पक्षाऽदीनां प्रागुत्पत्तेः हेतुवृत्त्यभावेन असिद्ध्याद्युद्भावनं अनुत्पत्तिसमः

अनुत्पत्तिसमजातिः

प्रमाणलक्षणटीका

पक्षाऽदीनां प्रागुत्पत्तेः हेतुवृत्त्यभावेन असिद्ध्याद्युद्भावनं अनुत्पत्तिसमः । यथा पर्वतस्योत्पत्तेः प्रागपि पक्षत्वात् अनु-त्पन्ने तस्मिन् अवृत्तेः धूमवत्वस्याश्रयभागासिद्धिः इत्यादि । अत्र अनुत्पन्नस्य स्वकार्यसामर्थ्याभिमानमुत्थानकारणम् । असिद्ध्यादि आरोप्यम् ।

जात्युत्तरेऽप्येवं वक्तुं शक्यत्वात् व्याघातः । अनुत्पन्नस्य अङ्गत्वादेरयुक्ताङ्गाधिक्यादीति  चेति ।। १२ ।।

प्रमाणलक्षणटीकाभावदीपः

।। आश्रयेति ।। आश्रयासिद्धिरिति वा आश्रयभागे असिद्धिरिति वा अर्थः । इत्यादीति आदिपदेन दृष्टान्तस्योत्पत्तेः प्राक् तत्र साध्यसाधनयोरभावेन साध्यादिविकालो दृष्टान्त इति वा पर्वतस्योत्पत्तेः प्राक् साध्यस्याप्यभावेन बाध इति वा ग्राह्यं ।। जात्युत्तरेऽपीति ।। ‘धूमवत्त्वं असाधकं असिद्धत्वात् इत्यत्रोत्पत्तेः प्राग्धूमवत्त्वे धर्मिणि त्वदभिमतासिद्धत्वहेतोरभावात् असिद्धत्वहेतुरसिद्धः इति वक्तुं शक्यत्वादित्यर्थः ।। अङ्गत्वादेरिति ।। सपक्षत्वं अदृष्टान्तत्त्वं आदिपदार्थः ।। आधिक्यादीति ।। अविषयवृत्तित्वं आदिपदार्थः ।। १२ ।।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

अनुत्पन्ने साधनाङ्गे हेतुवृत्तेरभावतः ।

भागासिद्धिप्रसङ्गः स्यादनुत्पत्तिसमो मतः ।।

इतिकारिकानुसारेण अनुत्पत्तिसमजातेर्लक्षणमाह ।। पक्षादीनामिति ।। आदिपदेन लिङ्गसाध्यदृष्टान्तानां ग्रहणम् । सदुत्तरे असिद्ध्युद्भावने अतिव्याप्तिवारणाय पक्षाऽदीनामुत्पत्तेः प्रागित्युक्तम् ।

।। आश्रयभागेति ।। उत्पन्नत्वावस्थायां हेतोः सत्त्वेऽपि अनुत्पन्नत्वा-वस्थायामभावात् अनुत्पन्नाश्रयभागे असिद्धिरित्यर्थः ।। इत्यादीति ।। लिङ्गानुत्पत्तौ यथा ‘इदं गुरु पतनवत्त्वात्’ इत्युक्ते पतनोत्पत्तेः प्रागवस्थायमपि गुरुत्वस्य साध्यत्वेन तदवस्थस्यापि  पक्षत्वात् भागासिद्धो हेतुरिति, साध्यानुत्पत्तौ यथा ‘घटो गन्धवान् पार्थिवत्वात्’ इत्युक्ते प्रथमक्षणे गन्धवत्वरूपव्यापकाभावात् व्याप्यस्य पार्थिवत्वस्याप्यभावापत्त्या भागासिद्धो हेतुरिति, दृष्टान्तानुत्पत्तौ यथा ‘आत्माद्रव्यं गुणवत्वात् घटवत्’ इत्युक्ते प्रथमक्षणे घट एव निर्गुण इति दृष्टान्ते भागसिद्धो हेतुरिति द्रष्टव्यम् ।

अनुत्पन्नस्य पक्षादेः ।। स्वकार्यसामर्थ्याभिमान इति ।। स्वकार्यसामर्थ्यं साधनाङ्गत्वरूपं तदभिमान इत्यर्थः । अत एवोक्तम् ‘पर्वतस्योत्पत्तेः प्रागपि पक्षत्वात्’ इति ।। स्वकार्यासामर्थ्येति पाठस्तु विचार्यार्थकः । अनुत्पन्नस्य यत् स्वकार्यासामर्थ्यं तत् वास्तवमेव न त्वाभिमानिकम् । अतो नास्योत्थानबीजत्वं युक्तमिति । असिद्ध्यादीत्यादिपदेन विरोधो ग्राह्यः । ‘विरोधासिद्धी आरोप्ये’ इति वरद-राजीयोक्तेः । अनुत्पन्नस्य साधनाङ्गतायाः प्रत्यक्षादिविरुद्धत्वादित्यर्थः

।। जात्युत्तरेऽपीति ।। ‘धूमवत्वात् इति हेतुः  न साध्यसाधकः भागासिद्धत्वात्’ इति जात्युत्तरेऽपि पक्षीभूतस्य धूमवत्वादिति हेतोः उत्पत्तेः प्रागपि पक्षत्वात् अनुत्पन्ने तस्मिन् भागासिद्धत्वाख्यहेतोः अवृत्तेः  आश्रयभागे असिद्धिः इति वक्तुं शक्यत्वात्  स्वन्यायविरोध इत्यर्थः ।

।। अनुत्पन्नस्येति ।। अनुपन्नस्य पक्षादेः साधनाङ्गताया अयुक्ताया एव स्वीकारात् अयुक्ताङ्गाधिकत्वमित्यर्थः । द्वितीयादिपदेन अविषयवृत्तित्वसंग्रहः । प्रथमादिपदेन तदुपपादकसंग्रहः । तथा हि, हेतुवृत्तेः उत्पन्न एव पक्षो विषयो न त्वनुत्पन्नोऽपि । तथा च नुत्पन्नस्य पर्वतत्वाभावेन अपक्षतया विषयत्वाभावात् तत्र हेतुवृत्यङ्गीकारात् अविषयवृत्तित्वमिति भावः ।। १२ ।।