नान्तः प्रज्ञं नबहिः प्रज्ञं..
द्वितीयखण्डः
चतुर्थपादमात्मन आह- नान्तः प्रज्ञमिति ॥
नान्तः प्रज्ञं नबहिः प्रज्ञं नोभयतः प्रज्ञं नप्रज्ञानघनं नप्रज्ञं नाप्रज्ञमदृष्ट- मव्यवहार्यमलक्षणमचिन्त्यमव्यपदेश्यमैकात्म्यप्रत्ययसारं प्रपञ्चोपशमं शिवमद्वैतं चतुर्थं मन्यन्ते ।
स आत्मा स विज्ञेयः ॥ १ ॥
अन्तः प्रज्ञापयतीत्यन्तःप्रज्ञः स्वाप्नार्थप्रदर्शकः, स नेत्यर्थः । न बहिः- प्रज्ञः जाग्रदर्थप्रदर्शको न भवति । नोभयतः प्रज्ञम् । बाह्यं शब्दादिकं जानन् स्वाप्नार्थाश्च यदा पश्यति साऽपि काचिद्दशा उभयत इत्यनेन गृह्यते । उभयतः बाह्याभ्यन्तररूपार्थान् प्रज्ञापयतीत्युभयतः प्रज्ञः स नेति नोभयतःप्रज्ञम् । नप्रज्ञानघनम्, प्राग्वद्विपरीतसमासः घनप्रज्ञानमिति । घनमज्ञानावृतं सुप्तजीवस्वरूपं तदज्ञानं वा न प्रज्ञापयति प्राज्ञवदिति नघनप्रज्ञानम् । नघनप्रज्ञानमेव नप्रज्ञानघनम् । नप्रज्ञं, प्रकर्षेण ज्ञापयति मानसवासनामयं ध्येयं वस्त्विति प्रज्ञं, तन्नेति नप्रज्ञम् । विश्वतैजसप्राज्ञाख्यरूपत्रयव्यापारान्, बाह्याभ्यन्तरपदार्थस्वरूपज्ञापन- सुप्तस्वरूपज्ञापनरूपान् किञ्चिद्वाह्यकिञ्चित् स्वप्नोभयज्ञापनरूपव्यापारं, समाधिस्थस्य निरन्तरज्ञानसन्तत्युत्पादनरूपव्यापारं चाकुर्वदित्यर्थः । नोभयतःप्रज्ञं नप्रज्ञमित्यत्र किंरूपकर्तृकं व्यापारद्वयमस्य नेत्युच्यत इति विचारणीयम् । तर्हि किं निर्व्यापारमेव चतुर्थं रूपम् ? नेत्याह- नाप्रज्ञ - मिति ॥ अप्रज्ञापकं नेति नाप्रज्ञं, प्रज्ञापकमेव । मुक्तानां स्वस्वयोग्य- सर्वज्ञानप्रदानरूपव्यापारकर्तेत्यर्थः । अदृष्टं, विश्वादिरूपत्रयं बाह्याभ्यन्तर- पदार्थज्ञापनतद्व्यवहाररूपकार्यलिङ्गेनानुमेयं, न तथा चतुर्थं रूपं दृष्ट- मित्यदृष्टमिति वा अमुक्तदृष्ट्यगोचरत्वाद्वा अदृष्टमित्यर्थः । अव्यवहार्य- मग्राह्यमिति । मुक्तिं विना तद्रूपविषयक ग्रहणव्यवहारयोरभावादव्यवहार्य- मग्राह्यमित्युच्यते । अलक्षणं लक्षणमनुमापकं, जाग्रदादिप्रवृत्तिरूपानुमापक- राहित्यादलक्षणम् । अत एवाचिन्त्यम् | अचिन्त्यशक्तित्वादेवाव्यपदेश्यं व्यपदेष्टुमशक्यम् । ऐकात्म्यप्रत्ययसारम्, एकः प्रधानः । आत्मा पूर्णः ।
एकश्चासावात्मा च (पूर्णश्च ) एकात्मा । एकात्मैवैकात्म्यं, स्वार्थे ष्यञ्प्रत्ययः । प्रत्ययो ज्ञानरूपः । सार आनन्दरूप इत्यैकात्म्यप्रत्यय- सारम् । प्रपञ्चोपशमम्, पचि विस्तारे, प्रपञ्चो विस्तृतः, व्याप्त इति यावत् । उपशमः उपशब्दोऽत्रोत्कृष्टवाची । शमः सुखम् । उत्कृष्टानन्द- रूपम् । प्रपञ्चश्चासावुपशमश्च प्रपञ्चोपशमः तम् । सारमित्युक्त्या प्रतीतजीवसाम्यनिरासायोपशममित्युक्तिः । यद्वा, देहसम्बन्धाद्यनिष्ट- प्रपञ्चमुपशमयति निवर्तयतीति प्रपञ्चोपशममिति । निर्दुःखसुख- रूपत्वाच्छिवम् । अद्वैतं, द्वीति भावप्रधानं, द्वित्वेन वस्तुतत्वापेक्षयाऽ- न्यात्मकत्वादिरूपद्वितीयेन प्रकारेणेतम्, इण् गतौ, ज्ञातं वस्तु द्वीतम् । द्वीतस्येदं द्वैतम् मिथ्याज्ञानम् । न विद्यते द्वैतं मिथ्याज्ञानं यस्मात् तदद्वैतम् । अहंममतादिमिध्याध्यवसायनिवर्तकम् । एतादृशमात्मनः चतुर्थपादं मन्यन्ते ब्रह्मादय इत्यर्थः । एतस्य स्थानं तु 'विष्णुस्तुरीयरूपेण द्वादशान्ते व्यवस्थित:' इति भाष्यदिशा ध्येयम् । सोऽयमात्मा चतुष्पादिति प्रतिज्ञातं विश्वतैजसप्राज्ञतुरीयाख्यरूपचतुष्टयं सपरिकरं निरूप्य रूपत्रयविषये मन्त्रानुदाहृत्य चतुर्थविषये मन्त्रानुदाहरिष्यन्निदान चतूरूप आत्माऽवश्यं ज्ञातव्य इति वदन्नुपसंहरति-स आत्मेति ॥ य इति शेषः । स चतूरूपो य आत्मा स विज्ञेय: विविधतया विशेषेण मुमुक्षुभिर्ज्ञेय इति । १ ॥
चतुर्थरूपस्योक्तं माहात्म्यं संवादयितुमाह अत्रैत इति ॥
अत्रैते लोका भवन्ति ।
निवृत्तेः सर्वदुःखानामीशानः प्रभुरव्ययः ।
अद्वैतः सर्वभावानां देवस्तुर्यो विभुः स्मृतः ॥ २ ॥
तुरीयस्योक्तार्थ एते वक्ष्यमाणा ब्रह्मदृष्टा: श्लोकाः संवादिनो भवन्तीत्यर्थः । प्रपञ्चोपशममित्यादिनोक्ते सर्वानिष्टनिवर्तकत्वादिरूपेऽर्थे श्लोकमा निवृत्तेरिति ॥ सर्वदुःखानां निवृत्तेः कारणमिति शेषः । ईशान: ईशान् मुक्ताननति प्रेरयतीतीशानः । प्रभुः स्वामी । अव्ययः शश्वदेकप्रकारः । अद्वैतः मिथ्याज्ञाननिवर्तकः । सर्वभावानां सर्वजीवा- नाम् । विष्णोः भवन्ति जायन्त इति बा । 'भुक् शुद्धिचिन्तयो: ' - इति कविकल्पद्रुमोक्त्या चिन्तार्थस्य वा भवतेर्णप्रत्यये भाव इति सिद्धा भावाश्चेतना इति लाभात्, तेषां जीवानां देवः प्राप्यः । गत्यर्थाद्दीव्यतेः कर्मणि घञ्प्रत्ययः । तुर्यस्तुरीयश्चतुर्थः । 'चतुरश्छयतावाद्यक्षरलोपश्च' इति चतुश्शब्दस्याऽऽद्याक्षरलोपे यत्प्रत्यये तुर्य इति सिद्धेः । विभुः समर्थः । स्मृतः, मन्त्रद्रष्ट्रा ब्रह्मणेति योज्यम् || २ ||
'नान्त: प्रज्ञं न बहि: प्रज्ञम्' इति यत्तुरीयस्य विश्वादिरूपत्रयवैधर्म्यमुक्तं तत्र मन्त्रमाह- कार्येति ॥
कार्यकारणबद्धौ ताविष्येते विश्वतैजसौ ।
प्राज्ञः कारणबद्धस्तु द्वौ तु तुर्ये न सिद्ध्यतः ॥ ३ ॥
अज्ञानकार्यभूतोऽहंममतादिभ्रमः । तद्रूपजाग्रद्बद्धः, तत्कारणाविद्या- बद्धः, वनिष्ठतादृशभ्रमरूपजाग्रत्कारणबन्धस्वामी विश्व इत्यर्थः । तैजसस्तु अविद्याकार्यभूतोक्तरूपस्वाप्नपदार्थभ्रमेण तत्कारणाज्ञानेन च बद्धः, जीवनिष्ठतादृशबन्धस्वामीत्यर्थः । प्राज्ञस्तु तत्कारणाज्ञानरूपसुप्ति- बद्धः सुप्तिबन्धस्वामी । तथा च सूत्रम् - ' तदधीनत्वादर्थवत् ' ( ब्र. सू. १- ४- ३) इति । तुर्ये चतुर्थे रूपे द्वौ कार्यकारणबन्धनियमनव्यापारौ वा कारणमात्रबन्धनियमनव्यापारौ वा द्वावपि न सिद्ध्यतः न स्त इत्यर्थः
॥३॥
नप्रज्ञानघनं नाप्रज्ञमित्युक्तप्राज्ञवैधर्म्ये मन्त्रमाह - नाऽऽत्मानमिति ॥
नाऽऽत्मानं न परांश्चैव न सत्यं नापि चानृतम् ।
प्राज्ञः किञ्चन संवेत्ति तुर्यं तत् सर्वदृक् सदा ॥ ४ ॥
आत्मानं प्राज्ञः स्वस्वरूपं न संवेत्ति न संवेदयेत् । न परान् न सत्यं नापि चानृतं संवेदयेदित्यन्वयः । जीवस्वरूपसुखकालाज्ञानानि विनाऽन्यत् किमपि न संवेदयेदित्यर्थः । तुरीयस्तु सर्वदृक् सर्वं दर्शयतीति सर्वदृक्, मुक्तौ तत्तद्योग्यं सर्वं प्रदर्शयतीत्यर्थः । यद्वा, सर्वं पश्यतीत्येव सर्वदृक् । सर्वप्रदर्शक इति वक्तव्येऽप्येवमुक्ति: स्वातन्त्र्याभिप्रायेण ॥ ४ ॥ शिवमद्वैतमिति तुरीयस्य यन्मिथ्याज्ञाननिवर्तकत्वमुक्तं तत् प्राज्ञस्यापि सममिति वदन्स्ततस्तुरीयस्य वैलक्षण्यान्तरमाह द्वैतस्येति ॥
द्वैतस्याग्रहणं तुल्यमुभयोः प्राज्ञतुर्ययोः ।
बीजनिद्रायुतः प्राज्ञः सा च तुर्ये न विद्यते ॥ ५ ॥
द्वैतस्य देहगेहादौ स्वातन्त्र्यस्याग्रहणं ग्रहणाहेतुत्वं, देहादौ स्वातन्त्र्यभ्रमाजनकत्वं प्राज्ञतुर्ययोस्तुल्यं समम् । बीजेति । देहगेहादी स्वातन्त्र्यबुद्धिबीजभूता मूलाविद्या बीजनिद्रा । तया युतः तद्युक्तत्वप्रदः प्राज्ञः । सा च बीजनिद्राऽपीत्यर्थः ॥ ५ ॥
प्रकारान्तरेण विश्वादेः साधर्म्यवैधर्म्य आह - स्वप्ननिद्रेति ॥
स्वप्रनिद्रायुतावाद्यी प्राज्ञस्त्वस्वप्ननिद्रया ।
न निद्रां नैव च स्वप्नं तुर्ये पश्यन्ति निश्चिताः ।। ६ ।
उपलक्षणम् । जाग्रत्स्वप्नभ्रमाभ्यां तद्धेतुनिद्राशब्दिताऽविद्यया च युतौ बद्धौ तदुभयवन्धनियामकावाद्यौ विश्वतैजसौ । प्राज्ञस्तु अस्वप्ननिद्रया द्विविधभ्रमविनाकृतकेवलाविद्यया युक्तस्तन्मात्रबन्धस्वामीत्यर्थः ।निश्चिताः सम्यक्निश्चयवन्तः । न निद्रां निद्राकृतबन्धस्वामित्वम् । स्वप्नं द्विविधभ्रमहेतुत्वं नैव तुर्ये रूपे पश्यन्ति जानन्तीत्यर्थः ॥ ६ ॥ एवंविधतुरीयरूपस्य दर्शनप्राप्ती कदा भवेतामित्यत आह- अन्य- थेति ॥
अन्यथा गृह्णतः स्वप्नो निद्रा तत्त्वमजानतः ।
विपर्यासे तयोः क्षीणे तुरीयं पदमश्नुते ॥ ७ ॥
अन्यथा गृह्णतः देहगेहादौ भगवदधीने स्वाधीनतां जानत: स्वप्नो भवति । स्वप्नपदेन मिथ्याज्ञानरूपभ्रमपरम्पराग्रहः । तत्त्वं भगवतः स्वातन्त्र्यादिरूपं तत्त्वमजानतो निद्रा मूलाविद्याबन्धो भवति । तयोर्निद्रा- भ्रमयोर्विपर्यास आवर्तने क्षीणे सति तुरीयं पदं चतुर्थरूपमश्नुते । साक्षात्कार- द्वारा प्राप्नोतीत्यर्थः ॥ ७ ॥
निद्राभ्रमयोरावर्तनक्षय: केन स्यात् ? यस्य क्षयेण भगवदपरोक्षधीरित्यतो भगवत्प्रसादेनैवेत्याह्- अनादीति ॥
अनादिमायया सुप्तो यदा जीवः प्रबुद्ध्यते ।
अजमनिद्रमस्वप्नमद्वैतं बुद्धयते तदा ॥ ८ ॥
मायाशब्देन भगवदिच्छा तदधीनाऽविद्या च गृह्यते । अनादीति तन्त्रम् । अनादेर्विष्णोः अनादिमायया सुप्तः स्वापितः संसारे निवेशितो जीवो यदाऽनादिमायया भगवदिच्छया भगवत्प्रसादेन प्रबुद्धयते, भगवानेव स्वतन्त्रोऽन्यत्सर्वं तदधीनमित्यादितत्त्वज्ञानवान् भवति तदा अजं जननादिदोषरहितमनिद्रमस्वप्नं विश्वादिरूपत्रयव्यापाराप्रवर्तकम्, अद्वैतं मिथ्याज्ञाननिर्वतकम्, उपलक्षणं, सर्वानिष्टनिवर्तकं भगवन्तं बुद्ध्यते साक्षत्करोतीत्यर्थः ॥ ८ ॥
ननु देहगेहादौ स्वस्वामिभावसम्बन्धादिरूपबन्धस्य जीवस्वरूपस्येव स्वाभाविकत्वेन निवृत्त्ययोगात् 'विपर्यासे तयोः क्षीणे' इत्युक्तिः कथमित्यतो नायं स्वाभाविक इत्याह- प्रपञ्च इति ॥
प्रपन्चो यदि विद्येत निवर्तेत न संशयः ।
मायामात्रमिदं द्वैतमद्वैतं परमार्थतः ॥ ९ ॥
देहगेहादौ स्वस्वामिसबन्धादिरूपो बन्धः प्रपञ्चः स्वातन्त्र्येण नास्त्येव । यदि पराधीनोऽपि विद्येत विद्यत इत्यङ्गीक्रियेत तर्ह्यपि परमार्थतः परमश्चासावर्थश्च परमार्थः, उत्तमोऽर्थो भगवान्, तस्मात्, परमार्थतः परमेश्वरप्रसादादिति यावत्, निवर्तेत निवर्तत एव न संशयः । अनादितोऽ- नुवृत्तस्य देहादौ स्वीयत्वज्ञानरूपभ्रमस्य कथं निवृत्तिरित्यत आह- मायेत्यादिना ॥ अद्वैतं महद्भिर्यथावत्तया ज्ञातं ब्रह्मादि वस्तुजात- मद्वैतम् । अज्ञैर्द्वैतं द्वितीयेन प्रकारेण ज्ञातं तद्वैपरीत्येन ज्ञातम् । तच्च मिथ्याज्ञानं, तेषां मायामात्रं मायया भगवदिच्छया मात्रं निर्मितं जातमित्यर्थः । तथा च तादृशमिथ्याज्ञानस्यानादितोऽनुवृत्तस्यापीश्वरेच्छया जातत्वेनास्वाभाविकत्वात् तत्प्रसादेन तन्निवृत्तिर्युक्तेति भावः ।। ९ ।।
उक्तमेव पूर्ववाक्यार्थं विशदयनुपसंहरति - विकल्प इति ॥
विकल्पो विनिवर्तेति कल्पितो यदि केनचित् ।
उपदेशादयं वादो ज्ञाते द्वैतं न विद्यत इति ॥ १० ॥
॥ द्वितीयः खण्डः ॥
देहगेहादौ स्वीयताभिमानादिनानात्मकबन्धरूपो विकल्पः उक्तरीत्या स्वाभाविको यदि केनचिदज्ञानादिना कारणेन स्वाभाविकत्वेन कल्पितः, तर्ह्यपि उपदेशात् महतामुपदेशबलान्निवर्तेत निवर्तत एव । कः सतां वादः?
यदुपदेशान्नानाविधस्वातन्त्र्यादिभ्रमनिवृत्तिरित्यत आह- ज्ञात इति ॥ ब्रह्मणि यथावत्तया ज्ञाते सति द्वैतं शिवमद्वैतमित्यत्रोक्तव्युत्पत्त्या मिथ्याज्ञानं न विद्यते, निवर्तत इत्ययं सतां वाद इत्यर्थः । इतिशब्दस्य इत्येते श्लोका भवन्तीति पूर्वेणान्वयः । तत्त्वनिर्णयतट्टीकयोरनुव्याख्यान- सुधयोश्चैतत् श्लोकद्वयं भेदपञ्चकस्य सत्यत्वानादित्वयोरुपपादनपरतया व्याख्यातम् ॥। १० ||
॥ इति द्वितीयः खण्डः ।।