प्रपञ्चो यदि विद्येत निवर्त्तेत न संशयः
उपनिषत्
(बन्धः न स्वाभाविकः)
प्रपञ्चो यदि विद्येत निवर्त्तेत न संशयः ।
मायामात्रमिदं द्वैतमद्वैतं परमार्थतः ॥ ९ ॥ ८ ॥
भाष्यम्
' तन्वा स्वस्वामिसम्बन्धः प्रपञ्चोऽस्य शरीरिणः ।
वस्तुतोऽसौ नचैवास्ति परमस्य वशे यतः ॥
तन्वादिकस्तथाऽप्येष ह्यभिमानात् प्रदृश्यते ।
अतः स विद्यत इति त्वङ्गीकारो भवेद् यदि ।
तथापि भगवज्ज्ञानात् स निवर्तेदसंशयम् ॥' इति ब्रह्मतर्फे ॥
अद्वैतमनन्यथाज्ञातं पब्रह्मादिवस्तु । द्वैतं द्विधा ज्ञातमन्यथा ज्ञातमज्ञैः । परमार्थतः परमेश्वरात् । तस्यैव मायामात्रं तदिच्छया निर्मितम् । तदन्यथा- ज्ञानम् । तस्मात् तदिच्छयैव निवर्तते ॥
'परेण ब्रह्मणा यत्तु द्विधा न ज्ञातमञ्जसा ।
तदद्वैतं परं ब्रह्म तदेव ज्ञातमन्यथा ॥
जीवेन द्वैतमुद्दिष्टं मिथ्याज्ञानं तदेव च ।
परमार्थात् पराद् विष्णोर्जातमिच्छावशादनु ॥
मायेतीच्छा समुद्दिष्टा मायामात्रं तदुद्भवम् ।
उत्तमत्वात् परार्थोऽसौ भगवान् विष्णुरव्ययः ।।' इति च ॥