निर्दोषः शब्द आगमः
आगमलक्षणम्
प्रमाणलक्षणटीका
आगमलक्षणमाह
प्रमाणलक्षणम्
निर्दोषः शब्द आगमः
अज्ञानविपर्ययसंशयप्रमादविप्रलम्भाऽदिपुरुषदोषपूर्वकत्वाभावो निर्दोषत्वम् । शब्दो वाक्यात्मा । विभक्त्यन्ता वर्णाः पदम् । आकांक्षायोग्यतासन्निधिमन्ति पदानि वाक्यम् । श्रोतुराकां-क्षितार्थाभिधायकत्वं पूर्वपदसंजाताऽकांक्षापूरकत्वं वा आकांक्षावत्वम् ।
तेन विरक्तं प्रति वाणिज्योपदेशस्य, गौरश्वः पुरुषो हस्तीत्यादेश्च अवाक्यत्वं भवति ।
सन्निहितार्थाभिधायकत्वं अविलंबेनोच्चरितत्वं वा सन्निहित-त्वम् । तेन चोलेषु वर्तमानं तृषितं प्रति ‘सन्ति सुरसरिति शीतलानि जलानि’ इत्युपदेशस्य विलंबेनोच्चरितपदानां च वाक्यत्वनिरासः ।
अन्योन्यान्वययोग्यतावदर्थाभिधायकत्वं योग्यतावत्वम् । तथा च ‘अग्निना सिंचेद्’ इत्यादेर्वाक्यत्वनिरासः । निर्दोष इत्यागमाऽभासनिवृत्ति: । शब्द इति प्रत्यक्षाऽदिव्युदासः । आगमश्च सम्यग्ज्ञात एव बोधकः । अन्यथाऽतिप्रसंगात् ।
स द्विविधः । नित्योऽनित्यश्च । नित्यो वेदः । अनित्यः पुराणाऽदिः । वर्णानां च सर्वत्र नित्यत्वेऽपि प्रबन्धविशेषस्य नित्यत्वानित्यत्वाभ्यामयं विभागः । वर्णाश्च भेदकाभावात् सर्वगता एवेति ।
प्रमाणलक्षणटीकाभावदीपः
निर्दोषपदेन निरभिधेयत्वानन्वितत्वाऽदिराहित्यविवक्षायां शब्दपदस्य वाक्याऽत्मत्वविवक्षा पुनरुक्तिदोषपराहता स्यात् । अतो विवक्षितदोषराहित्यमाह ।। अज्ञानेति ।। शब्दबोध्यार्थविषयाज्ञानविपर्यय-संशयेत्यर्थः । प्रमादोऽनवधानम् । विप्रलम्भो वञ्चनम्, अविद्यमानस्य विद्यमानताविवक्षेति यावत् । आदिपदेन करणापाटवगुरूपायविवक्षा-निष्प्रयोजनकानपेक्षितार्थप्रतिपादकत्वादिग्रहः । ‘आगमोऽदुष्टवाक्यं च’ इति तत्वनिर्णयोक्तब्रह्मतर्कवाक्यानुरोधादाह ।। शब्दो वाक्याऽत्मेति ।।
निष्प्रयोजनत्वाऽदिदोषनिरासार्थमावश्यकनिर्दोषत्वविशेषणेनैव निरभिधेयादावतिव्याप्तिनिराससम्भवेऽपि वाक्याऽत्मत्वविवक्षा शिष्याणां पदवाक्यादिस्वरूपज्ञानार्था इति भावेन पदाऽदिस्वरूपं दर्शयति ।। विभक्त्यन्ता इति ।। सुबन्तास्तिङन्ताश्चेत्यर्थः ।‘विभक्तिश्च’ इति सूत्रे सुप्तिङोर्विभाक्तिसञ्ज्ञोक्ते: । बहुवचनं प्रायिकत्वाभिप्रायेणोपात्तम् । न च विवक्षितम् । विभक्त्यन्तो वर्णः विभक्त्यन्तौ वर्णौ इत्यपि ध्येयम् । तेन ‘अः इति ब्रह्म’ ‘अप्रकेतं सलिलं सर्वमा इदम्’ इत्यदौ अ आ इत्यादेरपि पदत्वसिद्धिर्ध्येया । विभक्त्यन्तं पदम् इति वाच्ये वर्णा इत्युक्तिः स्फोटनिरासायेत्याहुः ।
।। श्रोतुराकाङ्क्षितेति ।। आकाङ्क्ष्यत इति आकाङ्क्षितं जिज्ञासितं तदभिधायकत्वं तद्बोधकपदवत्वमित्यर्थः ।। पूर्वपदेति ।। शब्दमात्रपरोऽत्रपरोऽत्र पदशब्दः । तेन प्रकृतिजनिताऽकाङ्क्षापूरकप्रत्ययनिष्ठसाकाङ्क्षत्वेनाव्याप्तिः । आकाङ्क्षा जिज्ञासा । पूर्वपदश्रवणेन सञ्जाता किम् ? इति या जिज्ञासा तत्पूरकत्वम् । यज्ज्ञाने सति पूर्वपदोत्थजिज्ञासा शाम्यति तज्जनकशब्दः तेन साकाङ्क्ष इत्यर्थः। जिज्ञासाविषयज्ञानजनको हि जिज्ञासापूरको भवति । तादृशज्ञानविषयत्वयोग्यज्ञान-जनकतावच्छेदकरूपवत्वमिति यावत् । भवति हि घटमानय इत्यादौ पूर्वपदेन सञ्जाताया जिज्ञासाया विषयत्वयोग्यं यत् ज्ञानं क्रियाज्ञानं तज्जनकतावच्छेदकरूप-क्रियापदत्वम् तादृशरूपवत् क्रियापदं घटरूपकारकपदेन साकाङ्क्षम् ।
लक्षणद्वयस्यापि क्रमात् व्यावर्त्यमाह ।। तेनेति ।। द्विविधलक्षणेनेत्यर्थः । अवाक्यत्वम् इत्याकृष्यते । यद्यपि एतादृशोपदेशस्य पूर्वपदेत्यादिनोक्ताका-ऽङ्क्षादिराहित्ये तत एवावाक्यत्वम्, तद्वत्त्वे च वाक्यार्थप्रमितिजनकत्वात् अस्त्येव वाक्यत्वम् इति तन्निरासायाऽद्यलक्षणमनपेक्षितम् तथाऽपि श्रोतुरनाकाङ्क्षितत्वमात्रेण तस्यावाक्यत्वोक्तिरित्येव । वस्तुतस्तादृशोपदेशोऽपि संग्राह्य एव । अन्वयप्रमित्युपयोग्युक्तवक्ष्यमाणाऽकाङ्क्षाऽदिमत्वात् । परं तु श्रोतुरनपेक्षितत्वात् तन्मात्रस्यानुपादेयत्वमिति ज्ञातव्यम्
।। गौरश्व इति ।। गोपदोत्थजिज्ञासापूरकत्वमश्वाऽदिपदस्याभावात् नातिव्याप्तिरिति भावः । अत्र पूर्वपदजातजिज्ञासाविषयज्ञानजनकत्वं तादृशज्ञानजननयोग्यता विवक्षिता । न तु फलोपधानम् । तेन जनितान्वयबोधे वाक्ये अन्वयबोधप्राक्कालीनवाक्ये च नाव्याप्तिरित्यपि ध्येयम् । इदं चाऽकाङ्क्षावत्वं ज्ञातमेव वाक्यार्थान्वयबोधहेतुः ।
सन्निधिलक्षणमाह ।। सन्निहितेति ।। यद्यपि क्रमप्राप्तयोग्यतालक्षण-मेवाऽदौ वक्तव्यम् तथाऽपि आकाङ्क्षाया लक्षणद्वयोक्तिप्रक्रमात् सन्निधिलक्षणद्वयस्यापि तदनन्तरमुक्तिरित्यदोषः । व्यवहितार्थबोधक-वाक्येऽप्याकाङ्क्षाऽदिमत्वे अन्वयप्रमितिजनकत्वेन प्रमाणतयाऽस्त्येव वाक्यत्वम् तथाऽप्यनुपादेयत्वं तस्यास्ति । लक्षणे निर्दोषपदेन तादृशदोषस्यापि वारणमभिप्रेतमिति भावेन पूर्वत्र अत्र च लक्षणद्वयसमुच्चयोक्तिः ।
।। अविलम्बेनोच्चरितत्वमिति ।। न च ‘गौरश्व’ इत्यादौ च वाक्येऽतिव्याप्तिः । तत्र सन्निधेः सत्वात्, अन्वयबोधविरहस्य चाऽकाङ्क्षाऽभावनिबन्धनत्वात् तत्र इति तात्पर्यात् । न च तथाऽपि ‘नेदृशं स्थलमलं शमलघ्नं नास्य तीर्थसलिलस्य समं वाः’ इत्यादौ मौनिलिखित श्लोके अव्याप्तिः तत्रोच्चारणाभावात् इति शङ्क्यम्। उच्चरितस्य पदस्य उच्चारणाभिप्रायसाधारणव्यापारमात्रपरत्वं अविलम्बेन पदोपस्थित्यनुकूलवक्तृव्यापारविषयत्वं सन्निहितत्वमित्यर्थस्य विवक्षितत्वात्। तथा च अविलम्बेन उपस्थित्यनुकूलाभिप्रायविषयत्वं तादृशोच्चारणविषयत्वं चेत्यर्थः । मौनिश्लोके च उच्चारणाभावेऽपि निष्फलेन अन्वयबोधविरोधिना व्यवधानशून्यतया पदोपस्थित्यनुकूलाभिप्रायविषयरूपवक्तृव्यापारविषयत्वस्य सन्निहितत्वस्य मौनिश्लोकाऽदावपि सत्वात् नाव्यप्तिः । वेदेऽपि तादृशेश्वराभिप्रायविषयत्वात् तत्रापि नाव्याप्तिः । सन्निहितत्वमपि ज्ञातमेव शाब्दधीहेतुर्ज्ञेयः ।
।। विलम्बेनेति ।। निष्फलेन अन्वयबोधविरोधिना व्यवधानेन वक्तृव्यापारविषयपदानामित्यर्थः ।। अन्योन्येति ।। घटमानय इत्यादौ क्रियाकारकयोयर्ोेऽन्योन्यमन्वयः। तद्योग्यतावन्तौ यावर्थौ घटाऽनयनाऽदिरूपौ तत्प्रतिपादकपदवत्वमित्यर्थः ।
।। इत्यादेर्वाक्यत्वनिरास इति ।। न चैवं निश्चिताप्रामाण्यकस्य ‘अग्निना’ इत्यादिवाक्यस्य निरासेऽपि ‘जलेन सिञ्चति’ इत्यनाप्तोक्तवाक्ये अतिव्याप्तिरिति शङ्क्यम् । आवश्यकनिर्दोषत्वविशेषणेनैव तादृशावाक्यस्यापि निवारणात् इति भावेनाऽह ।। निर्दोष इति ।। आगमाऽभासोऽनाप्तवाक्यम् । एतच्च योग्यत्वं आकाङ्क्षा सन्निधिवत् न ज्ञातं शाब्दान्वयधीहेतुः । तथात्वेऽन्वयज्ञानं विना तद्योग्यार्थाभिप्रायकत्वज्ञानायोगेनाऽत्माश्रयाऽपत्तेः । शाब्दान्वयप्रमितिं प्रति स्वरूपसत्कारणमपि शाब्दान्वयबोधमात्रे स्वरूपं सदपि न कारणम् तदभावनिश्चयेऽपि ‘अग्निना’ इत्यादिवाक्यान्वयबोधस्य जननात् । मेरूः सर्षपः इत्यादिवाक्यात् मेरोः सर्षपत्वप्रतिभासत् इति अन्यथाख्यातिप्रकरणे सुधोक्तेश्च । पद्धतौ तु प्रतीतार्थस्य प्रमाणविरोधाभावो योग्यता ।। तत्प्रतिपादकत्वात् पदान्यपि योग्यतावन्ति इत्युक्तम् । तदा तु तेनैवागमाऽभासनिरासो व्यक्तः ।। नित्यो वेद इति ।। प्रतिकल्पं सजातीयानुपूर्वीक इत्यर्थः । अनित्यं प्रतिकल्पं अन्योन्याऽनुपूर्वीकमित्यर्थः ।। प्रबन्धविशेषस्येति ।। आनुपूर्व्या इत्यर्थः ।। भेदकेति ।। तारत्वमन्द्रत्वाऽदिकं तु व्यञ्जकध्वनिगतमेवेति भावः ।
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
वाक्ये प्रत्यक्षाऽदाविव स्वाभाविकदोषाणामभावात् आह ।। अज्ञानेत्यादिना ।। पदसमुदायरूपं वाक्यमात्रमेव लक्ष्यतयाऽभिप्रेत्य प्रवृत्तं यत् ‘आगमोऽदुष्टवाक्यं च’ इति ब्रह्मतर्कवाक्यं तदनुसारेण शिष्याणां पदवाक्याऽदि-स्वरूपज्ञापनाय शब्दशब्दाभिप्रेतमर्थमाह ।। शब्दो वाक्याऽत्मेति ।। तथा च निर्दोषं वाक्यमागम इत्यर्थः ।
ननु सिद्धान्ते वैदिकानां पदानामपि महायोगवृत्त्या भगवति प्रामाण्यस्य उक्तत्वेन वैदिकपदाऽत्मक आगमे अव्याप्तिरिति चेत्, अत्राहुः, यौगिकपदानामपि प्रकृतिप्रत्ययविभागेन संसर्गबोधकतया वाक्यात्मकतैवेति । वस्तुतस्तु पदसमुदायरूपवाक्याऽत्मक एव शब्दोऽत्र लक्ष्यत्वेन विवक्षित इति न दोषः । अत एव पद्धतौ ‘आगमोऽदुष्टवाक्यं च’ इति ब्रह्मतर्कानुसारेण निर्दोषं वाक्यमिति वा इति लक्षणान्तरमुक्तम् इत्यवधेयम् ।
पदघटितत्वेन वाक्यं लक्षयितुं तावत् पदलक्षणमाह ।। विभक्त्यन्ता वर्णाः पदमिति ।। जबगडदेत्यादिवर्णसमूहेऽतिव्याप्तिपरिहाराय विभक्त्यन्ता इत्युक्तम् । विभक्त्यन्ते ‘पर्वतोऽग्निमान्’ इत्यादिवाक्येऽतिव्याप्तिपरिहाराय वर्णा इत्युक्तम् ।। न च तत्र वर्णानामपि सत्वेन कथं निवारणम् ? इति वाच्यम्, तत्र वर्णानां पदत्वेन प्रवेशेऽपि न वर्णत्वेन प्रवेशः अतस्तेन तद्व्यावृत्तिरिति ध्येयम् ।
ननु एकवर्णाऽमके वर्णद्वयाऽत्मके च पदे वर्णबहुत्वघटितलक्षणाभावात् अव्याप्ति: इति चेत्, उच्यते, नात्र ‘बहुषु बहुवचनम्’ इति सूत्रेण बहुत्वापेक्षम् । किं तु ? जातौ । ‘जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम्’इति सूत्रात् । अतो विभक्त्यन्तवर्णत्वं पदत्वम् इत्युक्तं स्यात् । न चेदं युक्तम् । विभक्तेर्वर्णधर्मत्वेन वर्णत्वजातेर्विभक्त्यन्तत्वाभावेन पदत्वोक्त्यसम्भवात् । अतो मुख्यार्थासम्भवात् लक्षणया वर्णत्वजात्यवच्छिन्नवर्णव्यक्तेः पदत्वाऽश्रयणेन एकवर्णाऽत्मकवर्णद्वयाऽत्मकबहुवर्णात्मकानां सर्वेषामपि पदानां संग्रहो भवतीति न कोऽपि दोष इति सम्प्रदायः ।
इयं च रीतिः ‘त्रिविधा विदुषां कथा’ इत्यत्र कथालक्षणटीकायां जाताविदं बहुवचनम् इति वदद्भिः ‘कथास्तिस्रो विजानताम्’इत्यनुव्याख्यानव्याख्यानसमये सुधायां विदुषामिति जातौ बहुवचनम् इति वदद्भिः टीकाकारैः प्रदर्शितेति ज्ञातव्यम् ।
आकाङ्क्षालक्षणद्वयव्यावर्त्यं क्रमेण दर्शयति ।। तेनेति ।। अविलम्बेन उच्चरितत्वमिति ।। नन्विदमनुपपन्नम् मौनिकृतग्रन्थरूपे वाक्ये तत्कृतलिप्यनुमिते उच्चारणाभावेनाव्यापकत्वात् इति चेन्न । उच्चरितपदेन पदोपस्थित्यनुकूल-वक्तृव्यापारमात्रस्य विवक्षितत्वात् । तत्रापि मानसिकव्यापारसद्भावात् इति ज्ञातव्यम् । सन्निधिलक्षणद्वयव्यावर्त्यं क्रमेण दर्शयति ।। तेनेति ।। विलम्बेनो-च्चारितेति ।। प्रहरे प्रहर उच्चार्यमाणेत्यर्थः ।। आगमाभासेति ।। भ्रान्तप्रतारकवाक्य मागमाभासशब्देनोच्यत इत्यवधेयम् । विप्रलम्भकवाक्यस्याऽगमाऽभासशब्देन ग्रहणे योग्यताघटितवाक्यत्वरूपाऽगमलक्षणस्य तत्राभावेनातिव्याप्तिप्रसक्तिरेव नास्तीति द्रष्टव्यम् । तत्र प्रतारणस्यैव दोषत्वेन निर्दोषपदेन तद्व्यावृत्तिरिति भावः । न च भ्रान्तप्रतारकवाक्यस्य निर्दोषत्वाभावे तज्जन्यं ज्ञानं कथं प्रमा स्यात् ? इति वाच्यम् । न हि तार्किकाणामिव अस्मन्मते प्रामाण्यम् आप्तोक्तत्वगुणजन्यम् येनैवं पर्यनुयोगः स्यात् इति भावः ।
सुधायां तु, निर्दोषत्वाविशेषितं यथार्थज्ञानसाधनत्वमनुप्रमाणलक्षणं कृत्वा, भ्रान्तप्रतारकवाक्येऽतिव्याप्तिमाशङ्क्य, पारिभाषिकसाधनत्वस्य प्रतारकवाक्यजातीयेऽभावेन परिहृत्य, भ्रान्तप्रतारकवाक्ये पारिभाषित-साधनत्वमस्तीति पुनरतिव्याप्तिमाशङ्कक्य, तस्य प्रामाण्यप्रसङ्गेऽपि न काचिदस्माकं क्षतिः न हि तार्किकाणामिवास्माकमाप्तोक्ततया प्रामाण्या-नुमानाऽदिकमप्यस्तीति लक्ष्यत्वात् नातिव्याप्तिरिति समाधानमभिधाय, यद्वा निर्दोषत्वेन ज्ञानं विशिष्यते यथार्थपदफलितार्थस्यैव निर्दोषग्रहणेन वर्णितत्वात् इत्यादिना भ्रान्तप्रतारकवाक्यादावतिव्याप्तिपरिहारो निर्दोषग्रहणेन कृत इत्यवधेयम्।
वस्तुगतिमभिप्रेत्याह ।। आगमश्चेति ।। अज्ञातस्यैव बोधकत्वाङ्गीकारे बाधकमाह ।। अन्यथेति ।। अतिप्रसङ्गादिति ।। बधिरस्यापि वाक्यार्थधीप्रसङ्गात् इत्यर्थः । आगमविभागमाह ।। स द्विविध इति ।। नित्योऽनित्य इति ।। अपौरुषेयः पौरुषेयश्चेत्यर्थः । अन्यथा ध्वंसाप्रतियोगित्वलक्षणनित्यत्वस्य पुराणेऽपि सत्वात् अनित्यत्वोक्तिरयुक्ता स्यात् इति मन्तव्यम् ।
ननु वेदानां पुराणानां च वर्णाऽत्मकत्वात् वर्णानां च कूटस्थनित्यत्वात् कथमयं विभागः ? इत्यत आह ।। वर्णानां चेति ।। सर्वत्रेति ।। वेदे पुराणे चेत्यर्थः ।। प्रबन्धविशेषस्येति ।। ‘अग्निमी’ इत्याद्यानुपूर्वीविशेषस्येत्यर्थः ।। नित्यत्वेति ।। नित्यत्वं नियतैकप्रकारत्वम् । तथा च आनुपूर्वीविशेषस्य नियतैकप्रकारत्वेन तद्विशिष्टवर्णाऽत्मकवेदस्याप्यपौरुषेयत्वमेव । पुराणानां च अन्यथाशब्दरचनसद्भावेन नियताऽनुपूर्वीकत्वाभावात् पौरुषेयत्वमेवेति भावः ।
ननु सर्वत्र वर्णेषु क्रमः तत्तद्बुद्ध्युपाधिक एव वक्तव्यः,न स्वतः नित्यत्वेन सर्वगतत्वेन च कालिकस्य दैशिकश्य च क्रमस्य अयोगात् । तथा च अस्मद्बुद्ध्युपाधिकस्य ईश्वरबुद्ध्युपाधिकस्य च क्रमस्य जन्यत्वमेवेति कथं तद्विशिष्टवेदस्यापौरुषेयत्वम् ? इति चेत् , उच्यते, वर्णानां कूटस्थनित्यत्वेऽपि क्रमस्य सर्वत्र जन्यत्वेऽपि वेदस्यापौरुषेयत्वं युज्यत एव । तथा हि, सजातीयोच्चारणमनपेक्ष्योच्चारयिता पुरुषः स्वतन्त्रः । तत्पूर्वकत्वाभाव एवापौरुषेयत्वम् । वर्तते चेदं वेदाऽदौ, नास्ति च पुराणाऽदाविति न कोऽपि दोषः । अत्रेश्वरबुद्ध्युपाधिकः क्रमोऽजन्य एवेति केचिन्मन्यन्ते । तन्न समीचीनमिव भाति । तथात्वे क्रमस्य कृतकत्वेऽपीति सामान्यतस्तत्वनिर्णयटीकोक्तिविरोधात्।
किं च वर्णास्तावन्नित्याः । क्रमस्तु वर्णद्वयधर्मः ।। क्रमस्तु वर्णद्वयधर्म इति सुधोक्तेः । तथा च नित्यभूतवर्णधर्मभूतक्रमस्य नित्यत्वे खण्डितत्वाभावेन वर्णैरत्यन्ताभेध एव प्राप्तः । ओमिति चेत्, तथात्वे ‘यत् यदभिन्नाभिन्नं तत् तेनाभिन्नम्’ इति व्याप्तिबलात् यः कृष्णो येन रामेणाभिन्नमूलरूपनारायणाभिन्न इति तेन रामेणाप्यभिन्नो दृष्टः , एवं ककाररूपो वर्ण: खकाराभिन्नक्रमाभिन्न इति खकारेणान्यभिन्नो जात इत्येवं ककारखकारयोरप्यैक्यप्रसङ्गात् न क्रमस्य नित्यत्वम् । अनित्यत्वे तु नायं दोषः खण्डितत्वेन वणैर्भिन्नाभिन्नत्वात्, उक्तव्याप्तेश्चात्यन्ताभेदस्थलीयत्वात् । अत एव एतद्दोषभयात् जीवेश्वर-निष्ठद्वित्वस्येश्वरेण भेदाभेद एवाङ्गीकृतः । यथोक्तमनुव्याख्याने
‘‘न केनचिदभेदोऽस्ति भेदाभेदोऽपि वा क्वचित् ।
समुदायमृते विष्णोः स्वगुणाऽदीन् विनाऽपि वा ।।
इति श्रुतेः’’ इति ।
अन्यथा तत्रापि ईश्वरधर्मभूतद्वित्वस्येश्वरेणात्यन्ताभेदे उक्तव्याप्तिबलात् जीवेश्वरयोरप्यभेदः स्यादिति । तस्मात् सर्वोऽपि क्रमो जन्य एवेति सिद्धान्तसङ्क्षेपः।
अत एवोक्तम् तर्कताण्डवे, ईश्वरोऽप्यस्मन्मते महोपाध्याय एव इति । तथा च ईश्वरस्याप्युपाध्यायतुल्यत्वोक्त््या उपाध्यायबुद्ध्युपाधिकक्रमस्येव ईश्वरबुद्ध्युपाधिकक्रमस्यापि जन्यत्वमेवेति तद््ग्रन्थाभिप्रायोबोद्धव्यः । सर्वेषां मतेऽपि ईश्वरबुद्ध्युपाधिकः क्रमो नित्य एव । न नश्यति । बुद्ध्युपरमेण हि तदुपरमो वक्तव्यः । न हीश्वरबुद्धेरुपरमोऽस्तीति सर्वज्ञत्वादीश्वरस्य इति तत्वनिर्णये प्रतिपादितत्वात् इति ध्येयम् । विस्तरस्तु अस्मत्कृततत्वनिर्णयटीकाटिप्पण्यां द्रष्टव्यः ।
ननु वर्णानां मध्यमपरिमाणवत्वेन अनित्यत्वसाधनात् नित्यत्वोक्तिरयुक्ता इत्याशङ्क्य स्वरूपासिद्धो हेतुरित्याह ।। वर्णाश्चेति ।। यतः सर्वगताः अतो नित्या एव इति योज्यम् । तथा च ‘वर्णा नित्याः सर्वगतत्वात् गगनाऽदिवत्’ इत्यनुमानमुक्तं भवति । असिद्धिपरिहाराय सर्वगतत्वं साधयितुं भेदकाभावात् इत्युक्तमिति केचित् व्याचक्षते । तन्न । सर्वगतत्वेन नित्यत्वसाधनस्य सर्वगतेषु अनित्येषु कालक्षणेषु व्यभिचारित्वात् ।
प्रसङ्गात् आह ।। वर्णाश्चेति ।। ननु कथं वर्णानां सर्वगतत्वम् ? काश्येतद्देशस्थयोः ककारयोर्भिन्नत्वादित्यत उक्तम् ।। भेदकाभावादिति ।। काश्येतद्देशस्थयोः ककारयोर्भेदसाधकप्रमाणाभावात् प्रत्युत ‘ यावत् ब्रह्म विष्ठितं तावती वाक्’ इत्यादिश्रुत्या ब्रह्म यावद्देशकालव्यापितया अवस्थितं वागपि तावद्देशकालव्यापिनीति सर्वगतत्वस्यैवाभिधानादित्यर्थः । अन्येऽप्याहुः –
‘वर्णाऽत्मकाश्च ये शब्दा नित्या: सर्वगतास्तथा’ इति ।।
प्रमाणलक्षणटीकाविवरणम्
वाक्ये प्रत्यक्षवत् स्वाभाविका दोषा न सन्ति किन्तु पुरुषदोषनिबंधना एव दोषा वर्तन्त इत्यभिप्रेत्य निर्दोषशब्दार्थमाह ।। अज्ञानेति ।। वर्णमात्रस्यापि निर्दोषत्वात्तस्यापि वाक्यत्वशङ्कां निवारयति ।। शब्द इति ।।
अथवा निर्दोषः शब्द आगमः इत्युक्तं । एकस्यापि वर्णस्य आगमत्वे संसर्गबोधकत्वापत्तेः । वाक्यस्य हि संसर्गज्ञानमेव प्रयोजनं । पदार्थज्ञानस्य पदादेव जातत्वात्प्रयोजनान्तरभावात् । अन्यथा तस्य वेय्यर्थ्यापातात् । तस्मादयुक्तमेतदित्यत आह ।। शब्दो वाक्यात्मेति ।। तथाच न तत्रातिव्याप्तिरिति भावः । अथवा ब्रह्मतर्कानुसारेण लक्षणान्तरमाह ।। शब्दइति ।। अत एव पद्धतौ निर्दोषः शब्द आगम इति प्रमाणलक्षणानुसारेण एकं लक्षणमुक्त्वा ब्रह्मतर्कानुसारेण निर्दोषं वाक्यं वेति लक्षणांनरमुक्तमिति तत्वं ।
उपोद्धातसङ्गत्या वाक्यलक्षणं वक्तुं पदलक्षणमाह ।। विभक्त्यन्ता इति ।। वर्णमात्रस्यैव पदत्वे विभक्त्यन्तानामपि पदत्वं स्यात् तन्निरासार्थं विभक्त्यन्ता इति । तावन्मात्रस्य वाक्यसाधारणत्वात् तत्परिहारार्थं वर्णा इति ।
।। आकांक्षेति ।। नन्वाकांक्षावत्वं लक्षणान्तर्गतमिति न संभवति । पदेषु तस्यासंभवात् । पदानामचेतनत्वात् । आकांक्षायाश्चेच्छारूपत्वेन चेतनमात्रनिष्ठत्वादित्यत आह ।। आकांक्षावत्त्वमिति ।। पूर्वेण विरक्तं प्रति वाणिज्योपदेशो निवृत्तिः । उतरेण गौरश्च इत्येतन्निवृतिरिति बोध्यं ।
पदानां सन्निहितत्वासंभवात् तन्निर्वक्ति ।। सन्निहितत्वमिति ।। अन्योन्येति ।। परस्परान्वययोग्यतावान् योऽर्थस्तदभिधायकत्वं ।। तथाचेति ।। अग्नेः सेकान्वययोग्यतासंभवदित्यर्थः ।
ननु निर्दोषः आगम इत्याद्यलक्षणे निर्दोषत्वेनान्वयाभावाबोधकत्वं विपरीत-बोधकत्वं ज्ञातज्ञापकत्वं अप्रयोजनत्वं अनभिमतप्रयोजनत्वं अशक्यसाधन-प्रतिपादकत्वं लघूपाये सति गुरूपायोपदर्शनमित्यादिदोषयुक्तशब्दव्यावृत्त्यर्थं निर्दोषग्रहणस्यावश्यकत्वेऽपि निर्दोषं वाक्यमागम इति पक्षेऽपि यदि पद्धत्युक्तरीत्या पूर्वपदसञ्जाताकाङ्क्षावत्त्वं अविलम्बेनोच्चरितत्वमात्रं सन्निहितत्वप्रमाणविरुद्ध-प्रमेयप्रतिपादकत्वं येग्यतेत्याकाङ्क्षादेर्लक्षणं तदा पदत्वेनानभिधेयत्वस्याकाङ्क्षा-सन्निधिभ्यामन्वयाभावस्य योग्यतया विपरीतबोधकत्वस्य निरासेऽपि ज्ञात-ज्ञापकत्वाद्यशेषदोषनिरासार्थं निर्दोषग्रहणस्य आवश्यकत्वेऽपि श्रोतुराकाङ्क्षा-भिधायकत्वं पूर्वपदसञ्जाताकाङ्क्षापूरकत्वं चाकाङ्क्षावत्त्वमित्याद्येकोक्त-रीत्याकाङ्क्षादिलक्षणपक्षे पदत्वेनानभिधेयस्याकाङ्क्षापदेन अनभिमतप्रयोजनान्वया-भावयोः सन्निधिना शक्यसाधनप्रतिपादनान्वययाभावयोः योग्यतया विपरीतप्रतीता-न्वयायोग्यार्थप्रतिपादकत्वस्य च निरासेन व्यावर्त्याभावात् निर्दोषग्रहणमनर्थमित्यत आह ।। निर्दोष इत्यागमाभासनिवृत्तिरिति ।।
यद्यप्यत्रागमाभासनिवृत्त्यर्थमावश्यकेन निर्दोषत्वविशेषणेनेव निरभिधये अनन्विते चातिव्याप्तिनिरासेन वाक्यपदमनर्थकं अत एव निर्दोषः शब्द आगम इत्याद्यलक्षणमप्युपपन्नम्। अन्यथा वाक्यपदव्यावर्त्यकत्वे तस्यातिव्याप्ति-प्रसङ्गात्तत्रातिव्याप्तिप्रसङ्गात् तत्राशेषदोषनिरासार्थकत्वे अत्रापि तथैवाङ्गीकारस्य युक्तत्वादिति। तथा च वाक्यग्रहणं शिष्याणां पदवाक्यादिस्वरूपज्ञापनार्थं अत एवं चोत्तरत्र विभक्त्यन्ता वर्णाः पदम्, अकाङ्क्षायोग्यतासन्निधिमन्ति पदानि वाक्यमित्यादिना पदादीनां लक्षणमुक्तमित्यवधेयम्। आगमेनाथ•वबोधो जायमाने सहकारिमाह ।। आगमश्चेति ।। अन्यथेति ।। शब्दश्रवणाभावेऽप्यर्थाव-बोधापत्तिरित्यतिप्रसङ्गः।
ननु वेदस्य पुराणादेर्वा वर्णात्मकत्वाद् वर्णानां च कूटस्थनित्यत्वे सर्वस्यापि नित्यत्वं स्यात् । तथा च द्वैविध्यमनुपपन्नम् । अनित्यत्वे च सर्वस्यापि तथात्व-मेवेत्यतो द्विविधत्वमनुपपन्नमित्यत आह ।। वर्णानामिति ।। तथाच वेदे आनुपूर्वीविशेषस्य नित्यत्वेन पुराणे च तदभावाद् द्वैविध्यमनुपपन्नम् । नचात्रानु-पूर्वीविशेषः किमस्मदादिबुद्धिघटितः उत ईश्चरबुद्धिघटित इति । नाद्यः, अस्मदादि-बुद्धिघटितस्य वेदक्रमस्याप्यनित्यत्वात्। ईश्वरबुद्धिघटितस्य पुराणादिक्रमस्याप्य-नित्यत्वात् न द्वितीयोऽपीति चेत् ।
अत्र ब्रूमः । द्वितीयपक्षोऽङ्गीक्रियते । नचोक्तदोषः। प्रतिकल्पं वेदादिक्रमस्य एकप्रकारस्यैश्चरबुद्धिविषयत्वात्। पुराणादौ तु न तथा। कल्पान्तरे अन्यथाऽपि विषयत्वादिति। नचैवं व्यवस्था कुतोऽङ्गीक्रियते ? पुराणादिगतवर्णानामप्य-नित्यत्वमेव कुतो नाङ्गीक्रियते इत्यत आह ।। वर्णाश्चेति ।। वर्णा नित्याः सर्वगतत्वादित्यर्थः । हेत्वसिद्धिं परिहर्तुं भेदकभावादित्युक्तं । अत एवोक्तं पुराणादावन्यथारचनमेवानित्यत्वं नतु वर्णानित्यत्वमित्याचार्यैः। तत्वनिर्णयटीकायामुपपादितं च विस्तरात् ।।