जातिः ‘न मेये मानापेक्षा ‘इत्यादिका

जातय:

जातिनिरूपणम्

प्रमाणलक्षणटीका

स्वव्याहतिर्जातिः । एकवाक्यविषयत्वान्नाप-सिद्धान्तेऽतिप्रसङ्गः । त्रिविधा स्वव्याहतिः एकवाक्यगत-पदाऽदेरन्योन्यप्रतिस्पर्धित्वं स्वक्रियाविरोधः तद्वाक्यन्यायेन तद्वाक्यविरोधश्चेति ।

तत्र समयबन्धाऽदौ प्रमाणविरोधाऽदिप्रपञ्चः स्वयमेव उदाहर्तव्य इति सूचयन् आद्यजातिं तावत् प्रतिज्ञायामुदाहरति

प्रमाणलक्षणम्

जातिः ‘न मेये मानापेक्षा ‘इत्यादिका

मानसापेक्षं हि ज्ञेयं मेयमुच्यते । तस्य प्रमाणनिरपेक्षत्व-प्रतिज्ञा ‘मे माता वन्ध्या’ इतिवत् व्याहता भवति । आदिपदेन समयबन्धादावपि इयमेवोदाहर्तव्येति सूचयति ।

द्वितीयजातेरपीदमेवोदाहरणम् ।। जातिरिति ।। मेयं मानानपेक्षम् इति वदति । तज्ज्ञापनाय प्रमाणं चाभिधत्ते । अतो ‘मूकोऽहम्’ इतिवत् स्वक्रियाविरोध इति ।

प्रमाणलक्षणटीकाभावदीपः

अपसिद्धान्तेऽपि स्वव्याहतिभावात् अतिव्याप्तिमाशङ्क्याह ।। एकवाक्येति ।। एककर्तृकवाक्ये व्याहतिर्जातिः अपसिद्धान्तस्तु अनेककर्तृकवाक्य इति भेद इति भावः । यद्वा एकस्मिन्नेव वाक्ये विरोधोजातिः । भिन्नवाक्ये अपसिद्धान्त इत्यर्थः ।

।। पदादेरिति ।। आदिपदेन महावाक्यगतावान्तरवाक्यस्य ग्रहः । प्रतिस्पर्धित्वं विरुद्धत्वं । इति त्रिविधेत्यन्वयः  ।। समयबन्धादाविति ।। कथास्वरूपवादिप्रति-वादिपक्षपरिग्रहाऽदिरादिपदार्थः ।

मानसापेक्षज्ञानमिति बहुव्रीहिः ।। मे मातेति ।। यद्यपि ममेति वाच्यम् ‘तेमयावेकवचनस्य’ इत्यादेशस्य ‘वाक्यादौ न’ इति निषेधात् तथापि नञा निर्दिष्टमनित्यम् इति ‘इदमः स्यमुः’ इत्युकारोच्चारणेन ज्ञापनात् साध्वेवेदमिति ज्ञेयम् । ‘न विभक्तौ तुस्माः’ इति नञा निर्दिष्टस्य नित्यत्वेनैव मकारलोपाभावात् मकाररक्षणार्थम् उकारो व्यर्थः स्यात् । तेन नञा निर्दिष्टमात्रस्यानित्यत्वं ज्ञेयम् । शेषोक्त्या वाक्यं योजयति ।। इति वदतीत्यादि ।। यद्वा आदिपदस्य अर्थान्तरा-ेक्तिरियम् ।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

ननु पूर्वाचार्यवाक्यस्यापि स्वाभ्युपगतत्वेन स्ववाक्यत्वात् तद्विरुद्धाङ्गीकाररूपापसिद्धान्तस्यापि स्वव्याहतत्वेन जातित्वापत्तिः इति चेत् तत्राह ।। एकवाक्येति ।। तथा च एकस्मिन्नेव वाक्ये स्वव्याहतिर्जातिः । वाक्यान्तरेण विरुद्धाङ्गीकारोऽपसिद्धान्तः इति तयोर्भेदात् न जातिलक्षणस्य अपसिद्धान्ते अतिव्याप्तिरित्यर्थः । परोक्तजातीनां स्वन्यायविरोधात्मकतृतीयजाता-वन्तर्भावं वक्तुं  जातिप्रभेदमाह ।। त्रिविधेति ।। एकवाक्यगतेत्यादि ।। स्ववचनविरोध इत्यर्थः ।। तद्वाक्यन्यायेनेति ।। स्वन्यायविरोध इत्यर्थः ।

ननु विरोधो मानस्ववाक्याभ्याम् इत्यभिधाय स्ववाक्यविरोधो विभज्य निरूपितः । तत्र स्ववाक्यविरोधः अनुमान एव प्रतिज्ञायां उदाहरणमुखेन भगवत्पादैः प्रदर्श्यते न समयबन्धादौ । तथा समयबन्धादिसाधारणो मानविरोधोऽपि नोदाहरणमुखेन प्रदर्शितः । अतो न्यूनता इत्यत आह ।। तत्र समयबन्धादाविति ।। आदिपदेन स्ववाक्यविरोधग्रहणम् । प्रतिज्ञायाम् आद्यां जातिमित्यन्वयः । प्रतिज्ञावाक्यगतपदादेरन्योन्यं प्रतिस्पर्धित्वरूपस्ववचनविरोध-रूपामाद्यां जातिमित्यर्थः ।

सूचयन्नित्युक्तसूचनाप्रकारमेव दर्शयति ।। आदिपदेनेति ।। इयमेवेति ।। या अनुमाने प्रतिज्ञायामुदाहृता इयमेव स्ववचनविरोधरूपा जातिः समयबन्धादा-वप्युदाहर्तव्येत्यर्थः । द्वितीयजातेः स्वक्रियाविरोधरूपायाः ।

प्रमाणलक्षणटीकाविवरणम्

ननु नापसिद्धान्तस्य स्वविरोधविभागरूपत्वम् । तस्य पूर्वाचार्यैः प्रामाणिकतया यदभ्युपगतं तद्विरुद्धाङ्गीकारस्यैवापसिद्धांतत्वादित्यत आह पूर्वेति।

अपसिद्धान्तस्य स्ववाक्यविरोधविभागत्वोपपादनेनैव तल्लक्षणमुक्तं भवतीति मन्वानः साक्षात्तदनुक्त्वा जातेर्लक्षणमाह ।। स्वव्याहतिरिति ।। नन्वेवमप-सिद्धान्तेऽतिव्याप्तिः । तस्यापि स्वव्याहतिरूपत्वादित्यत आह ।। एकेति ।।

एवञ्च कस्मिन्नेव वाक्यविरोधो जातिविरोधो जातिः वक्यांन्तरविरोधो-ऽपसिद्धान्त इति तयोर्भेदान्नातिव्याप्तिः ।

Load More