरोधोऽसंगतिश्चेति । अन्वय-योग्यताविरहो विरोधः । आकांक्षाऽभावोऽसंगति: । इमौ चार्थवचनयोरपि संभवतः । अर्थासाधुत्वे वचनस्यापि तथात्वादिति ।
वचनस्यैवासाधुत्वाऽपादको वाचनिकदोषः । तं विभज्य दर्शयति
न्यूनाधिके वाचनिके
द्विविधो वाचनिकदोषः । न्यूनमधिकं चेति ।
अपेक्षितासंपूर्तिर्न्यूनम् । अपेक्षिताधिकमधिकम् ।
न्यूनाधिके च परार्थप्रयोग एव संभवतः । वचनद्वारेणैवोप-पत्तेरपि दूषिते स्यातामिति ।
प्रमाणलक्षणटीकाभावदीपः
।। को दोष उपपत्तेरिति ।। साहचर्येणार्थगमकरूपलिङ्गस्येत्यर्थः। एवमग्रेऽपि । ‘यन्निमित्तं लिङ्गमभिहितार्थज्ञानं न जनयति, संशयविपर्ययौ वा करोति स उपपत्तेर्दोषः’इति सामान्यलक्षणं स्पष्टं मत्वाऽऽह ।। द्विविध इति ।। साक्षादिति ।। वचनोपधानेन विनेत्यर्थः ।
दूषणानुमानाभिप्रायेणोक्तम् ।। दूषणाऽक्षमत्वेति ।। अन्वयेति ।। लिङ्गाभिमतस्य लिङ्गित्वेनाभिमतेन सह साध्यसाधनभावरूपान्वयस्या भावरूपो योग्यताऽभाव इत्यर्थः ।। इमौ चेति ।। दोषावित्यनुषङ्गः । स्वार्थानुमाने वचना-भावादाह ।। न्यूनाधिकेचेति ।। उपपत्तिरूपार्थदोषोक्तिप्रस्तावे वचन-दोषोक्तिरयुक्तेत्यत आह ।। वचनद्वारेणैवेति ।। इतिशब्दोदोषोक्तिसमाप्तौ ।
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
।।सम्भवतीति ।। इति जिज्ञासायामुच्यत इति शेषः । वाचनिकः लिङ्गवचनसम्बन्धी । तद्द्वारा लिङ्गे प्राप्यमाण इत्यर्थः ।
नन्वर्थदोषयोः कथं वचने सम्भव इत्यत आह ।। अर्थेति ।। वचनस्यापीति ।। तत्प्रतिपादकवचनस्यापीत्यर्थः । तथा चार्थद्वारा वचनस्यापि दोषत्वमिति भावः ।
वचनदोषत्वमुपपादयति ।। परार्थप्रयोग एवेति ।। न स्वार्थानुमाने तत्र वचनस्यैवाभावादिति भावः । नन्वनयोर्वचनदोषत्वे द्विविध उपपत्तिदोषः इति वाचनिकयोरनयोरूपपत्तिदोषत्वं कथमुक्तमित्यत आह ।। वचनद्वारेणैवेति ।।
प्रमाणलक्षणटीकाविवरणम्
ननूत्तरत्र मूलकारेणोपपत्तिदोषौ विरोधासङ्गतीत्यनेन तयोरूपपत्तिदोषत्वोक्त्या वचनदोषत्वाभावः न्यूनाधिके वाचनिके इत्यनयोः वचनदोषत्वोक्त्या उपपत्तिदोषत्वाभावः उक्तः स न युक्तः । न्यूनाधिकयोरपि उपपत्तिदोषत्वात् । विरोधासङ्गत्योरपि वचनदोषत्वादित्याशङ्काया उपपत्तिदोषाविति उपपत्तिदोषसामान्यविभागत्वेन प्रतीयमानमपि वाक्यं
‘विरोधोऽसङ्गतिश्चैव साक्षाद्युक्तेस्तु दूषणम्’’
इत्यनुव्याख्यानानुसारेणोपपत्तिविरोधविशेषविभागपरमिति दर्शयितुं तत्सामान्यविभागोक्तिपूर्वकं साक्षाद्विरोधादिलक्षणोक्तिपूर्वकं च तद्वाक्यजातं सङ्गमयति ।। द्विविध इत्यादिता ।।
ननु गौराश्व: पुरुषो हस्तीत्यादौ असङ्गतिस्थले विरोधस्यापि भावात्तस्या सङ्कीर्णोदाहरणाभावान्न पृथक्दूषणत्वमित्याशङ्कायामाह ।। सत्यमिति ।। गोरश्च इत्यादावसङ्गतेः पुरस्फुरतिकत्वेन तस्या एव तत्र दोषत्वेन अद्रव्येऽपि वह्निरनुष्णः कृतकत्वादित्यादौ साध्ये हेत्वाकांक्षायाः सत्त्वेनासङ्गतेरेवाभावात्तत्र योग्यताविरहरूपविरोधस्येवोपस्थितेस्तत्र विरोधस्यैव दूषणत्वं ।
साक्षादनयोरुपपत्तिदोषत्वोक्त्या अन्यदोषत्वं लब्धं तदाह ।। इमौ चेति ।। तेदेवोपपादयति ।। अर्थसाधुत्व इति ।। अधिकमिति ।। अनाकांक्षिता-भिधानमित्यर्थः ।