सपक्षमात्रविवक्षितरूपवद्धेतुमत्वतदभावयोः पक्षस्य असाध्यत्वापादनमवर्ण्यसमः

अवर्ण्यसमजातिः

प्रमाणलक्षणटीका

सपक्षमात्रविवक्षितरूपवद्धेतुमत्वतदभावयोः पक्षस्य असाध्यत्वापादनमवर्ण्यसमः । सिद्धार्थत्वं प्रवृत्तसाध्य-ज्ञापनशक्तिमत्वाभावः व्याप्तिग्राहकप्रमाणवत्वं निश्चयसमान-विषयत्वं रूपभेदश्च इत्येतानि हेतोः सपक्षमात्रविवक्षितरूपाणि। तत्र सिद्धार्थं धूमवत्त्वं महानस इव पर्वते वर्तते न वा ? आद्ये साध्यस्य सिद्धत्वात् पक्षे न साध्यः स्यात् । द्वितीयेऽपि हेतोः स्वरूपासिद्धत्वेन असाध्यः स्यात् इति । एवं रूपान्तरेष्वपि द्रष्टव्यम् । अत्र सपक्षमात्रविवक्षितरूपवद्धेतुमत्तया पक्षस्य असिद्धिः कारणम् । स्वरूपासिद्ध्यादि आरोप्यम् । वर्ण्यसम-वदेव दुष्टत्वमूलमिति ।। ५ ।।

प्रमाणलक्षणटीकाभावदीपः

।। प्रवृत्तसाध्येति ।। यत् साधयितुं प्रवृत्तं  तादृशसाध्येत्यर्थः ।। रूपभेदश्चेति ।। पक्षीय हेतुस्वरूपापेक्षयेति योज्यम् ।। स्वरूपासिद्धत्वेनासाध्यः स्यादिति ।। पक्षोऽपीत्यनुकर्षः । साधकाभावादिति भावः ।। कारणमिति ।। एतज्जात्युत्तरोक्तेरिति  योज्यम् ।। वर्ण्यसमवदेवेति ।। ‘नायं हेतुः साध्यसाधकः असिद्धत्वात् शब्दानित्यत्वसाधकचाक्षुषत्ववत् इत्युक्तजात्युत्तरेऽपि एवं विकल्पदूषणयोः सुवचत्वेन स्वव्यधाताऽदिकं जात्युत्तरस्य दुष्टत्वे मूलं ध्येयम् इत्यर्थः ।। ५ ।।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

सपक्षवर्तिनो हेतोर्यादृग्रूपं विवक्षितम् ।

पक्षेऽपि तादृगेव स्यादन्यथाऽसिद्धिहेतुता ।।

सपक्षवत्तदा साध्ये इत्यवर्ण्यसमाकृतिः 

इति कारिकाऽनुसारेण अवर्ण्यसमजातिं लक्षयति ।। सपक्षमात्रेति ।। कानि तानि हेतोः सपक्षमात्रविवक्षितरूपाणि  ? इत्यत आह ।। सिद्धार्थत्वमित्यादि ।। एतदर्थः पूर्ववैपरीत्येनावगन्तव्यः । यथा आहु:

............. सपक्षे तु तादृग्रूपविपर्ययः । इति ।

उपलक्षणत्वेन एकं रूपं पुरस्कृत्योदाहरति ।। तत्रेति ।। न साध्यः स्यादिति ।। साधयितुं योग्यं साध्यं तद्वान् न स्यात् सिद्धसाधनत्वादित्यर्थः ।

।। असाध्यः स्यादिति ।। साध्यवत्तया साधयितुमशक्यः स्यात् तत्साधकस्य हेतोः स्वरूपासिद्धत्वादित्यर्थः ।। रूपान्तरेष्विति ।। प्रकृतसाध्यज्ञापनशक्ति-त्वादिरूपान्तरेष्वित्यर्थः । कारणं उत्थानबीजम् । स्वरूपासिद्ध्यादीत्यादिपदेन सिद्धसाधनत्वं ग्राह्यम् ।

 ।। वर्ण्यसमवदिति ।। दुष्टत्वमूलं व्याघाताऽदिकं वर्ण्यसमवदेव द्रष्टव्यमित्यर्थः । तथा हि ‘धूमवत्त्वात् इति हेतुः साध्यासाधकः स्वरूपासिद्धत्वात्  चाक्षुषत्ववत्’ इत्यत्रापि सिद्धार्थं  स्वरूपासिद्धत्वं सपक्षे चाक्षुषत्व इव पक्षभूते धूमवत्त्वहेतौ वर्तते न वा ? आद्ये साध्यस्य सिद्धत्वात् पक्षोऽपि न साध्यवत्तया साध्यः स्यात् । सिद्धसाधनताऽपत्तेः । द्वितीयेऽपि हेतोःस्वरूपासिद्धत्वेन असाध्यः स्यात् इति वक्तुं शक्यत्वात् व्याघातः । सपक्षवर्तिहेतुरूपाणां पक्षवर्तिन्यपि हेतौ  सञ्चरणात् अविषयवृत्तित्वं । पक्षवर्तिहेतोरयुक्तानामेव सिद्धार्थत्वाद्यङ्गाना-मङ्गीकारादयुक्ताङ्गाधिकत्वञ्चेति ।। ५ ।।

प्रमाणलक्षणटीकाविवरणम्

अवर्ण्यसमलक्षणमाह सपक्षेति ।। वर्ण्यसमवदेवेति ।। अयमाशयः विमतो हेतुः सध्यासाधकः स्वरूपासिद्धत्वात् । सम्मतवदिति त्वदनुमानेऽपि दृष्टान्तीयसिद्धार्थत्वं पक्षे वर्तते चेत् सिद्धत्वान्न साध्यः स्यात् । दृष्टान्त इव पक्षे सत्वे स्वरूपासिद्धत्वादेवासाध्यं स्यात् । सपक्षवर्तिहेतुरूपाणां पक्षेऽपि संचरणादविषयवृत्तिहेतोरयुक्तानामेव सिद्धार्थत्वादीनामङ्गीकारात् । अयुक्ताङ्गाधिकत्वं चेति दुष्टत्वमूलं वर्ण्यसमवदेवेत्यर्थः ।