सत्यपि निर्णयकारणे संशयकारणमात्रेण संशयापादनं संशयसमः
संशयसमः
प्रमाणलक्षणटीका
सत्यपि निर्णयकारणे संशयकारणमात्रेण संशयापादनं संशयसमः । यथा ‘यदि धूमवत्वात् अग्निमत्वनिश्चयः तर्हि हृदमहानससाधर्म्येण द्रव्यत्वेन तत्संशयः स्यात्’ इत्यादि । अत्र समानधर्माऽदिमात्रदर्शनं तद्रहितस्यैव निश्चायकत्वा-भिमानश्चोत्थानहेतुः । सत्प्रतिपक्षत्वमारोप्यम् । निर्णयकारण-राहित्यस्य संशयाङ्गत्वानङ्गीकारात् संशयकारणराहित्यस्य अयुक्तस्यैव निर्णयाङ्गताङ्गीकारात् युक्ताङ्गहानिः अयुक्ताङ्गा-धिक्यञ्च । अन्यथा दूषकादूषकसाधर्म्याऽदिना जातावपि संशय प्रसङ्गसाम्यात् व्याघात इति ।। १३ ।।
प्रमाणलक्षणटीकाभावदीपः
।। अन्यथेति ।। निर्णयकारणराहित्यस्य संशयाङ्गत्वानङ्गीकारे संशयकारणराहित्यस्य निर्णयाङ्गत्वाङ्गीकारे च ‘नायं हेतुः साधकः सत्प्रतिपक्षत्वात्’ इति जात्युत्तरेऽपि अदूषकरासभसाधर्म्येण वस्तुत्वेन महानसवैधर्म्येण हेतुत्वादिना वा त्वदुक्तहेतुना अनिश्चय साधकत्वसंशयः किं न स्यात् इति साम्याद्व्याघात इत्यर्थः ।। १३ ।।
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
सन्देहहेतुसद्भावात्सति निर्णयकारणे ।
संशयस्य प्रसङ्गो यः स संशयसमो भवेत् ।।
इतिकारिकानुसारेण संशयसमजातिं लक्षयति ।। सत्यपीति ।। निर्णयकारणे विशेषदर्शने ।। संशयकारणमात्रेणेति ।। समानधर्माऽदिरूपसंशयकारणमात्रेणे-त्यर्थः । अत्र विशेषादर्शनसहकृतसमानधर्माऽदिना संशयापादनरूपे सदुत्तरे अतिव्याप्तिः स्यात् तत्परिहाराय मात्रपदम् । विशेषादर्शनासहकृतत्वं मात्रशब्दार्थः इत्याशयेन तद्विवरणाय सत्यपि निर्णयकारण इत्युक्तमिति ज्ञातव्यम् ।
समानधर्ममात्रदर्शनं संशयकारणमिति शेषः । इत्यभिमान सम्बंधः ।। तद्रहितस्यैवेति ।। निर्णायकस्येति शेषः । समानधर्मरहितस्यैवेत्यर्थः । न तु विशेषदर्शनसहकृतस्येति एवार्थः ।। निर्णयेति ।। निर्णय कारणं विशेषदर्शनम् । तद्राहित्यस्य विशेषादर्शनस्येति यावत् । अनङ्गीकारात् युक्ताङ्गहानिरिति सम्बन्धः। संशयकारणं समानधर्माऽदि तद्राहित्यमात्रस्येत्यर्थः । अनङ्गीकारादयुक्ताङ्गा-धिकत्वमिति सम्बन्धः ।
।।अन्यथेति ।। निर्णायकाभावसहकृतस्यैव समानधर्मादेः संशयकारणत्वात् अत्र च निर्णायकसद्भावात् न संशय इत्यनङ्गीकारे प्रत्युत निर्णायकं न संशयप्रतिबन्धकमित्यङ्गीकारे चेत्यर्थः । दूषकादूषकसाधर्म्यं पदार्थत्वादिति ।। जातावपीति ।। तथा च ‘धूमवत्त्वात्’ इति हेतुः साध्यासाधकः सत्प्रतिपक्षत्वात्’ इति जात्युत्तरेऽपि ‘यदि सत्प्रतिपक्षत्वात् साध्यासाधकत्वनिश्चयः ? तर्हि दूषकादूषकसाधारणेन पदार्थत्वादिना असाधकत्वसंशयोऽपि किं न स्यात्’ इति संशयप्रसङ्गसाम्यात् स्वन्यायविरोध इत्यर्थः ।। १३ ।।
प्रमाणलक्षणटीकाविवरणम्
संशयसमं लक्षयति सत्यपीति ।। संशयकारणमात्रेण साधारणधर्मदर्शनादिरूपेणेत्यर्थः ।। अन्यथेति ।। अयमर्थः । तावत्त्वया एवमनुमानमुक्तम् । विमतो हेतुः साध्यासाधकः सत्प्रतिपक्षत्वादिति । तत्राऽपि सत्प्रतिपक्षत्वेन असाधकत्वनिश्चयश्चेत्तर्हि दूषकादूषकसाधारणपदार्थत्वादीनां असाधकत्वसंशयापत्तेरिति ।