सोऽयमात्माऽध्यक्षरमोङ्कारोऽधिमात्रं..
तृतीयखण्डार्थः
ततश्चायं खण्डार्थः -
सोऽयमात्माऽध्यक्षरमोङ्कारोऽधिमात्रं पादा मात्रा अकार उकारो मकार इति ।
जागरितस्थानो वैश्वानरोऽकारः प्रथमा मात्रा || आप्तेरादिमत्त्वाद् वा । आप्नोति ह वै सर्वान् कामानादिश्च भवति य एवं वेद ॥ १ ॥
एवं चतुरो विश्वादीन्निरूप्य तेषामेव चतुर्णां प्रणवांशाकारोकार- मकारनादप्रतिपाद्यत्वरूपमहिमानमाह खण्डद्वयेन । तत्रादौ विश्वादीनां त्रयाणां प्रणवांशाकारोकारमकारत्रयप्रतिपाद्यत्वं वक्तुं उक्तमनुवदति- सोऽयमात्मेति ॥ सोऽयं विश्वादिचतूरूप आत्मा अध्यक्षरं सर्वतोs - धिकत्वादधि अविनाशित्वादक्षरमोमित्याक्रियत इत्योङ्कारः । यद्वक्तुमुक्त-
मनूदितं तन्निरूपयितुं प्रस्तावयति - अधिमात्रमिति ॥ अधि अधिकाः पूर्णाः मात्राः यस्यासाबधिमात्रः । कास्ता मात्रा इत्यत आह- पादा मात्रा इति ।। पादाः अंशाः मात्रा मात्राशब्दवाच्या इत्यर्थः । ते पादा अपि क इत्यत आह- अकार इत्यादिना || अत्र नादोऽपि ग्राह्यः । तत्राकारवाच्यः क इत्यत आह- जागरितेति || यो जागरितस्थानो वैश्वानरो भगवतः प्रथमा मात्रा प्रथमोऽशो विश्वः स अकारः अकार - वाच्यः । विश्वे अकारप्रवृत्तौ निमित्तद्वयमाह- आप्तेरादिमत्त्वाद्वेति || आप्तेर्जीवस्य विषयानापयति प्रापयतीत्याप्तिस्तन्निमित्तात् । आदिमत्त्वाद्वा । सुप्त्यवस्थातो जाग्रदव- स्थायां प्रत्यागमने विश्वस्य प्राज्ञाद् विभज्यमानत्वेन प्राज्ञरूपादिमत्त्वम् । स्वप्नादुत्थाने तैजसाद्विभज्यमानत्वेन तैजसरूपादिमत्त्वमस्तीत्येवं आदि- मत्त्वाद्वा अ इत्युच्यत इत्यर्थः । आप्त्यादिमत्त्वरूपनिमित्तद्वयेनाकार- वाच्यतया विश्ववेत्तुः फलमाह - आप्नोतीति ॥ य एवं निमित्तद्वयेन विश्वस्याकारवाच्यत्वं वेद स सर्वान् कामान् काम्यान् विषयान् विश्वानुग्रहेण प्राप्नोति मुक्तौ ।। अस्योपासकस्य भगवान् विश्व आदिश्च मुक्तेः कारणञ्च भवतीत्यर्थः ।। १ ।।
स्वप्नस्थानस्तैजस उकारो द्वितीया मात्रा | उत्कर्षादुभयत्वाद् वा । उत्कर्षति ह वै ज्ञानसन्ततिं समानश्च भवति नास्याब्रह्मवित् कुले भवति य एवं वेद ॥ २ ॥
उकारवाच्यः क इत्यत आह- स्वप्नस्थान इति । यः स्वप्नस्थान- स्तैजसो द्वितीया मात्रा स उकारः उकारवाच्य इति । तत्र उकारशब्दप्रवृत्तौ निमित्तद्वयमाह- उत्कर्षादुभयत्वाद्वेति । शरीराभिमानादुत्थाप्योद्धृत्य स्वप्नमण्डलं प्रति वासनामयपदार्थानुभवाय कर्षतीत्युत्कर्षस्तस्मात् । बाह्य- व्यापारोपरतिरूपनिद्रायाः स्वानविषयानुभवस्य च हेतुत्वादुभयत्वं, तस्माद्वा उकारवाच्य इत्यर्थः । एवं निमित्तद्वयेन तैजसस्योकार - वाच्यत्ववेत्तुः फलमाह- उत्कर्षतीत्यादिना ।। एवं निमित्तद्वयेन तैजस- स्योकारवाच्यत्वं यो वेद् स ज्ञानसन्ततिमुत्कर्षति ज्ञानसन्तत्योत्कृष्टो भवति । मुक्तिं प्राप्य नित्यज्ञानो भवतीति ह वै प्रसिद्धमित्यर्थः । समानश्च भवति स्नेहाद्दोषाभावाच्च सर्वमुक्तानां मध्यस्थो भवति । अस्यैवं उकारवाच्यतया तैजसवेत्तुः कुलेऽब्रह्मवित्पुत्रो न भवति ज्ञानिपुत्रको भवतीत्यर्थः ।। २ ।।
सुषुप्तस्थानः प्राज्ञो मकारस्तृतीया मात्रा । मितेरपीतेर्वा ।
मिनोति ह वा इदं सर्वमपीतिश्च भवति य एवं वेद ॥ ३ ॥
मकारवाच्यः क इत्यत आह- सुषुप्तस्थान इति ॥ यः सुषुप्तस्थानः प्राज्ञो भगवतस्तृतीया मात्रा स मकारो मकारवाच्य इति । प्राज्ञे मकारप्रवृत्तौ निमित्तद्वयमाह - मितेरपीतेर्वेति ॥ मितिरन्तर्गतिः । तथा च सुप्तौ जीवमात्मन्यन्तर्गमयतीति हेतोः । तथाऽपीतेः सुप्तौ बाह्यज्ञानलय- कर्तृत्वाद्वा मकार्वाच्य इत्यर्थ: । 'मानं ज्ञानं लयश्चैव मर्यादा चापि कथ्यते' इति वचनात् । एवं निमित्तद्वयेन प्राज्ञस्य मकारवाच्यत्ववेत्तु :- फलमाह मिनोति ह वा इत्यादिना । एवं निमित्तद्वयेन प्राज्ञस्य मकारवाच्यत्वं यो वेद स इदं सर्वं जगन्मिनोति । अत्यणूनामपि जीवानां प्रकाशतो व्याप्तेः सत्त्वात्प्रकाशस्यान्तर्गमयति अण्डमात्रस्थितं पदार्थजातं जानातीति यावत् । अपीतिर्दुःखादेः संसारस्य विलापकश्च भवतीत्यर्थः ।। ३ ।
अत्रैते श्लोका भवन्ति-
विश्वस्यात्वविवक्षायामादिसामान्यमुत्कटम् ।
मात्रासम्प्रतिपत्तौ स्यादाप्तिसामान्यमेव च ॥ ४ ॥ १ ॥
'जागरितस्थान' इत्यादिनोक्तार्थे विश्वासजननाय सलिलेश्वरो ब्रह्म- दृष्टान् मन्त्रान् संवादयन्नाह - अत्रैत इति ॥ तत्र जागरितस्थान इत्याद्यर्थे मन्त्रं पठति - विश्वस्येति । विश्व अकारवाच्य इत्येवं विश्वस्य अत्वविवक्षां उक्तरीत्या अकारवाच्यत्वविवक्षां कृत्वेति यावत् । मात्रासम्प्रतिपत्त मात्रायाः विश्वलक्षणभगवदंशस्य सम्प्रतिपत्तौ ध्याने क्रियमाणे सति । अस्य ध्यातुरुत्कटं विस्पष्टं यथा भवति तथाऽऽदिसामान्यं उक्तरीत्या विश्वस्य प्राज्ञतैजसरूपादिमत्त्वं विद्यते । तदुपासकस्यापि भवतीत्येवमादिमत्त्वेन साम्यं भवति । शब्दसाम्यमेवात्र द्रष्टव्यम् । तथाऽऽप्तिसामान्यम् । उक्तरीत्याऽऽप्तिमत्त्वेनापि साम्यं स्यात् भवतीत्यर्थः ।। ४ ॥
तैजसस्योत्वविज्ञान उत्कर्षो विद्यते ध्रुवम् ।
मात्रासम्प्रतिपत्तौ स्यादुभयत्वं तथाविधम् ॥ ५ ॥ २ ॥
स्वप्नस्थान इत्याद्यर्थे मन्त्रं पठति - तेजसस्येति ।। तैजसस्योकार - वाच्यत्वविज्ञाने उक्तरीत्या उकारवाच्यत्वविवक्षां कृत्वा मात्रा - सम्प्रतिपत्तौ तैजसलक्षणभगवदंशध्याने अस्योपासकस्य स्फुटमुत्कर्षः ज्ञानोत्कर्षरूपं फलं विद्यते । तथाविधं भगवन्निष्ठोभयत्वसदृशं उभयत्वञ्च विद्यते । निद्रास्वाप्नविषयानुभवश्च भगवता क्रियत इति तस्योभयत्वम् । अस्याप्युपासकस्य बाह्येन्द्रियोपरमरूपा निद्रा मुक्तौ भवति । बाह्येन्द्रियाणि जडानि सर्वाण्यपि नश्यन्तीति यावत् । स्वरूपेन्द्रियेण विषयानुभवश्च भवतीत्युभयत्वं विद्यते भवतीत्यर्थः ॥ ५ ॥
मकारभावे प्राज्ञस्य मानसामान्यमुत्कटम् ।
मात्रासम्प्रतिपत्तौ तु लयसामान्यमेव च ॥ ६ ॥ ३ ॥
सुषुप्तस्थान इत्याद्यर्थे मन्त्रं पठति - मकारेति । प्राज्ञस्य मकारभावे
मकारवाच्यत्वे उक्तरीत्या मकारवाच्यत्वविवक्षां कृत्वा मात्रासम्प्रति- पत्तौ प्राज्ञरूपभगवदंशध्यानेऽस्योत्कटं मानसामान्यम् उक्तरीत्या स्वान्तर्गमयितृत्वेन साम्यं उक्तरीत्या लयकर्तृत्वेन साम्यं च भवतीत्यर्थः ॥ ६ ॥
त्रिषु धामसु यत् तुल्यं सामान्यं वेत्ति निश्चितम् ।
स पूज्यः सर्वभूतानां वन्द्यश्चैव महामुनिः ॥ ६ ॥ ४ ॥
यत् अकाराद्यभिधेयविश्वाद्युपासकानां सर्वकामावाप्त्यादिफलमुक्तं तत्सत्यमेव । कुत इति चेत् अकाराद्यभिधेयविश्वाद्युपासकाः सर्व- कामात्यादिमन्त इति वेत्तुरपि फलोक्तेः । न हि तस्य मिथ्यात्वे तद्वेत्तुः फलं भविष्यतीत्याशयेनाह - त्रिष्विति || यो निश्चितो निश्चयरूप- ज्ञानवानधिकारी । त्रिषु धामसु 'तेजः स्वरूपं च गृहं प्राज्ञैर्धामेति गीयते' इति वचनात् विश्वादिस्वरूपेषु अकारादिवाच्यतयोपासकेनोपासितेषु सत्सूपजायमानं यदुपासकस्योपास्येन आप्त्यादिमत्त्वरूपं सामान्यं साम्यं तत्तुल्यं मोक्षपर्यवसायित्वादविकारीति वेत्ति । स सर्वभावानां कर्तरि षष्ठी । सर्वभावैः सर्वजीवैः पूज्यो वन्द्यश्च भवति । महामुनिश् भवीतीत्यर्थः ।। ७ ।।
अकारो नयते विश्वमुकारश्चापि तैजसम् ।
मकारश्च पुनः प्राज्ञं नामात्रे विद्यतेऽगतिः ॥ ८ ॥ ५ ॥
विश्वाद्युपासकानां सर्वकामावाप्त्यादिफलमित्युक्तम् । तत्प्राप्तिरूप- फलान्तरं चास्तीत्याह- अकारइत्यादिना ॥ अकारः अकारवाच्यो विश्वः तथा ध्यातः विश्वं स्वं प्रति उपासकं नयतीत्यर्थः । एवमुत्तरत्रापि व्याख्येयम् । विश्वादीनां जाग्रदादिप्रवर्तकत्वेन तत्तदवस्थायां जीवेन गम्यत्ववत्तुरीयस्य तदभावात् तत्प्रयुक्तं गम्यत्वमपि नास्तीत्याशङ्कां परिहरति- नामात्र इति ॥
विश्वादिवत्प्रत्यहमेकी भावविभागयोरभावेनामात्रो यस्तुरीयस्तस्मिन्नगतिः कर्मणि क्तिन्, भावप्रधानश्च निर्देशः अगम्यता नास्तीति सोऽपि ज्ञानिप्राप्य एव । आत्मानं संविशतीति तस्यापि गम्यत्ववचनादित्यर्थः । तथा च न जाग्रदादिप्रवृत्तिकारणत्वं गम्यत्वे प्रयोजकमिति भावः ।। ८ ।
॥ इति माण्डूकखण्डार्थे तृतीयः खण्डः ॥