उपलब्ध्यादिविषयिधर्माणां स्वात्मनि तदतद्रूपतां ..

अनुपलब्धिसमः

प्रमाणलक्षणटीका

उपलब्ध्यादिविषयिधर्माणां स्वात्मनि तदतद्रूपतां विकल्प्य उभयथा  व्याघातापादनं अनुपलब्धिसमः । यथा ‘उपलब्धत्वात् इदमस्ति’ इत्युक्ते सा उपलब्धिः स्वस्मिन्न्  उपलब्धितया वर्तते न वा ।

आद्ये नोपलब्धिः प्रमेयवदुपलब्धत्वात् । द्वितीयेऽपि तथा। प्रमेयवत् स्वात्मनि तथा अवृत्तेः । तथा च उपलब्धित्व-मसिद्धम् ।

एवं ‘अनुपलब्धेरिदं नास्ति’ इत्युक्ते अनुपलब्धिः स्वा-त्मनि अनुपलब्धितया वर्तते चेत् प्रमेयवदसती स्यात् । अवृत्तौ घटवत् नानुषलब्धिः । अनुपलब्ध्यभावात् अनुपलब्धत्वासिद्धिः इत्यादि।

प्रमाणलक्षणटीकाभावदीपः

।। स्वस्मिन्नुपलब्धिरूपेणेति ।। स्वविषयकत्वेन वर्तते न वा इत्यर्थः ।। उपलब्धत्वादिति ।। उपलब्धिविषयत्वादित्यर्थः ।। तथेति ।। नोपलब्धिरित्यर्थः ।

।। तथाऽवृत्तेरिति ।। उपलब्धिरूपेण अवृत्तेरित्यर्थः । प्रमेयं घटादिकं स्वात्मनि उपलब्धिरूपेण अवर्तमानत्वात् यथा नोपलब्धिः तथेति ।। प्रमेयवदसती स्यादिति ।। घटादिप्रमेये अनुपलब्धिः अनुपलब्धितया उपलब्ध्यभावरूपतया वर्तमाना चेत् तदा घटाभावसिद्ध्या घटो यथा असन् तथा अनुपलब्धितया स्वविषये वर्तते चेत् तदा स्वस्य अभाव एव सिध्येत् न तु स्वयमिति स्वयमसती स्यादित्यर्थः ।। घटवदिति ।। घटो यथा स्वात्मनि  अनुपलब्धत्वेन न वर्तत इति नानुपलब्धिः तथेयमपीत्यर्थः । इत्यादीति आदिपदेन विषयितामन्तरेऽप्येवमिति ग्राह्यम् ।।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

स्वस्मिन्विषयिधर्माणां तदतद्रूपकल्पनात् ।

विपर्ययप्रसङ्गः स्याज्जातिश्चानुपलब्धितः ।।

इतिकारिकानुसारेण नुपलब्धिसमजातिं लक्षयति ।। उपलब्ध्यादीति ।। आदिपदेन अनुपलब्धिः इच्छानिच्छे द्वेषाद्वेषौ कृत्यकृती उपपत्त्यनुपपत्ती व्यवहृत्त्यव्यवहृती भेदाभेदावित्येवमादयो वरदराजीयोक्ता ग्राह्याः ।

।। विषयिधर्माणामिति ।। विषयनिरूप्यधर्माणामित्यर्थः । उपलब्ध्यादयश्च ते विषयिधर्माश्चेति विग्रहः । स्वात्मनि उपलब्ध्यादिस्वरूपे । विषयसप्तमीयम् ।

।। तदतद्रूपतामिति ।। तद्रूपतां अतद्रूपतां चेत्यर्थः । तद्रूपतां उपलब्ध्या-दिरूपतां उपलब्ध्यादिरूपत्वेन वृत्तिमित्यर्थः । अतद्रूपतां उपलब्ध्यादिरूपत्वेन अवृत्तिमित्यर्थः । उभयथा पक्षद्वयेऽपि । व्याघाताऽपादनं उपलब्धित्वाऽदि-व्याघाताऽपादनम् ।

स्वस्मिन्विषये ।। उपलब्धितयेति ।। उपलब्धिरूपेणेत्यर्थः ।। स्वविषयतया वर्तत इति यावत् । कथं’ इत्यत आह ।। प्रमेयवदिति ।। घटादिवदित्यर्थः । तथा च यद्युपलब्धिः स्वविषये उपलब्धितया वर्तत इत्यङ्गीक्रियते स्वविषयकतया वर्तत इत्यङ्गीक्रियत इति यावत् । तर्हि तस्या उपलब्धेः उपलब्धिविषयत्वेन घटादिवत् उपलब्धत्वस्यैव प्राप्त्या उपलब्धित्वं न स्यात् । ततश्च तद्विषयो लिङ्गादिः नोपलब्धः स्यात् । तथा चोपलब्धत्वात् इदमस्ति’ इत्यत्र उपलब्धत्वमसिद्धमिति भावः ।

।। तथेति ।। न उपलब्धिरित्यर्थः । तदुपपादयति ।। प्रमेयवदिति ।। स्वात्मन्युपलब्धिरूपेणावर्तमानघटादिवदित्यर्थः । अस्वविषयकघटादिवदिति यावत् ।। स्वात्मनीति ।। स्वविषये उपलब्धिरूपेणावृत्तेरित्यर्थः । अस्वविषयकत्वादिति यावत् । तथा च यद्युपलब्धिः स्वात्मन्युपलब्धिरूपेण न वर्तत इत्यङ्गीक्रियते स्वविषयिणी न भवतीत्यङ्गीक्रियत इति यावत् । तर्हि अस्वविषयकघटादिवत् यथा घटादीनामुपलब्धित्वं नास्ति तद्वदिति यावत् । अस्या अप्युपलब्धित्वं न स्यादिति तद्विषयो लिङ्गादिर्नोपलब्धः स्यादिति उपलब्धत्वमसिद्धमित्यर्थः ।

 ।। अनुपलब्धेरिति ।। अनुपलब्धत्वादित्यर्थः । स्वात्मनि स्वविषये । अनुपलब्धितया अनुपलब्धिरूपेण स्वविषयकतयेति यावत् ।। प्रमेयवदसती स्यादिति ।।अयमर्थः , यदि अनुपलब्धिः स्वात्मनि अनुपलब्धिरूपेण वर्तत इत्यङ्गीक्रियते स्वविषयकतया वर्तत इत्यङ्गीक्रियत इति यावत्, तर्हि यथा घटादिरूपप्रमेयविषयकोपलब्ध्यभावे घटादीनामसत्त्वमेव प्राप्नोति वस्तुसिद्धेर्ज्ञानैकाधीनत्वात् । एवमनुपलब्धिविषयकानुपलब्ध्यङ्गीकारे अनुपलब्धिविषयकोपलब्ध्यभावप्राप्त्या अनुपलब्ध्यभावात् अनुपलब्धिरूपपदार्थस्यैव अभावापत्तेः । वस्तुसिद्धेर्ज्ञानैकाधीनत्वात् । तथा च अनुपलब्धेरेवाभावे तद्विषयो नानुपलब्धः स्यात् । एवं च ‘अनुपलब्धत्वात् इदं नास्ति’ इत्यत्र अनुपलब्धत्वस्य असिद्धिरित्यर्थः ।

 ।। अवृत्ताविति ।। अयं भावः , यदि अनुपलब्धिः स्वात्मनि अनुपलब्धि-रूपेण न वर्तत  इत्यङ्गीक्रियते अनुपलब्धिः स्वविषयिणी न भवति इति अङ्गीक्रियते अनुपलब्धिविषयकानुपलब्धि नास्तीत्यङ्गीक्रियत इति यावत् , तर्हि यथा घटादिपदार्थविषयकानुपलब्ध्यभावे घटादिपदार्थानामुपलब्धत्वमेव प्राप्तं एवं अनुपलब्धिरूपपदार्थविषयकानुपलब्धिर्नास्ति इत्यङ्गीकारे अनुपलब्धिविषयकोप-लब्ध्यभावाभावापत्त्या अनुपलब्धिरूपपदार्थस्य उपलब्धिविषयत्वेन उपलब्ध-त्वमेव प्राप्तं इति  अनुपलब्धित्वं स्यात् । तथा च तद्विषयो नानुपलब्धः स्यादिति अनुपलब्धत्वस्य असिद्धिरिति ।

प्रमाणलक्षणटीकाविवरणम्

अनुपलब्धिसमं लक्षयति । उपलब्ध्यादिति । विषयनिष्ठा विषयिणः। ते च ते धर्माश्च उपलब्ध्यादयश्च ते विषयधर्माश्चेति कर्मधारयः । आदिपदेनानुपलब्धिइच्छानिच्छद्वेषाद्वेषकृत्यकृतिशक्त्यशक्तिउपपत्यनुपपत्य-व्यवहृत्यव्यवहृतिभेदादिसंग्रहः । तेषां स्वात्मनि उपलब्ध्यादौ एते धर्माः उपलब्धित्वादिरूपेण वर्तन्ते उत तद्रूपेणेति विकल्प्योभयथाऽपि पक्षद्वयेऽपि व्याघातापादनमित्यर्थः ।

।। अद्य इति ।। यद्युपलब्धिः उपलब्धौ वर्तते तर्हि उपलब्धिर्न स्यात् । किंतु घटादिरुपलब्ध्या स्यादिति भावः । द्वितीयेऽपि तथेति तथा नोपलब्धिरित्यर्थः।

कथमित्यतस्तदुपपादयति ।। प्रमेयवदिति ।। यथा प्रमेयं घटादिस्वस्मिन् अवृत्तिस्तथा आत्मन्युपलब्ध्यादौ तथा उपलब्ध्यादित्वरूपेणावृत्तेरित्यर्थः । प्रमेयवदसती स्यादिति यद्यनुपलब्धितयाऽनुपलब्धिरनुपलब्धावस्ति तदाऽनुप-लब्धेरसती स्यात् । सर्वेषामपि घटादीनां सत्वस्योपलब्ध्येकसमधिगम्यत्वेनानुप-लब्धघटादिवदसत्वापातादित्यर्थः ।

यद्वा अनुपलब्धौ अनुपलब्धिसत्वे तस्यापि विषयवदनुपलब्धत्वादनुप-लब्धित्वं न स्यादिति भावः । द्वितीयं दूषयति अवृत्ताविति । घटवदनुपलब्धिर्न स्यात् । तथा अनुपलब्धिविषयत्वं न स्यादित्यर्थः ।

।। व्याघात इति ।। विमतो हेतुः साध्यासाधकः असिद्धत्वादिति प्रतिषेधहेतावपि असिद्धिः असिद्धतया स्वात्मनि वर्तते चेत्तर्हि अस्या अप्यसिद्धत्वमेव स्यात् नत्वसिद्धित्वमिति। असिद्धिविषयत्वाभावादिसिद्धिरिति व्याघात इत्यर्थः । अयुक्तांगाधिकत्वमुपपादयति स्वात्मनीति ।। उपलब्ध्यादौ तथा उपलब्ध्यादिना रूपेण वृत्तेरयुक्तत्वादित्यर्थः ।

Load More