बहिः प्रज्ञो विभुर्विश्वो ह्यन्तः प्रज्ञस्तु तैजसः

उपनिषत्

(ब्रह्मदृष्टमन्त्रसंवादः)

अत्रैते श्लोका भवन्ति -

बहिः प्रज्ञो विभुर्विश्वो ह्यन्तः प्रज्ञस्तु तैजसः ।

घनप्रज्ञस्तथा प्राज्ञ एक एव त्रिधा स्मृतः ॥ ७ ॥ १ ॥

भाष्यम्  

प्रमाणस्य प्रमाणं च बलवद् विद्यते मुने ।

ब्रह्मदृष्टान् यतो मन्त्रान् प्रमाणं सलिलेश्वरः ।

अत्र श्लोका भवन्तीति चकारैव पृथक्पृथक् ॥' इति गारुडे । खण्डचतुष्टयेऽपि पृथक् पृथक्  ॥ ७ ॥

उपनिषत्

दक्षिणाक्षिमुखे विश्वो मनस्यन्तस्तु तैजसः ।

आकाशे च हृदि प्राज्ञस्त्रिधा देहे व्यवस्थितः ॥ ८ ॥ २ ॥

विश्वो हि स्थूलभुङ् नित्यं तैजसः प्रविविक्तभुक् ।

आनन्दभुक् तथा प्राइस्त्रिधा भोगं निबोधत ॥ ९ ॥ ३॥

स्थूलं तर्पयते विश्वं प्रविविक्तं तु तैजसम् ।

आनन्दश्च तथा प्राज्ञं त्रिधा तृप्तिं विजानथ ॥ १० ॥ ४॥

त्रिषु धामसु यद् भोज्यं भोक्ता यश्च प्रकीर्तितः ।

वेदैतदुभयं यस्तु स भुञ्जानो न लिप्यते ॥ ११ ॥ ५ ॥

प्रभवः सर्वभावानां सतामिति विनिश्चयः ।

सर्वं जनयति प्राणश्चेतोंऽशून् पुरुषः पृथक् ।। १२ ।। ६ ।।

भाष्यम्  

प्रभवः सर्वभावानां विष्णुरेव न संशयः ।

इत्थं सतां निश्चयः स्यादन्यथा त्वसतां भवेत् ॥

सर्वस्य हि प्रणेतृत्त्वात् प्राणो नारायणः परः ।

श्रीव्यासतीर्थविरचिताटीका

खण्डार्थः

सुषुप्तस्थान इत्यादि यत्रेत्यस्मात्प्रथमं योज्यम् । कथं भूतं सुषुप्त - स्थानमित्यतो लक्षणोक्त्या तन्निरूपयति- यत्र सुप्त इत्यादिना ॥ यत्र यस्यामवस्थायां सुप्तो मनआदीन्द्रियाणामुपरतत्वादविद्यावृतत्वात् स्वरूपस्य न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति तत्सुषुप्तम् । बाह्यस्वानार्थादर्शने सति स्वस्वरूपादिदर्शनं यत्र सा सुषुप्तिरित्यर्थः । न केवलमानन्दमयः किन्तु आनन्दभुग्च ।। ५ ।।

भाष्यार्थः

सुप्त्यवस्थां गतस्य कामराहित्ये दर्शनाभावे च हेतुसूचकं सुषुप्त इति पदं द्वेधा व्याचष्टे - सुषुप्तमिति ॥ योजना तु सुषुप्तन्तु तमो ज्ञेयम् । तथा च तदावृत्तः सुप्तः सुखरूपत्वात्सुर्हरिः तं प्राप्तः सुप्तः तं प्राप्य न कामयेदित्यादिका ।स्थूलं विश्वं समुद्दिष्टम्' तत्सम्बन्धी च वैश्व इति विश्वशब्दनिर्वचनस्य कृतप्रायत्वात्तैजसप्राज्ञशब्दौ निर्वक्ति - चित्तेति ॥ तैजसे चित्ते स्थितः तैजसः तैजसमनोवासनारूपान् दर्शयेदितिवा तैजसः। ईषदपि बाह्यं न ज्ञापयतीति प्राज्ञ इत्यर्थः । केनैकीभूत इति न ज्ञायतेऽतो व्याकरोति - एकीभावमिति ॥

प्रज्ञानघनः निबिडज्ञान इति प्रतीतिं निवारयन् व्याचष्टे - घनो जीव इति ॥ आनन्दमय इति पदमानन्दविकारित्वप्रतीतिं निवारयन् व्याचष्टे- आनन्देति ॥ ' स्वरूपार्थे विकारार्थे प्राचुर्यार्थे मयट् त्रिधा' इति वचनादिति भावः । चेतोमुख इति पदं चित्तमुखत्वप्रतीतिं निवारयन् व्याचष्टे - चेत इति ॥ ननु प्रज्ञानघन इति मूलपाठः । तत्कथं धनं प्रज्ञापयतीति घनप्रज्ञ इति व्याख्यानमित्यत आह- प्रज्ञानेति ॥ कुत एतदवगतमित्यत आह- घनप्रज्ञ इति । विश्वतैजसयोरप्यानन्दभुक्त्वात् कथमानन्दभुक्प्राज्ञ इति विशेषोक्तिरित्यत आह- विषयेति ॥ ' एष सर्वेश्वरः' इत्याद्युक्तानि विशेषणानि प्राज्ञस्यैवेति प्रतीतिमुक्तविशेषण- द्वयपूर्वकं निवारयति आनन्दमयेति ॥ ननु आनन्दमयत्वचेतो- मुखत्वविशेषणयोः प्राज्ञनिष्ठत्वेनोक्तयोः कथं चतुर्णामपि विशेषणत्व - मित्यत आह- अन्यत्रेति ॥ न तु निरासार्थमिति वाक्यशेषः ।। ५ ।।

खण्डार्थः

एवं विश्वादीनां त्रयाणां महिमानं निरूप्य नान्तः प्रज्ञमित्यादिना तुरीयस्य महिमानं विवक्षुचतुर्णां महिमानं युगपदाह - एष सर्वेश्वर इत्यादिना ।। एष योनिः सर्वस्येत्युक्तं विशदयन्नाह - प्रभवाप्ययौ हि भूतानामिति । यस्माद् भवत इति शेषः ।। ६ ।।

भाष्यार्थः

उक्तविशेषणानां चतुर्णामपि समानत्वे कथं योजनेत्यतस्तां दर्शयति- एष इति ॥ ननु भवतु सर्वेश्वरत्वादि चतुष्टयेऽपि समम् । नत्वानन्द- मयत्वचेतोमुखत्वे । तयोः प्राज्ञनिष्ठत्वेनोक्तत्वादिति शङ्कां प्रमाणेन वारयति- परमात्मेति ॥ मुखस्यैव ज्ञानस्वरूपत्वप्रतीतिं निवारयन्नाह- मुखशब्द इति ।। मुखशब्दस्तु सर्वस्यापि देहस्योपलक्षणो मुखवाचकः ।

ननु मुखवाचकमुखशब्देनोपलक्षणे किं निमित्तमित्यत आह- तथापीति ।। अस्य योजना अयं मुखशब्दो यद्यपि स्वतो मुखवाची, तथापि विभोर्ज्ञानस्य पूर्णत्वं सूचयेत् कुतः ? मुख्यवाचित्वात् । तथा च चेतसा ज्ञानेन मुखो मुख्यः पूर्ण इति । ननु स्थूलभुक् प्रविविक्तभुगिति भोग उक्तः तेन भोगेनातिशयभावे अपरिपूर्णत्वं तदभावे स्थूलादि- भोगायोगः इत्यतोऽतिशयाभावेऽपि घटयन्नाह - पूर्णेति ॥ भोग: क्रीडा अन्यथाविशेषको न च । विशेषासम्पादको व्यापारः कुत्र दृष्टः ? येन भगवतो भोगो नाम क्रीडेति प्रतीम इत्यत आह - यथेति ॥ ६ ॥

खण्डार्थ:-

उक्तार्थेषु मन्त्रानपि वक्तुमाह- अत्रैत इति ॥ विश्वो बहिः प्रज्ञः तैजसोन्तःप्रज्ञः प्राज्ञः प्रज्ञानघन इत्यत्र मन्त्रं पठति - बहिरिति ॥ ७ ॥

भाष्यार्थः

ननु स्वोक्तार्थे अत्र श्लोका भवन्तीति मन्त्रोदाहरणमयुक्तम् स्ववचनस्य प्रमाणत्वे तद्वैयर्थ्यादप्रामाण्ये प्रमाणभूतमन्त्रसंवादकरणा- योगात् । मैवम् ।। स्ववचनस्य प्रमाणत्वेऽपि दाढय तदुदाहरणोप- पत्तेरित्याह- प्रमाणस्येति ॥ मन्त्रान् पृथक् पृथक्वकार उदाहरदित्युक्तं तत्कुत्र कुत्रेति जिज्ञासायामाह - खण्डचतुष्टय इति ॥ ७ ॥

खण्डार्थः

जागरितस्थानः स्वप्नस्थानः सुषुप्तस्थान इत्युक्तार्थे मन्त्रं पठति- दक्षिणेति ॥ ८ ॥

स्थूलभुक् प्रविविक्तभुगानन्दभुगित्युक्तार्थे मन्त्रं पठति - विश्वेति ॥९॥ अत्रेव मन्त्रान्तरं पठति- स्थूलमिति ॥ स्थूलं कर्तृ विश्वं तर्पयत इत्यन्वयः | आनन्दमानन्दः || १० ॥

यदुक्तं विश्वादिस्वरूपं तत्स्थानं तद्भोज्यं तत्सर्वथा ज्ञेयमित्याशय - वान् तज्ज्ञातुः फलमाह् - त्रिष्विति ॥ ११ ॥

एष योनिः सर्वस्येत्यत्र मन्त्रं पठति प्रभव इति ॥ प्रभावयत्युत्पाद- यतीति प्रभवः । सर्वभावप्रभवत्वमेव विशदयन्नाह - सर्वमिति ॥ चेर्तोशून् ज्ञानरश्मीन् जीवानित्यर्थः ।। १२ ।।

भाष्यार्थः

प्रभवः सर्वभावानामित्यादौ विशेष्यानुक्तेर्व्याचष्टे - प्रभव इति ॥ विष्णुश्चेत्प्रभवः तर्हि प्राणशब्दायोग इत्यत आह- सर्वस्येति ॥ ८-१२ ॥

श्रीवादिराजीयाप्रकाशिका

यत्र सुप्त इत्युपनिषद्वाक्यस्यायमर्थः । यत्र सुप्त्याख्यतृतीयस्थाने प्राज्ञं प्राप्य सुप्त अज्ञानावृतो जीव इत्यर्थः । तत् सुषुप्तं सुषुप्ताख्याज्ञानावृत- जीवावस्थानरूपं स्थानम् । तस्मिन् सुषुप्तस्थाने, सुप्त्यवस्थायामिति यावत्, एकीभूतः । विश्वतैजसाभ्यामेकीभूत इति ।

स्वात्मतमो विना' इत्यत्र स्वात्मा च तमश्चेति द्वन्द्वैकवद्भावः । इदं चोपलक्षणम् । स्वरूपभूतसुखस्याप्यनुभवादित्यपि ज्ञेयम् । 'चित्तस्थो दर्शयेत् तस्माद्' इत्यत्र चित्तस्थ: स्वप्नावस्थाप्रेरको देवो दर्शयेत् वासना- मयकरितुरगाद्यनेकपदार्थान् सृष्ट्वा अनन्तजीवदेहेषु प्रतिदिनं दर्शयेत् । तस्मात्तैजसः तैजसपदवाच्यसामर्थ्यविशेषसम्बन्धित्त्वात्तैजस इत्युच्यते । मनसो वैकारिकत्वेन तैजसत्वासम्भवादुक्तव्युत्पत्तिरेवाऽश्रयणीया । यथास्थितप्रज्ञानघनत्वस्य त्रिष्वपि साम्यात् प्राज्ञमात्रविशेषणत्वं कथमित्यत आह- घनो जीव इति ॥ आनन्दभुगिति शब्दस्य यथाश्रुतार्थ- कथने त्रिष्वपि साम्याद्विशेषमाह - विषयभोगं विनेति ॥ बाह्यविषय - भोगाख्यसुखं विनेत्यर्थः । इदं च प्राज्ञस्यैवोचितम् | सुप्तिकाले स्वाप्न- विषयबाह्यविषयजसुखाभावस्यैवोचितत्वादिति भावः । मुखशब्दस्य सर्वाङ्गोपलक्षकत्वेऽपि ज्ञानरूपजीवेऽपि साम्यान्मुखशब्दो मुख्यवाची - त्याह- पूर्णत्वमिति ॥ यद्यप्यानन्दमयत्वचेतोमुखत्वसर्वज्ञत्वादिकं प्राज्ञस्यैवेति प्रतीयते ।

'आनन्दमयश्चेतोमुखः प्राज्ञ:' इति प्राज्ञविशेषणतया स्पष्टमुक्त- त्वात् । एष इत्यव्यवहितपरामर्शेन प्राज्ञविशेषणतया एव प्रतीयमान- त्वात् । तथापिआमन्दमयोऽभ्यासात्' इति सूत्रेणाऽनन्दमयाधिकरणे आनन्दमयात्मकत्वज्ञानात्मकत्वादीनां 'अथातो ब्रह्मजिज्ञासा' इत्यत्रोक्तब्रह्मशब्देन प्रकृतमूलरूपविषयताया एव निर्णीतत्वात् 'एष योनिः सर्वस्य' इति सर्वकर्तृत्वेनोक्तमूलरूपे तदुपयुक्तसर्वज्ञत्वसर्वेश्वरत्व- सर्वान्तर्यामित्वानामप्यावश्यकत्वात् षण्णामपि विशेषणानां न प्राज्ञमात्र- विशेषणता । मूलरूपगुणानां च सहस्रधा विभक्तगङ्गाप्रवाहेष्वनुगतमूल- गङ्गानुगुणभूतपावित्र्यस्येव सर्वावतारेष्वपि वक्तव्यत्वात् । अत एष इति परामर्शो दूरस्थविश्वादीनामपि वाच्यः । एकत्रोक्तपूर्णानन्दत्वपूर्ण प्रज्ञत्व- योरपि सवर्त्रानुषङ्गः कार्यः । तर्ह्येकत्र विशिष्योक्तिः किमर्थेति चेत्, सत्यम्।इयं माता तव वन्द्या' इत्येकत्रोक्तवन्दनस्योपलक्षणतया मातृ- मात्रेऽप्यनुषङ्गवदेकत्रोक्तयोरप्यनयोस्तज्जातीयेष्वप्यनुषङ्गसम्भवात्, अनन्तावतारेषु पृथगुक्तौ वाक्यगौरवाच्चैकत्रोक्तिरिति ब्रूमः । तदिद- मुक्तमाचार्यै:- 'अन्यत्रातिदेशार्थम्' इत्यादि ।

प्रभवाप्ययौ हि भूतानाम्इत्यत्र भूतानां प्रभवाप्ययौ मूलरूपाद्भगवतो भवतः । हीत्यनेनयतो वा इमानि भूतानि जायन्ते' इति श्रुतिप्रसिद्धिं सूचयति । स्वरूपस्थानभोगकथनार्थं क्रमेण मन्त्रत्रयमिति ज्ञेयम् ।। ५-१२ ॥

श्रीनिवासतीर्थविरचितापदार्थदीपिका

प्राज्ञस्य स्थानादिप्रतिपादनाय सुषुप्तस्थान इत्यादिकोपनिषत् । तत्र सुषुप्तस्थानं कीदृशमिति शङ्कायां लक्षणोक्त्या तं निरूपयितुं यत्र सुप्त इत्यादिवाक्यं प्रवृत्तम् । तत्र सुषुप्त्यवस्थां गतस्य कामराहित्ये स्वप्न - दर्शनाभावे च हेतुसूचकं सुप्त इति पदं प्रमाणेनैव व्याचष्टे - सुषुप्तं त्विति ॥ भावे क्तः । सुप्तिरेव सुषुप्तम् । तमोऽज्ञानं अज्ञानकार्यमिति यावत् । हरिं प्राज्ञनामकं प्राप्य स्थितः पुमान् । तदावृतः तेन तमसाऽवृतः यतो तो जीवः किमपि न कामयेत् । नैव पश्येत् कमपि पदार्थं स्वप्नं चेति शेषः ।

ननु स्वरूपादिज्ञानं तावदवश्यमङ्गीकर्तव्यम् । एतावन्तं कालं सुख- महमस्वाप्समित्युत्तरकालपरामर्शात् । अतो न पश्येदित्येतदयुक्तमित्यत आह || स्वात्मेति ॥ स्वात्मसहितं तमः, स्वात्मतमः कालं च विनेति सम्बन्धः ।

उपलक्षणमेतत् । वक्ष्यमाणरीत्या सुषुप्त्यवस्थां सुखं च विनेत्यपि द्रष्टव्यम् । तस्येति ॥ तमः कार्यसुषुप्त्याख्यस्थानस्येत्यर्थः । विश्वं स्थूलमित्यादिना विश्वशब्दस्य निरुक्तत्वात्तैजसप्राज्ञशब्दौ निर्वक्ति- चित्तस्थ इत्यादिना || ‘मनस्यन्तस्तु तैजस:' इति वचनात् तैजसः चित्ते स्थितः सन् स्वाप्नपदार्थं दर्शयेद्यतोऽतस्तैजसेत्यर्थः । अत्र चित्तस्थस्य तैजसत्वं नाम तेजोवत्त्वमेव । न तु तैजसाहङ्कारकार्यत्वम् । चित्तशब्दोक्तस्य मनसो वैकारिकाहङ्कारकार्यत्वादिति द्रष्टव्यम् ।

न बाह्यमिति । तथा च प्रकर्षेण न ज्ञापयतीति प्राज्ञ इति व्युत्पत्तिर्द्रष्टव्या । एकीभूत इत्येतदप्रतीतेर्व्याचष्टे - एकीभावमिति ॥ सुषुप्यवस्थायां विश्व: तैजसश्चेत्युभौ तेन प्राज्ञेन एकीभावं व्रजेतां यतोऽतः प्राज्ञ एकीभूत इत्युच्यत इति योज्यम् । प्रज्ञानघनो ज्ञाननिबिड इत्यन्यथाप्रतीतिं निवारयन् व्याचष्टे - घनों जीव इति ॥ तमसाऽ- ज्ञानेनाऽवृतो जीवो घन इत्युच्यते । सकालस्येत्युपलक्षणम् । सुषुप्त्यव-स्थस्य ससुखस्येत्यपि द्रष्टव्यम् । तथा च कालावस्थासुखसहितस्य तन्मात्रस्याज्ञानावृतजीवमात्रस्य प्रदर्शनात्प्रज्ञानघन इत्यर्थः । अनेन प्रज्ञानयन एवेत्येवकारस्य बुद्ध्या विविक्तेन घनपदेन सम्बन्धः । तथा च कालावस्थासुखसहितमज्ञानयुक्तं धनं जीवमेव प्रज्ञापयतीति प्रज्ञानघन एवेत्यर्थो द्रष्टव्यः । आनन्दमय इत्यत्र मयटो विकारार्थत्वप्रतीतिं वारयन् व्याचष्टे - आनन्दमयइति । तथा च मयट प्राचुर्यार्थे । प्राचुर्यं च पूर्णत्वमित्युक्तं भवति । चेतोमुख इत्यत्र 'चित्तं तु चेतोहृदयम्' इत्यभिधानात् चेतःशब्दोऽन्तःकरणपरइति प्रतीतिनिरासाय व्याचष्टे - तोमुख इति ॥

ननु घनं प्रज्ञापयतीति घनप्रज्ञान इति भाव्यम्, प्रज्ञानघन इति कथमित्यत आह- प्रज्ञानघन इति || अन्याहितादित्वाद्धनशब्दस्य परनिपात इति भावः । तत्र ज्ञापकमाह - घनप्रज्ञ इतीति ॥ ननु विश्वतैजसयोः अप्यानन्द भुक्त्वादानन्दभुगिति प्राज्ञस्यैव को विशेष: कथ्यत इत्यत आह- विषयभोगं विनेति ॥ विश्वतैजसयोस्तु बाह्यान्तर्विषयभोगेनानन्दोक्तेरिति भावः । आनन्दमात्रेति ॥ विषय- भोगानभिव्यक्तकेवलस्वरूपानन्देत्यर्थः । सुषुप्तस्थान एकीभूत इत्यादि - वाक्योक्तमानन्दमयत्वचेतोमुखत्वरूपं विशेषणद्वयं इतरविशेषणवन्न प्राज्ञमात्रनिष्ठमिति वदन् 'एषसर्वेश्वर' इत्यादिनोक्तान्यपि विशेषणानि न सन्निहितप्राज्ञमात्रनिष्ठानि, किन्तु विश्वादिचतुष्टयसाधारणानीत्याह- आनन्दमयेति ।। आनन्दमयचेतोमुखेत्यत्र भावप्रधानो निर्देशः । ननु 'एष सर्वेश्वरः' इत्यादिवाक्योक्तविशेषणानां सर्वसाधारण्यसम्भवेऽपि प्राज्ञमात्रनिष्ठत्वेनोक्तयोरानन्दमयत्वचेतोमुखत्वयोः कथं सर्वसाधा- रण्यमित्यत आह- अन्यत्रेति । विश्वादित्रयेत्यर्थः । एकत्र प्राज्ञे ।

ननु 'एष सर्वेश्वरः' इत्यादिवाक्योक्तानामपि विशेषणानां कथं विश्वादिरूपसाधारण्यम् । एष इति पदेन प्राज्ञस्तृतीय इत्यव्यवहित- प्राज्ञस्यैव परामर्शादित्यत आह- एष इति । तथा चैष इत्यस्य पूर्व- प्रकृतरूपचतुष्टयपरामर्शकत्वेन प्राज्ञमात्रपरामर्शकत्वाऽनङ्गीकारादिति भावः । आनन्दमयत्वादिविशेषणानां रूपचतुष्टयेऽपि साम्ये प्रमाणमाह- परमात्मेति ॥ तुरीयस्यापि नासिकामूलमारभ्य द्वादशाङ्गुलान्ते मस्तकमध्ये व्यवस्थितत्वोक्त्या सर्वप्राणिशरीरगतत्वं मन्तव्यम् चेतोमुखत्वे हेतुः - पूर्णेति । स्वरूपतः स्वरूपत्वतः । अत्र चेतोमुख इति मुखस्यैव ज्ञानस्वरूपत्वं प्रतीयतेऽतस्तां निवारयति - मुखशब्दस्त्विति ॥ लक्षणाबीजसम्बन्धस्तु एकदेशैकदेशिभावादिर्द्रष्टव्यः । तथा च दशामात्रं दत्तमित्यादाविवैकदेशेनैकदेशिनः सर्वस्यापि देहस्य लक्षणा कार्येति भावः । यद्वा चेतोमुख इत्यत्र मुखो मुख्यः । उत्तम इति यावत् । उत्तमत्वं चात्र पूर्णत्वमभिप्रेतम् । तथा च चेतसा ज्ञानेन मुखः उत्तमः पूर्ण इत्यर्थान्तरमभिप्रेत्याह- तथापीत्यादिना || अयमर्थः । अपि यद्यपि । अयं मुखशब्दः स्वतः मुखवाची सन् भवति । तथापि विभोर्ज्ञानस्य पूर्णत्वं सूचयेत् । कुतः मुखशब्दस्य मुख्यवाचित्वात् ।मणिर्मुखं प्रधानं च' इत्युत्तमस्य वचोभवेदिति वचनात् । उत्तमत्वं च पूर्णत्वमेवाभिप्रेतम् । अत एव पूर्णत्वं वदेदित्यनुक्त्वा सूचयेदित्युक्तमिति ।

ननु स्थूलभुक् प्रविविक्तभुगिति विश्वतैजसयोर्विषयभोग उक्तः । स तु न युक्तः । तथात्वे भगवदानन्दस्य विषयभोगाधीनत्वप्राप्त्या पूर्णानन्दत्वभङ्गापत्तेः । यदि पूर्णानन्दत्वाङ्गीकारस्तर्हि विषयभोगायोग इत्याशङ्कां ब्रह्मतर्कवाक्येन परिहरति - पूर्णानन्देति ॥ पूर्णानन्दस्वरूप- स्यापि हरेः स्थूलादिविषयभोगः क्रीडैव न चान्यथा । अविद्यमानाति-शयितानन्दजनको नैवेत्यर्थः । अत्र दृष्टान्तमाह- यथेति । एवं विषयभोगेन भगवदानन्दस्य विशेषो नास्तीति भावः ।

नन्वेतदुपनिषद्द्रष्ट्रा सलिलेश्वरेण स्वोक्तार्थे अत्रै इलोका भवन्तीति ब्रह्मदृष्टमन्त्राः प्रमाणत्वेनोदाह्रियन्ते तदयुक्तम् । सलिलेश्व- रोक्तं तावत्प्रमाणमप्रमाणं वा । आद्ये मन्त्रोदाहरणं व्यर्थम् । द्वितीये अप्रमाणभूतेऽर्थे प्रमाणभूतमन्त्रोदाहरणायोगादित्याशङ्कां पुराणवाक्येन परिहरति- प्रमाणस्येति ।। प्रमाणस्यापि सम्वादभूतं प्रमाणं विद्यते चेत्तर्हि तत्प्रमाणं बलवदेव भवति । अत्रार्थे एतदुपनिषदुक्तं प्रमेयं दृष्टान्त इत्याह- ब्रह्मदृष्टानिति ।। प्रमाणशेषोक्तं पृथक् पृथगित्येतदप्रतीतेः स्वयं व्याख्याति- खण्डचतुष्टयेऽपीति ॥

एष योनिः सर्वस्येत्यत्र प्रमाणत्वेन प्रवृत्तं प्रभव इति । ननु उत्तरार्धे प्राण इत्युक्तत्वात्कथं विष्णुरेवेत्युक्तमित्यत आह- सर्वस्य हीति ।। ५-१२ ॥