उपक्रमोपसंहारतदैकरूप्याभ्यासापूर्वताफलार्थवादाश्च
उपक्रमादीनामनुमानान्तर्भावः
प्रमाणलक्षणटीका
तथाऽपि वाक्यतात्पर्यज्ञापकान्युपक्रमाऽदीनि पृथक् प्रमाणानि सन्तीत्यत आह –
प्रमाणलक्षणम्
उपक्रमोपसंहारतदैकरूप्याभ्यासापूर्वताफलार्थवादाश्च
चोऽनुमेत्यस्यानुकर्षणार्थः । प्रकरणाऽदिरुपक्रमः । तदन्त उपसंहारः । तयोरुपक्रमोपसंहारयोरेकार्थत्वं तदैकरूप्यम् ।
एकप्रकारासकृदुक्तिरभ्यासः । प्राचुर्येण प्रमाणान्तराप्राप्तता अपूर्वता । फलवत्वं फलम् । स्तुतिर्निन्दा परकृति: पुरा-कल्पोऽर्थवादः । एतेषां वाक्यतात्पर्ये अनुमात्वान्नोक्तविरोधः। यद्येतेऽनुमानेऽन्तर्भूतास्तर्हि कथं तेषां
‘‘उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् ।
अर्थवादोपपत्ती च लिंगं तात्पर्यनिर्णये’’
इति उपपत्तितः पृथगुक्तिरित्यत आह
उपपत्तिविशेषाः
यथा खलु पाण्डवानां कौरवान्तर्भावेऽपि कौरवेभ्यः पृथगुक्तिः कौरवविशेषत्वेन साक्षादेकत्वाभावेन कौरवपदेन तदतिरिक्तग्रहणात् ,तथा प्रकृतेऽपीति ।
नन्वेवं पृथगुक्तिमन्यथा व्याख्यायैषामनुमानान्तर्भावां-गीकारे को हेतुः ? इत्यत आह
त एव सोपपत्तयो लिङ्गानि
उक्ता इति शेषः । यथा ‘उपक्रमोपसंहारौ’ इत्यत्रोपपत्तेः लिङ्गत्वमुच्यते तथा उपक्रमाऽदीनामपि । अतो युक्तमुक्तम् ।
किं च यथोपपत्तिर्लिङ्गम् व्याप्तिबलेनार्थधीहेतुः तथोपक्रमाऽदयोऽपि ‘यत्र यत् उपक्रम्यते तत्रापवादाभावे तत् तात्पर्यगोचरः’ इत्यादिव्याप्तिबलेनैवार्थबोधकाः । अतः कथं नानुमानेऽन्तर्भावः ? इत्याह ।। त एवेति ।। एतेनागमान्त-र्भावोऽपि परास्तः । नह्यागमवत् व्याप्तिमनपेक्ष्य बोधका एते अनुभूयन्ते । तेषामागमार्थविषयत्वज्ञापनार्थो योगविभागः।
प्रमाणलक्षणटीकाभावदीपः
‘गिरिरग्निमान् वह्निमान्, इत्यादेरभ्यासत्वनिवृत्यर्थमुक्तम् एकप्रकारेति ।। न चासकृदुक्तिर्व्यर्थेति शङ्क्यम् । दुरधिगमेऽर्थे तात्पर्याभावशङ्कानिरासाथर्ं तस्या अर्थवत्वात् ।
।। प्राचुर्येणेति ।। स्वबोधनीयपुरुषगताज्ञानाऽदिविरोधिना स्वानुपजीविना प्रमाणान्तरेणाऽग्राह्यार्थता इत्यर्थः । तेन वेदार्थस्य धर्माधर्माऽदेः ईश्वरसार्वज्ञ्याऽदेश्च स्मृतिवाक्येन सर्वकर्तृत्वाऽद्यनुमानेन च ग्राह्यत्वेऽपि तयोर्वेदोपजीवित्वात् वेदस्य अपूर्वतासिद्धिः । वेदार्थस्य वेदानुपजीवीऽश्वरप्रत्यक्षग्राह्यत्वेऽपि ईश्वरस्य वेदबोधनीयत्वाभावात् वेदबेधनीयास्मदादिगताज्ञानाऽदिकं प्रति चेश्वरज्ञानस्याविरोधित्वात् वेदस्यापूर्वताप्राप्तिः । प्रत्यक्षग्राह्येऽर्थे प्राक् प्रवत्तस्य शब्दस्य तदगृहीतार्थत्वेऽपि तदग्राह्यार्थत्वादपूर्वताऽभावः । स्मृतीनां स्वानुपजीविवेदग्राह्यार्थत्वेऽपि वेदे नानाशाखासु अस्पष्टं विक्षिप्योक्तस्य स्मृतिभिरिव वेदेन स्मृतिबोधनीयैरस्मदादिभिरग्राह्यत्वात् अपूर्वता । एवं वादिविप्रतिपत्तिजन्यातत्वावेदकत्वशङ्काकलङ्कितेन सर्वविषयेण प्रत्यक्षेण ‘विश्वं सत्यम्’ इत्यादिवाक्येनैव जगत्सत्यत्वाऽद्यप्राप्तेः तद्वाक्यस्यापूर्वता इत्येवं ज्ञेयम् ।
स्तुतिर्गुणकीर्तनम् । दोषकीर्तनम् निन्दा । एककर्तृकोपाख्यानम् परकृति:। बहुकर्तृकोपाख्यानम् पुराकल्पः । अक्षाऽदिशब्द इव नानाऽर्थोऽयं अर्थवादशब्द इति भावः । ।। एतेषामिति ।। उपक्रमादीनामित्यर्थः । तात्पर्यं नाम तत्प्रमित्युद्देशेन प्रवृतत्त्वरूपं तत्प्रमितिशेषत्वम् । प्रत्येकं तत् अनुमापयन्त्येत इत्येकैकस्याननुगमेऽपि न दोषः । तेषामुदाहरणानि ब्रह्मतन्त्रे व्यक्तानि । विस्तरभिया अत्र नोच्यन्ते
।। नोक्तेति ।। त्रित्वविरोधो नेत्यर्थः ।। पृथगुक्तिरिति ।। ‘सन्तानबीजं कुरुपाण्डवानाम्’ इति दशमस्कन्ध इति भावः ।। इति शेष इति ।। त एव उपक्रमाऽदय एव, उपपत्तिसहिताः लिङ्गानि उक्ताः , लिङ्गत्वेनोक्ताः प्रागुक्तस्मृताविति योजना । तथैव व्यनक्ति ।। यथेति ।।
अध्याहारं विनैव योजनान्तरमाह ।। किं चेति ।। उपपत्तेः सिद्धस्य लिङ्गत्वस्योपन्यासो दृष्टान्तार्थ इत्यभ्युपेत्याऽह ।। यथेति ।। लिङ्गपदार्थमाह ।। व्याप्तिबलेनेति ।। ‘लीनं अर्थं गमयति लिङ्गम्’ इति व्युत्पत्तेरिति भावः ।
‘यत्र यत् उपक्रम्यते तत्र तत् तात्पर्यगोचरः’ इत्येवोक्तौ ‘ह्वयाम्यग्निं प्रथमं स्वस्तये’ इति सावित्रसूक्ते अग्नेरुपक्रमेऽपि तत्सूक्ततात्पर्यगोचरत्वं नेति व्यभिचारनिरासाय अपवादाभाव इत्युक्तम् । तत्र सवितृश्रुतिलिङ्गाऽदेरपवादस्य भावादिति भावः ।
।। इत्यादीति ।। ‘यत्र यत् उपसंह्नियते तत्र तत् तात्पर्यगोचरः अपवादाभाव इत्यादि ध्येयमित्यर्थः । ‘तस्यैष एव शारीर आत्मा यः पूर्वस्य’ इति जीवप्रापकोपसंहारे सत्यपि न तत्र तस्य तात्पर्यगोचरत्वम् इत्यतः अपवादाभाव इत्युक्तिः । तत्र ब्रह्मशब्दाभ्यासरूपापवादात् ‘जीवाद्भवन्ति भूतानि जीवे तिष्ठंन्यचञ्चलाः’ इत्यादावभ्यासे सत्यपि न जीवपरत्वम्, ब्रह्मपरत्वप्रापकापूर्वतालक्षणापवादात् इत्यादि ध्येयम् । त एवेतीतिप्रतीकमुखेन वाक्यमात्नस्य ग्रहणम् ।। एतेनेति ।। व्याप्तिबलेनार्थगमकत्वकथनेनेत्यर्थः । अत्रोपक्रमोपसंहारेत्येवं क्रमेण निर्देशः तेषामन्योन्यविरोधे सति उत्तरोत्तरेण पूवपूर्वस्य बाधेनाऽर्थनिर्णयः कार्य इति सूचयितुम् ।
‘उपक्रमाऽदिलिङ्गानां बलीयो ह्यत्तरोत्तरम्’ इत्युक्तेः ।
यत्रैकस्यार्थस्योपक्रममात्रमुपसंहारमात्रं वा तत्रोपक्रान्ताऽदिमात्रार्थे तात्पर्यम्, यत्र तु वाक्ये उभयं तत्र तदविरोधलक्षणैकरूप्यात् उभयानुगुणेऽर्थे तात्पर्यम् इति ज्ञापनाय तदैकरूप्यस्याप्युक्तिः । प्रागुक्तस्मृतावपि ‘उपक्रमोपसंहारौ’ इत्यत्र प्रत्येकविवक्षया विशकलितौ द्वाविव समुदायविवक्षया तदैकरूप्यमिति विवक्षितम् । तेन ‘त एव’ इति वाक्ये ऐकरूप्यस्यापि उपपत्तेरिव तल्लिङ्गत्वोक्तिः सिद्धेति ज्ञेयम् । यस्य वाक्ये यस्मिन्नर्थे उपक्रमोपसंहारयोरैकरूप्यं तत्र तदर्थे तात्पर्यम् । यथा ‘ब्रह्मविदाप्नोति परम्’ इति ज्ञानिप्राप्यत्वेनोपक्रमः, तथैव ‘स य एवंवित् अन्नमयमात्मानमुपसंक्रम्य’ इति ज्ञानिप्राप्यत्वेन उपसंहारात् तद्वाक्यसन्दर्भः सर्वोऽपि ब्रह्मपरः इत्यादि ध्येयमिति भावः ।
ननु आत्माऽश्रयेत्यादिवाक्य एवोपक्रमाऽदयोऽपि निर्देष्टव्याः । कुतो वाक्यभेदः इत्यत आह ।। तेषामिति ।।
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
।। सन्तीति ।। अतोऽनुप्रमाणत्रित्वभङ्ग इति भावः । चः चशब्दः ।। प्राचुर्येणेति ।। अन्यथा प्रमाणसम्प्लववादिनामस्माकं मते वेदवेद्यस्येश्वरा-देर्योगिप्रत्यक्षाऽदिरूपप्रमाणान्तराप्राप्तार्थताऽभावात् असम्भवः स्यात् इत्यतः प्राचुर्येणेत्युक्तम् । बाहुल्येनेत्यर्थः । क्वचित् तदभावो न दोषायेति भावः । प्रमाणान्तराप्राप्तता अपूर्वता इत्येव क्वचित् पाठः । तत्र प्राचुर्येणेति पदमध्याहार्यम् । अन्यथा उक्तरीत्याऽसम्भवाऽपत्तेरिति ध्येयम्
।। स्तुतिरित्यादि ।। गुणसङ्गीर्तनम् स्तुतिः । दोषसङ्कीर्तनम् निन्दा ।। कर्तृनामनिर्देशपूर्वकमितिहासकथनम् परकृति: । सामान्यतः कथाकथनम् पुराकल्पः । अन्ये तु एककर्तृकवाक्यम् परकृतिः । बहुकर्तृकवाक्यम् पुराकल्प इत्यप्याहुः । ।। अनुमानत्वादिति ।। ‘इदं वाक्यम् अस्मिन्नर्थे तात्पर्योपेतम् तादृशोपक्रमाद्युपेत-त्वात्, इत्येवंरूपेणानुमानत्वात् इत्यर्थः ।। नोक्तविरोध इति ।। प्रमाणत्रित्वस्य विरोधो नेत्यर्थः ।
।। पृथगुक्तिरिति ।। ‘सन्तानबीजं कुरुपाण्डवानाम्’ इत्यत्रेत्यर्थः ।।। साक्षादेकत्वाभावेनेति ।। घटकलशवत् निर्विशेषाभेदाभावेनेत्यर्थः ।। तथा प्रकृतेऽपीति ।। उपक्रमाऽदीनामप्युपपत्तिविशेषत्वेन उपपत्तिपदेन तदतिरिक्तोपपत्तिग्रहणात् इत्यर्थः ।
।। अन्यथेति ।। सामान्यविशेषभावेनेत्यर्थः ।। उक्ता इतीति ।। त एव उपक्रमाऽदयः, सोपपत्तयः उपपत्तिसहिताः लिङ्गान्युक्ताः लिङ्गत्वेनोक्ता:, इति मूलार्थमभिप्रेत्य सोपपत्तय इत्यस्याभिप्रायमाह ।। यथो पक्रमेति ।। युक्तमुक्तमिति ।। उपपत्तिविशेषत्वेन पृथगुक्ंित व्याख्याय अनुमानान्तर्भावमङ्गीकृत्य प्रमाणत्रित्वकथनं युक्तमित्यर्थः ।
ननूपपत्तेर्व्याप्तिबलेनार्थधीहेतुत्वात् युक्तं लिङ्गत्वम् । उपक्रमाऽदीनां तु कथं तत् ? इत्याशङ्कानिरासार्थत्वेनापि एतदेव वाक्यमवतारयति ।। किं चेत्यादिना ।। सोपपत्तय इत्यस्याभिप्रायमाह ।। यथोपपत्तिर्लिङ्गमिति ।।
लिङ्गमित्यस्यार्थमाह ।। व्याप्तीति ।। तदेव विवृणोति ।। यत्रेति ।। यत्र यत् उपक्रम्यते तस्यैव तत्तात्पर्यविषयत्वम् इत्यङ्गीकारे ‘एकमेवाद्वितीयम्’ इत्युपक्रमात् जीवपरमात्माभेदस्य ‘तत्वमसि’ इति इति श्रुतितात्पर्यविषयत्वाऽपत्तिः इत्यत उक्तम् ।। अपवादाभाव इति ।। तत्र च विरुद्धधर्माधिकरणत्वयुक्तियुक्ता ‘भिन्नो चिन्त्यः’ इत्यादिश्रुतिरेवापवादकभूताऽस्तीति नाभेदस्तत्र श्रुतितात्पर्यविषय इत्यर्थः । यथोक्तम् ‘पृथगुपदेशात्’ इति ।
।। एतेनेति ।। उपक्रमाऽदीनां व्याप्तिबलेनार्थधीहेतुतया लिङ्गत्ववचनेनेत्यर्थः । तदेव विशदयति ।। न हीति ।। अत्रापि योगविभागेनान्तर्भावकथने निमित्तमाह ।। एतेषामिति ।। अर्थाऽपत्त्यादीनां केवलं बाह्यार्थ एव लिङ्गत्वम्, उपक्रमाऽदीनां तु आगमार्थविषयत्वमेव आगमस्यार्थविशेषे तात्पर्यनिश्चायकत्वमिति विशेषज्ञापनार्थो योगविभाग इत्यर्थः ।
प्रमाणलक्षणटीकाविवरणम्
कौरवपदेन तदतिरिक्तग्रहणादिति ।। ‘‘संतानबीजं कुरुपाण्डवानाम्’’ इत्यत्र कौरवपदेन पाण्डवातिरिक्तकौरवग्रहणादित्यर्थः ।
उपपत्तेर्लिंगत्वे विवादाभावात् सोपपत्तय इति उपपत्तिग्रहणं किमर्थमित्यतः दृष्टांतत्वेनेत्याह ।। यथेति ।। नन्वेवमुपक्रमादीनामनुमानत्वे योगविभागः किमर्थम् ? एकवाक्येनैव तत्प्रतिपादनंसंभवादित्यत आह ।। एषामिति ।। यथा खल्वर्थापत्त्यादेः केवलं लिङ्गत्वमेवास्ति नैवमुपमादीनां । तेषां तात्पर्यनिर्णये अनुमानत्वेपि स्वार्थे आगमत्वादिति वैलक्षण्यमुपपादयितुं योगविभाग इति भावः
।। वाक्यमुक्तमिति ।। आकांक्षासन्निधियोग्यतावत्पदसमूहो वाक्यमिति वाक्यलक्षणमुक्तमित्यर्थः ।। तादृशमिति ।। कयाचिद्विवक्षया एकार्थत्वावच्छिन्नं प्रकरणजातमित्यर्थः ।।