साधनप्रतिबन्द्या तदितरधर्मेण तद्वतां सर्वपदार्थाना-मविशेषापादनं अविशेषसमः

अविशेषसमः

प्रमाणलक्षणटीका

साधनप्रतिबन्द्या तदितरधर्मेण तद्वतां सर्वपदार्थाना-मविशेषापादनं अविशेषसमः । यथा ‘यदि धूमवत्वात् पर्वतमहानसयोरग्निमत्वाविशेषः तर्हि द्रव्यत्वात् सर्वद्रव्याणां अनित्यत्वं स्यादिति ।

कस्यचिद्धर्मस्य किञ्चिदसाधकत्वदर्शनमत्रोऽत्थानबीजम्। तर्कपराहति: आरोप्या । व्याप्तिहीनत्वात् तर्कस्य युक्ताङ्ग-हानिरिति ।

अन्यथा ‘अस्य संप्रतिपन्नस्य च तर्कपराहतत्वेन असाधकत्वविशेष पदार्थत्वात् सर्वस्यानित्यत्वाविशेषः स्यात्’ इति व्याघात इति ।। १७ ।।

अस्य सम्प्रतिपन्नस्य चेति ।। ‘धूमवत्त्वं असाधकं तर्क-पराहतत्वात् तर्कपराहतहेत्वन्तरवत्’इत्यत्र त्वया पक्षीकृत-धूमवत्त्वस्य दृष्टान्तीकृतस्य चेत्यर्थः ।। १७ ।।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

धर्मेणैकेन केषाञ्चिदविशेषप्रसञ्जनम् ।

साधनप्रतिबन्द्या यत्सोऽविशेषसमो मतः ।।

इतिकारिकानुसारेण अविशेषसमजातिं लक्षयति ।। साधनप्रतिबन्द्येति ।। तदितरधर्मेणेति ।। वादिसाधनव्यतिरिक्तधर्मेणेत्यर्थः ।   उत्कर्षसमव्यवच्छेदायेदं विशेषणमिति मन्तव्यम् ।। कस्यचिदित्यादि ।। द्रव्यत्वस्य सर्वद्रव्यानित्यत्व-साधकत्वदर्शनं जात्युत्तरोत्थानबीजमित्यर्थः ।। अन्यथेति ।। व्याप्त्याद्यनङ्गीकार इत्यर्थः । अस्य धूमानुमानस्य ।। सम्प्रतिपन्नस्येति ।। तर्कपराहततया असाधकत्वेन सम्प्रतिपन्नस्य कस्यचिदित्यर्थः ।

।। तर्केति ।। ‘द्रव्यत्वात् सर्वद्रव्याणामनित्यत्वं स्यात्’ इति तर्कपराहत-त्वेनेत्यर्थः । तथा च  ‘धूमानुमानस्य सम्प्रतिपन्नकिञ्चिदनुमानस्य चेत्युभयोः तर्कपराहतत्वेन यदि असाधकत्वाविशेषः तर्हि पदार्थत्वात् सर्वपदार्थानां नित्यत्वेनापि विशेषः स्यात् इति स्वन्यायविरोधः । न चात्र व्याप्त्यभावः । त्वया पूर्वं तदङ्गत्वानङ्गीकारादित्यर्थः ।। १७ ।।