असमानधर्मविप्रतिपत्त्योरपि समानधर्म एवान्तर्भावयितुं शक्यत्वात्

नैयायिकैकदेशिमते उदयनमते स्वमते संशयकारणानि

प्रमाणलक्षणटीका

प्रत्येकं निश्चायकाभावसहकृतसमानासमानधर्म-विप्रतिपत्युपलब्ध्यनुपलब्धिजन्मा पञ्चधा भिद्यतइत्ये । तद्यथा, समानधर्मात् दीर्घत्वात्‘स्थाणुर्वा पुरुषो वा’ इति । असमान-धर्मात् आकाशविशेषगुणत्वात् ‘शब्दो नित्योनित्यो वा’ इति। विप्रतिपत्तेः ‘भौतिकानीन्द्रियाणि उत अभौतिकानि’ इति । उपलब्धे: ‘किं सदिदमुदकमुतासत्’ इति । अनुपलब्धेः ‘किमत्र यक्षोऽस्ति न वा’ इति ।

उदयनमते संशयकारणानि

उपलब्ध्यनुपलब्ध्योः समानधर्म एवान्तर्भावात् त्रैविध्य-मित्यपरे । समाने हि सदसतोरुपब्धत्वानुपलब्धत्वे इति ।

स्वमते कारणम्

असमानधर्मविप्रतिपत्त्योरपि समानधर्म एवान्तर्भावयितुं शक्यत्वात् ऐकविध्यमिति तत्वम् ।

प्रमाणलक्षणटीकाभावदीपः

।। प्रत्येकमिति ।। अनिर्दिष्टनिर्दिष्टान्यतरकोटिप्रधानेति त्रिविधोऽपि संशयः प्रत्येकं एकैकमित्यर्थ: । धर्मपदं समानेत्यत्राप्यन्वेति । कोटिद्वयसाधारणेत्यर्थः । निश्वायकाभावसहकृताभिः समानासमानधर्मविप्रति-पत्त्युपलब्ध्यनुपलब्धिभिः जन्म यस्यासौ तथोक्तः । भवन्निति शेषः ।

भौतिकानीति तार्किकाः । अभौतिकानीति साङ्ख्यादयः । विप्रतिपत्तेः उपलब्धेः इत्यादि तु पञ्चमी । जातः संशय इति शेषः ।। किं सदिति ।। कूपखननानन्तरं उपलभ्यमानमुदकमितियोज्यम् ।। अनुपलब्धेरिति ।।अस्मिन् वटे यक्षोस्तीति केनचिदुक्ते अनुपलम्भात् ज्ञायते संशयः ‘किमत्रयक्षोस्ति न वा’ इतीत्यर्थः । सत्वासत्वरूपकोटिद्वयसाधारण्यं उपलब्ध्यनुपलब्ध्योरुपपादयति ।। समाने हीति ।। इतिशब्दस्य इत्यन्ये आहुः इत्यन्वयः।

।। अन्तर्भावयितुं शक्यत्वादिति ।। असमानो हि धर्मो न स्वरूपेण संशयहेतुः । विशेषस्मरणकारणत्वाभावात् । किं तु? व्यावृत्तिमुखेनैव । तथा च नित्यव्यावृत्तत्वं अनित्यस्य धर्मे अनित्यव्यावत्तत्वं नित्यस्य धर्मे अस्तीति नित्यव्यावृत्तत्वं अनित्यधर्मसाधारणः अनित्यव्यावृत्तत्वं नित्यधर्मसाधारण एवेति संशयहेतुभूतौ द्वावपि धर्मौ साधारणावेव । न त्वेकेनैव समानधर्मेण भाव्यमिति नियमोस्ति  । भौतिकत्वेन प्रतिपन्नत्वं भौतिकमात्रसमानं अभौतिकत्वेन प्रतिपन्नत्वं अभौतिकसाधारणमिति विप्रतिपत्तिरपि समानधर्म एवेत्येवंरूपेणेति भावः ।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

एवं संशयप्रभेदमुक्त्वा इदानीं तत्साधनप्रदर्शनाय न्यायैकदेशिनां मतमाह ।। प्रत्येकमित्यादिना ।। प्रत्येकमिति द्विविधोऽपि संशय इत्यर्थः ।। समानासमानेति ।। साधारणासाधारणेत्यर्थः ।। विप्रतिपत्तेरिति ।। इन्द्रियेषु  वैशेषिकसाङ्ख्ययोः भौतिकत्वाभौतिकत्वविप्रतिपत्तेः सकाशात् इत्यर्थः । अस्याः संशयहेतुत्वं च उत्तरत्रान्तर्भावकथनसमये सम्यगुपपादयिष्यामः ।

।। अभौतिकानीति ।। केवलाहङ्कारिकाणीत्यर्थः ।। उपलब्धेरिति ।। कूपखननानन्तरं जलोपलब्धौ सत्यां निश्चायकमपश्यतः सन्देहो भवति ‘किं प्राक् सदेवोदकं कूपखननाभिवयक्तं सत् उपलभ्यते उत असदेवोत्पन्नं इत्यर्थः ।। अनुपलब्धेरिति ।। यक्षः पिशाच: । अस्मिन् वटे पिशाचोऽस्ति इति वार्तां श्रुतवतो वटसमीपं गतस्य तत्र पिशाचानुलब्धौ सत्यां निश्चायकाभावे संशयो भवति ‘किं विद्यमान एव पिशाचः अन्तर्धानशक्त्या नोपलभ्यते ? किं वा अविद्यमान एव ?’ इति ।

न्यायैकदेशिनं उदयनमुखेन दूषयति ।। उपलब्ध्यनुपलब्ध्योरिति ।। उपलब्ध्यनुपब्ध्यो:  सदसत्साधारण्यमुपपादयति ।। समाने हीति ।। उपलब्धिर्हि सतामेव घटादीनां दीपारोपणेन दृष्टा । असतां च कुलालादिव्यापारनन्तरं दृष्टा । इदं चोदकमुपलभ्यते । अतः ‘किं सदेव उपलभ्यते उत असदेव’ इति जायमानः संशयः साधारणधर्मजन्य एव । तथा अनुपलब्धिः सतां ईश्वरादीनां असतां शशविषाणादीनां दृष्टा । अयं च यक्षो नोपलभ्यते । अतः ‘किं सन्नेव नोपलभ्यते उत असन्नेव’ इत्येवं साधारणधर्मजन्य एवायमपि संशयः इति । एवमुपलब्ध्योः साधारणधर्म एवान्तर्भावात् त्रीण्येव संशय कारणानि इत्यर्थः ।

उदयनमतमप्ययुक्तमित्याशयेन स्वयं सिद्धान्तमाह ।। असमानधर्मेति ।। अयमर्थः । आकाशविशेषगुणत्वाद्यसाधारणधर्मो हि नाज्ञात एव संशयहेतुः तथात्वे सुषुप्तिदशायामपि तद्धेतुत्वप्रसङ्गात् । किं तु ? ज्ञात एव । तज्ज्ञानं च नाऽकाशविशेषगुणत्वादिना स्वरूपेण । तथा हि । साधारणासाधारणादिधर्मज्ञानस्य संशयहेतुत्वं कोटिस्मरणद्वारेणैव वाच्यम् प्रकारान्तरेण उपयोगादर्शनात् । असाधारणधर्मस्य स्वरूपेण ज्ञानं च न कोटिद्वयस्मरणजनकम् । न हि शब्दनिष्ठा-काशविशेषगुणत्वज्ञाने नित्यानित्यत्वकोट्युपस्थितिर्भवति । अतो नित्या-नित्यव्यावृत्तत्वेनैव तज्ज्ञानं वक्तव्यम् । आकाशविशेषगुणत्वं नित्यव्यावृत्तं अनित्यव्यावत्तं इति ज्ञाने हि शब्दस्य नित्यव्यावृत्तधर्मवत्वं अनित्यव्यावत्तधर्मवत्वं च ज्ञायते । तेन नित्यव्यावृत्तधर्मवत्वज्ञानेन अनित्यकोटेः अनित्यव्यावृत्त-धर्मवत्वज्ञानेन नित्यत्वकोटेः उपस्थितिः नित्यव्यावत्तधर्मवत्वस्य अनित्यत्वसह-चरितत्वेन घटादौ, अनित्यव्यावृत्तधर्मवत्वस्य नित्यत्वसहचरितत्वेन आकाशादौ च दर्शनात् । ततश्व एवं व्यावृत्तिमुखेन ज्ञातस्य आकाशविशेषगुणत्वाख्या-साधारणधर्मस्य कोटिस्मरणकारणत्वमस्तीति युक्तं तस्य संशयहेतुत्वम् ।

नन्वस्त्वेवं व्यावृत्तिमुखेन ज्ञात एव असाधारणधर्मः संशयहेतुः तथापि तस्य साधारणधर्म एवान्तर्भावः कथं ? इति चेत् उच्यते । उक्तरीत्या नित्या-नित्यव्यावृत्तत्वेन ज्ञातो ह्यसाधारणधर्म: संशयहेतुः । एवं च नित्यव्यावृत्त-धर्मवत्वंअनित्ये घटादौ संशयधर्मिणि शब्दे च साधारणम् । अनित्यव्यावत्तधर्मवत्वं च नित्ये गगनादौ शब्दे च साधारणम् । ननूर्ध्वतालक्षणसाधारणधर्मस्य एकस्यैव कोटिस्मरणद्वारा संशयहेतुत्वं दृष्टम् । इह तु नित्यव्यावृत्तधर्मवत्वं अनित्यव्यावृत्तधर्मवत्वं चेति धर्मद्वयं साधारणमुक्तम् । तत्कथं धर्मद्वयस्य संशयहेतुत्वं ? इति चेन्न । एकस्येव धर्मद्वयस्यापि संशयहेतुत्वे बाधकाभावात् । उक्तं च पद्धतौ – न ह्येकेनैव साधारणधर्मेण भाव्यमिति नियमोस्तीति ।

ननु च धर्मिकोटिद्वयालिङ्गित एव हि धर्मः साधारणधर्मः यथा ऊर्ध्वतादिः। प्रकृते च नित्यव्यावत्तधर्मवत्वं अनित्यव्यावृत्तधर्मवत्वं च नित्यत्वानित्यत्व-रूपैकैककोटिसहचरितमेव हि जातं, न तदुभयसहचरितं । अतः कथमेतयो: साधारण्यं ? इति चेत् धर्मिकोट्यालिङ्गितधर्मत्वमेव हि साधारणधर्मत्वं लाघवात्, तावत एव कोटिस्मरणोपयोगित्वाच्च । न तु कोटिद्वयालिङ्गितत्वंगौरवात् । अत एव तत्वप्रकाशिकायां तत्र तत्राधिकरणेषु धर्मद्वयस्यापि संशयबीजत्वमुक्तमिति ध्येयम् ।

एवं विरूद्धार्थकवाक्यद्वयजन्यप्रतीतिद्वयरूपाया विप्रतिपत्तेरपि साधारणधर्मवत्वेनैव संशयजनकत्वं न पृथक्त्वेन । तथा हि न तावत् अयं संशायो वैशेषिकसाङ्ख्ययोः । तयोः भौतिकत्वादिनिश्चयवत्वात् । अतइन्द्रियाणि भौतिकान्यभौतिकानीति वैशेषिकसाङ्ख्यवाक्याभ्यां तावदिन्द्रियाणि भौतिकत्वादिना प्रतीयन्ते, अनयोश्च प्रतीत्योर्न द्वयोरपि प्रामाण्यं अप्रामाण्यं वा युक्तम् परस्पर-विरुद्धत्वेन वस्तुविकल्पप्रसङ्गात् वस्तुनोनिःस्वभावत्वापत्तेश्च, उभयत्राप्यनिश्चयेन अन्यतरप्रामाण्यनिश्चयोप्यनुपपन्नः, अतः किमत्र भौतिकत्वप्रतीतिः प्रमाणं उत अभौतिकत्वप्रतीतिः इति प्रतीतिद्वयप्रामाण्ये सन्दिहानः अर्थे भौतिकत्वादावपि सन्देहवान् भवतितटस्थः इति वक्तव्यम् ।

एवं च वाक्यद्वयजन्यभौतिकत्वादिप्रतीतिलक्षणसाधारणधर्मदर्शनजन्य एव अयं भौतिकत्वादिसंशय इत्यायातम् । भौतिकत्वेन प्रतीतेश्च धर्मिभूतेष्विन्द्रियेषु कोटिभूतेषु पृथिव्यादिषु च विषयतासंबन्धेन सत्वात् साधारण्यम् । एवं अभौतिकत्वेन प्रतीतेरपि धर्मिभूतेषु इन्द्रियेषु कोटिभूतेषु कालादिषु च विषयतासंबन्धेन सत्वात् साधारण्यमुपपादनीयम् ।

अत एव पद्धतौ साधारणधर्मभूतायाः प्रतीते: धर्मिकोट्यालिङ्गितत्वं विषयतासंबन्धेनोपपादयितुमेव तथा तथा प्रतिपन्नत्वं इत्यभिहितम् इत्यवगन्तव्यम्।

प्रमाणलक्षणटीकाविवरणम्

संशयकारणेषु विवादस्य विद्यमानत्वेन स्वयं तत्वं वक्तुं अन्यदीयमतं दूषयितुं तदनुवदति ।। प्रत्येकमिति ।। समानधर्मादिमात्रस्येव संशयकारणत्वे घटत्वेन निश्चितेपि घटपटसाधारणपृथिवीत्वदर्शनेन घटेऽप्ययं घटः पटो वेति संशयः स्यादित्यत उक्तं ।। प्रत्येकमिति ।। अत्रच प्रत्येकं निश्चायकाभावसहकृतस्येत्यस्य असमानधर्मादिनापि संबंध इति ज्ञेयम् ।

।। असमानधर्मादिति ।। असाधारणधर्मादित्यर्थः । असाधारणधर्मत्वं च तद्वृतित्वे सति तदितरावृत्तित्वं । आकाशविशेषगुणत्वं च शब्दवृत्तित्वे सति तदितरनित्यानित्यावृत्तीति भवत्यसाधारणधर्म इत्यर्थः । तथाच नित्यव्यावृत्ता-काशविशेषगुणत्वाच्छब्दः किमनित्यः अनित्यव्यावृत्ताकाशविशेषगुणत्वात्किं नित्य इत्यसाधारणधर्मदर्शनजन्यः संशयः ।

उपलब्ध्यनुपलब्ध्योः साधारणत्वमुपपादयति ।। समानेति ।। सतामेव घटादीनां प्रकाशादिनोपलब्धेर्विधमानत्वेनासतां च कुलालादिव्यापारानन्तरमुप-लब्धेर्विद्यमानत्वोपलब्धेः सत्वासत्वरूपकोटिद्वयसहचरितत्वेन साधारणत्वम् । एवमनुपलब्धेरपि द्रष्टव्यं ।

स्वमतोपन्यासेनैवोपन्यस्तमतानां निराक्रियां मन्वानस्तत्वमाह ।। असमान-धर्मविप्रतिपत्योरिति ।। नन्वसाधारणधर्मस्य साधारणधर्मेऽन्तर्भावकथनं न युज्यते। असाधारणस्य साधारणाभिन्नत्वरूपत्वेनासाधारणस्य साधारणधर्मात्मकतायाः व्याहतत्वात् ।

 किंच स्वमते साधारणधर्म एव नास्ति । साधारणत्वं हि एकस्य धर्मस्य अनेकत्र वृत्तित्वम् । नचैतत्स्वमते सम्भवति । सर्वेषामपि धर्माणां एकैकत्रैव सत्वस्याङ्गीकारात् । नचैकरूपप्रमेयत्वादिकमनेकवृत्तीति वाच्यम् । एकवृत्तित्वाभावात् ।

एतेन पुरोवर्तिनिष्ठस्य कोटिद्वयसहचरितत्वं साधारणत्वमित्यपि प्रत्युक्तं । पुरोवर्तिनिष्ठस्य पुरोवर्तिन्येव सत्वेन धर्मान्तरे तस्य कोटिद्वयसहचरितत्वस्य वक्तुमशक्यत्वादिति । तस्मात्स्वमते साधारणधर्मत्वादेर्निर्वक्तुमशक्यत्वात् तत्रान्तर्भावकथनमयुक्तमिति चेत् ।

अत्र वक्तव्यम् । कोटिद्वयसहचरितत्वेन ज्ञातः संसयः कोट्युस्थापकः साधारणः व्यावृत्तिमुखेन ज्ञातःसन् यः कोट्युपस्थापकः सोऽसाधारणः । यथाचोर्ध्यत्वस्य स्थाणुत्वादिकोटिसहचरितत्वेन ज्ञातस्य कोटिद्वयोपस्था-पकत्वादस्यैव साधारणभिन्नत्वं असाधारणत्वमित्यनिर्वचनात् स्वमतकोपो न व्याघातः । तदिह आकाशविशेषगुणत्वादिरूपासाधारणधर्मस्य स्वरूपसतो वा स्वरूपेण ज्ञातस्य वा कोटिस्मरणजनकत्वेन संशयजनकत्वाभावात् । व्यावृत्तिमुखेनैव ज्ञातस्य संशयजनकत्वं वक्तव्यम् । नित्यव्यावृत्तत्वा-नित्यव्यावृत्तत्वयोश्च घटादावाकाशादावनित्यत्वानित्यत्वरूपकोटिसहचरितत्वाद् व्यावृत्तत्वेन च ज्ञातस्य तस्य नित्यत्वानित्यत्वरूपकोट्युपस्थापकत्वेन सहचरितत्वेन ज्ञातः सन् यः कोट्युपस्थापकः स साधारण इति साधारण-लक्षणान्तर्गतत्वात् भवत्येतस्य साधारणत्वम् ।

नन्वनित्यव्यावृत्तत्वनित्यव्यावृत्तत्वरूपधर्मद्वयस्य कोटिद्वयसहचरितत्वेन ज्ञातस्य कोटयुपस्थापकत्वमिति वैषम्यमिति वाच्यम् । एकस्यैव तदुपस्था-पकत्वमित्यस्य गौरवेणाप्रयोजकत्वात् । नियामकाभावाच्चेत्यलं पल्लवेन ।