ओमित्येतदक्षरम्
प्रथमखण्डार्थः
ततश्चायं खण्डार्थ:-
ओ३म् ॥ ओमित्येतदक्षरम् । इदं सर्वम् । तस्योपव्याख्यानं भूतं भवद् भविष्यदिति । सर्वमोङ्कार एव । यच्चान्यत् त्रिकालातीतं तदप्योङ्कार एव ॥ १ ॥
मण्डूकरूपिणा वरुणेन विश्वादिचतूरूपी नारायणः स्तूयते । ओंमित्यादिकया समग्रोपनिषदा । ओमितिप्रणवप्रतिपाद्यं यत्तदेतदक्षरं नाशरहितं ब्रह्मैव । तदिदं प्रणवप्रतिपाद्यं ब्रह्म गुणपूर्णत्वात्सर्वमित्युच्यते । अत्रोङ्कारवाच्यतयोक्तमक्षरं न प्रसिद्धाकाराद्यक्षरम् । किन्तु यत्पूर्ण परब्रह्मरूपाक्षरं तदेवोङ्कारवाच्यमिति प्रणवस्याभिधेयमुक्त्वा तस्य भगवति प्रवृत्तौ निमित्तमसाधारणलक्षणं कथ्यते - तस्येत्यादिना ॥ तस्य भगवतः उप समीपे वाचकत्वेन स्थितस्योङ्कारस्य विशेषेणाख्यानं व्याख्यानं प्रवृत्तिनिमित्तं कथ्यत इत्यर्थः । तस्योपपन्नं व्याख्यानं क्रियत इति वा । अक्षरं भूतं भवद्भविष्यदिति व्याख्यानमित्यन्वयः । अत्र कालत्रयसम्बन्धित्वं नार्थः । तस्य जीवादिसाधारण्यात् । यच्चान्यत् त्रिकालतीतमित्यनुवादासम्भवाच्च । अतः कालत्रयेऽप्येकरूपत्व- मेवाभिप्रेतम् ।। १ ।।
सर्वं ह्येतद् ब्रह्म । अयमात्मा ब्रह्म ॥ २ ॥
सर्वमित्यत्रोक्तं पूर्णत्वमन्यत्रातिव्याप्तं किं न स्यादिदं सर्वमिति पूर्वं निरवधारणमुक्तत्वात् इत्याशङ्कायां नेत्याह- सर्वमोङ्कार एवेति ॥ ओंकारवाच्यं ब्रह्मैव सर्वं पूर्णमित्युक्त्याऽन्यस्य पूर्णत्वं निवार्यतेऽतो नातिप्रसङ्ग इति भावः । एवं भूतं भवत्यादिनोक्तं त्रिकालातीतत्वं अन्यस्यापि किं न स्यात् । पूर्वं निरवधारणमुक्तत्वादित्यतो नेत्याह- यच्चान्यत् त्रिकालातीतं तदप्योङ्कार एवेति || ओंकारवाच्यभगवत एव त्रिकालातीतत्वमित्युक्त्याऽन्यस्य त्रिकालातीतत्त्वं निवार्यतेऽतो नातिप्रसङ्ग इति भावः । ननु चेतनप्रकृत्यादेरपि त्रिकालातीतत्वात् पुनरतिव्याप्तिरित्यत उक्तम्- अन्यदिति । तथा च प्रकृत्यन्यत्वे सति कालत्रयकृतविकारशून्यत्वमेवेह प्रवृत्तिनिमित्तभूतं लक्षणतयाभिप्रेतम् । अतोऽब्याकृताकाशकालवर्णानां प्रकृत्यभिमन्यमानानां व्यावर्तितत्वान्न कुत्राप्यतिप्रसङ्ग इति भावः । देहाभिमानकृतोच्चनीचत्वादिरूपविकार- सद्भावान्न जीवेष्वतिव्याप्तिः । मुक्तानामपि पूर्वं संसारावस्थायां काल- त्रयकृतविकारसद्भावेन कालत्रयकृतविकारशून्यत्वाभावान्न तेष्वति - व्याप्तिरित्यपि द्रष्टव्यम् ।
ननु भगवत एव पूर्णत्वमुक्तम् किं तत्र प्रमाणमित्यतस्तत्सूचयन्नाह- सर्वं ह्येतदिति । एतद्ब्रह्मोङ्कारप्रतिपाद्यमक्षराख्यं परं ब्रह्म सर्वं गुणपूर्णमित्येतत् हि 'पूर्णमद' इत्यादि श्रुतिप्रसिद्धमित्यर्थः । ननु श्रियो ब्रह्मादिजीवानां चास्वातन्त्र्यदर्शनात्तत्र स्थित्वा तेषामादानादिकर्ता कश्चन वक्तव्यः । तथा च तस्यापि पूर्णत्वत्रिकालातीतत्वयोरवश्यं स्वीकर्तव्यत्वादवधारणमयुक्तमित्यतः सोऽपि भगवानेवेत्याह- अय- मात्मा ब्रह्मेति || श्यादिषु स्थित्वा योऽयमात्मा ' यच्चाप्नोति यदादत्ते ' इति वचनादादानादिकर्ता प्रतीयतेऽनुमानेन स ह्योङ्कारवाच्यो विष्णुरेवेत्यर्थः || २ ||
सोऽयमात्मा चतुष्पात् | जागरितस्थानो बहिः प्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग् वैश्वानरः प्रथमः पादः ॥ ३॥
एवं समस्तप्रणवप्रतिपाद्यभगवदुपास्तिमभिधायेदानीं प्रणवांशाका- रोकारमकारनादप्रतिपाद्यानां विश्वतैजसप्राज्ञतुरीयाणामुपास्तिं अकारः प्रथममात्रेत्यत्र वक्तुमादौ प्रस्तावयति - सोयमात्येति । यः श्रीब्रह्मादी- नामादानादिकर्तृत्वेनोक्तः सोऽयमात्मोङ्कारवाच्यो देहस्थो भगवान् चतुष्पात् चत्वारः पादा अंशाः यस्यासौ चतुष्पादित्यर्थः । ननु के चत्वारः पादाः कानि च तेषां स्थानानि कश्च तेषां व्यापारः किं विधञ्च रूपं किञ्च तेषां भोग्यमित्यतो नान्तः प्रज्ञमित्यादिना तुरीयस्य वक्तुं विश्वतैजसप्राज्ञानां स्थानादीनि तावदाह - जागरितस्थान इत्यादिना तृतीय: पाद इत्यन्तेन ॥ तत्र विश्वस्य स्थानादिकं दर्शयति- जागरित- स्थान इत्यादिना || जागरितं स्थानं दक्षिणाक्ष्यादिरूपं यस्यासौ तथोक्तः । बहिःप्रज्ञः बहिष्ठं वस्तु प्रज्ञापयति बाह्यपदार्थविषयक - संवित्तिनिर्मातेति यावत् । सप्ताङ्गः द्वौ पादौ चत्वारो हस्ता हस्तिकर इति सप्ताङ्गवान् । एकोनविंशतिमुखः तत्राष्टादशमुखानि पुमाकाराणि मध्यमं तु गजाकारमिति शेषः । स्थूलभुक् स्थूलान् बाह्यान् शुभान् विषयान् जीवेन्द्रियद्वारा भुङ्क्ते इत्यर्थः । वैश्वानरः विश्यते ज्ञानेन प्रविश्यत इति व्युत्पत्त्या ज्ञानविषयीभूतस्थूलं विश्वशब्दोक्तं भोक्तृत्वेन तत्सम्बन्धी वैश्वः, अनाशान्नरः वैश्वश्वासौ नरश्चेति वैश्वानरः । विश्व इति यावत् प्रथमःपादःप्रथमांशः ॥ ३ ॥
स्वप्रस्थानोऽन्त: प्रज्ञः सप्ताङ्ग: एकोनविंशतिमुखः प्रविविक्तभुक् तैजसो द्वितीयः पादः ॥ ४ ॥
एवं विश्वस्य स्थानादिकं प्रतिपाद्य तैजसस्य प्रतिपादयति- स्वप्न - स्थान इत्यादिना || स्वप्नमनोरूपं स्थानं यस्यासौ तथोक्तः । अन्तःप्रज्ञः अन्तस्थितसंस्कारमयपदार्थान् प्रकर्षेण ज्ञापयतीत्यर्थः । सप्ताङ्ग एकोनविंशतिमुख इति पूर्ववद्व्याख्येयम् । प्रविविक्तभुक् जाग्रत्पदार्था- नुभवजन्यवासनोपादानकत्वेन तद्रूपत्वात्स्वप्रस्थितं वस्तु जाग्रत्पदार्थ - विलक्षणत्वात्प्रविविक्तमुच्यते । तदु तदनुभवजन्यभोगवानित्यर्थः । तैजसो द्वितीय: पादो द्वितीयोंऽशः || ४ ||
यत्र सुप्तो न कश्चन कामं कामयते न कञ्चन स्वप्नं पश्यति तत् सुषुप्तम्। सुषुप्तस्थान एकीभूतः प्रज्ञानघन एवाऽनन्दमयो ह्यानन्दभुक् चेतोमुखः प्राज्ञस्तृतीयः पादः ।। ५ ।।
एवं तैजसस्य स्थानान्युक्त्वा प्राज्ञस्यापि दर्शयितुमुत्तरो ग्रन्थः । तत्र प्राज्ञस्य सुषुप्तस्थान इति सुषुप्तं स्थानं कथ्यते । तत्सुषुप्तं स्थानं कीदृशमित्याशङ्कायां लक्षणोक्त्याऽदौ तन्निरूपयति- यत्रेति । यत्र यस्यामेवावस्थायां सुप्तः अज्ञानावृतः मन आदीन्द्रियाणां उपरतत्वा- ज्जीवस्वरूपकालाज्ञानसुषुप्त्यवस्थासुखव्यतिरिक्तं कञ्चन पदार्थं न पश्यति, कञ्चन कामं काम्यं च न कामयते, न च स्वप्नं पश्यति तत्सुषुप्तं, भावे क्तः । सुषुप्तिरिति यावत् । सुषुप्तं हृदयाकाशरूपं स्थानं यस्यासौ तथोक्तः । एकीभूतः प्रत्यहं विश्वतैजसाभ्यामेकीभावस्यापद्यमान- त्वेनैकीभूत इत्युच्यते । प्रज्ञानघन एव अत्रायाहितादिवद्घनप्रज्ञान इति विपरीतसमासः । एवकारस्य बुद्ध्या विवेकेन घनशब्देनान्वयः । तथा च घनं अज्ञानयुक्तम् उपलक्षणमेतत् । कालसुषुप्त्यवस्थासुखयुक्तं जीव- स्वरूपमेव प्रज्ञापयतीति प्रज्ञानघनः । आनन्दमयः पूर्णानन्दस्वरूपः । आनन्दभुक् विषयभोगं विनाप्यभिव्यक्तकेवलस्वरूपभूतानन्द-
भुक्त्वादानन्दभुक् । तेन विश्वतैजसयोः व्यावृत्तिः । तयोः स्थूलान्तर- विषयभोगेनानन्दोक्तेः । हीत्येतदुभयं विशेषानन्तशक्तिभ्यां उपपन्नमिति प्रसिद्धिं सूचयति । चेतोमुखः अत्र मुखशब्दः सर्वदेहोपलक्षकः । ज्ञानरूपं मुखं शरीरं यस्यासौ तथोक्तः । यद्वा मुखो मुख्यः । उत्तम इति यावत् । ‘मणिर्मुखं प्रधानं चेत्युत्तमस्य वचो भवेत्' इति वचनादुत्तमत्वं च इह पूर्णत्वमभिप्रेतम् । तथा च चेतसा ज्ञानेन मुखः पूर्ण इत्यर्थः । एतादृशः प्राज्ञः तृतीयः पादः तृतीयशः । आनन्दमयत्वं चेतोमुखत्वं च यत्प्राज्ञस्य कथितं तदितररूपत्रयेऽपि बोद्धव्यम् || ५ ||
एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्यामी । एष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम् ॥ ६ ॥
एवं विश्वादीनां त्रयाणां महिमानं निरूप्य नान्तः प्रज्ञमित्यादिना तुरीयमहिमानं पृथग्वक्तुं चतुर्णामपि महिमानं युगपदादावाह - एष इत्यादिना ॥ एष चतूरूपो भगवान् सर्वेषामीश्वरः । एषः सर्वज्ञः सर्वान्तर्यामी । एषः सर्वस्य योनिः कारणम् । एतदेव विशदयति भूतानां प्रभवाप्ययौ हि यस्मात् । चतूरूपोपेताद्धरेः सकाशाद्भवत इति ।। ६ ।।
अत्रैते श्लोका भवन्ति-प्रज्ञ विभुर्विश्वतः प्रज्ञस्तु तैजसः । घनप्रज्ञस्तथा प्राज्ञ एक एव त्रिधा स्मृतः ॥ ७ ॥ १ ॥
सलिलेश्वरः स्वोक्तंदार्ढ्याय ब्रह्मदृष्टान् मन्त्रान् प्रमाणत्वेन वक्तुं प्रतिजानीते - अत्रैत इति ।। अत्र मदुक्ते जागरितस्थान इत्याद्यर्थे । वक्ष्यमाणा ब्रह्मदृष्टा मन्त्राः । प्रमाणतया भवन्तीत्यर्थः । विश्वो बहिः प्रज्ञः तैजसोन्तःप्रज्ञः प्राज्ञः प्रज्ञानघन इत्यत्र मन्त्रं पठति - बहिरिति ॥ बहिःप्रज्ञ इत्याद्युक्तरीत्या स्पष्टार्थम् । एक एव भगवान् विश्वादिरूपेण त्रिधा बहिःप्रज्ञत्वादिप्रकारत्रयोपेतत्वेन च स्मृत इत्यर्थः ॥ ७ ॥
दक्षिणाक्षिमुखे विश्वो मनस्यन्तस्तु तैजसः ।
आकाशे च हृदि प्राज्ञस्त्रिधा देहे व्यवस्थितः ॥ ८ ॥ २ ॥
जागरितस्थानः स्वप्नस्थानः सुषुप्तस्थान इत्युक्तार्थे मन्त्रं पठति- दक्षिणेति ॥ हृदि हृदयस्थे आकाशे त्रिधा स्थानत्रयवत्त्वेन देहे व्यवस्थित इत्यर्थः || ८ ॥
विश्वो हि स्थूलभुङ् नित्यं तैजसः प्रविविक्तभुक् ।
आनन्दभुक् तथा प्राज्ञस्त्रिधा भोगं निबोधत ॥ ९ ॥ ३ ॥
स्थूलभुक्प्रविविक्तभुगानन्दभुरित्युक्तार्थे मन्त्रं पठति- विश्व इति ॥ स्थूलभुगित्याद्युक्तार्थम् । त्रिधा प्रकारत्रयेण भोगं विश्वादीनाम् ॥ ९ ॥
स्थूलं तर्पयते विश्वं प्रविविक्तं तु तैजसम् ।
आनन्दश्च तथा प्राज्ञं त्रिधा तृप्तिं विजानथ ॥ १० ॥। ४ ॥
तत्रैव मन्त्रान्तरं पठति- स्थूलमिति | स्थूलं विश्वं तर्पयते । तैजसं प्राज्ञमित्युभयत्र तर्पयत इत्यनुवर्तते । आनन्दमानन्दः । तृप्तिं विश्वादीनाम् ।। १० ।।
त्रिषु धामसु यद् भोज्यं भोक्ता यश्च प्रकीर्तितः ।
वेदैतदुभयं यस्तु स भुञ्जानो न लिप्यते ॥ ११ ॥ ५ ॥
जागरितादिस्थानेषु विश्वादिरूपो भोक्ता स्थूलादिरूपं तद्भोज्यं चेत्युभयं सर्वथा ज्ञेयमित्याशयवान् तद्वेत्तुः फलमाह - त्रिष्विति || ' तेजः स्वरूपं च गृहं प्राज्ञैर्धामेति गीयते' इत्यभिधानादत्र धामशब्दो गृहापर- पर्यायस्थानवाची । तथा च त्रिषु दक्षिणाक्षिमुखइत्यादिनोक्तेषु जागरितादिषु धामसु स्थानेषु यो भोक्ता 'विश्वो हि स्थूलभुग् ' इत्यादिना प्रकीर्तितो विश्वादिः तस्य यत् स्थूलादिकं भोज्यं 'स्थूलं तर्पयते' इत्यादिना कीर्तितं एतदुभयं यो वेद स भुञ्जानोऽभ्यवहारादिकं कुर्वाणोऽपि न लिप्यते । अहं भोक्ता ममेदं भोज्यमित्यभिमानरहितो भवति । विश्वादिरूपस्य हरेरेव भोक्तृत्वज्ञानादित्यर्थः ॥ ११ ॥
प्रभवः सर्वभावानां सतामिति विनिश्चयः ।
सर्वं जनयति प्राणश्चेतोंऽशून् पुरुषः पृथक् ॥ १२ ॥ ६ ॥
‘एष योनिः सर्वस्य' इत्यत्र मन्त्रं पठति - प्रभव इति ॥ चतूरूपो हरिरेव सर्वभावानां चेतनाचेतनपदार्थानां प्रभवः उत्पादक इति निश्चय - रूपं ज्ञानं सतामेव । असतां तु अन्यथेति भावः । एतदेव विवृणोति - तु सर्वमिति ॥ सर्वस्य प्रणेतृत्वात्प्राणः । पुरि शेतेऽसौ पुरुषो विश्वादि- चतूरूपो हरिः सर्वमचेतनं स्वरूपेण जनयति । चेतशून् ज्ञानरश्मि- युक्तान् चेतनान् जीवान् पृथग्जडवैलक्षण्येन । देहद्वारा जनयतीत्यर्थः ॥ १२
विभूतिं प्रसवं त्वन्ये मन्यन्ते सृष्टिचिन्तकाः ।
स्वप्रमायासरूपेति सृष्टिरन्यैर्विकल्पिता ॥ १३ ॥ ७ ॥
भगवान्नमृदादिवदुपादानकारणं किन्नाम ? निमित्तमेवेति जनयती- त्यनेन सूचितम् । तदेव 'इच्छामात्रं प्रभोस्सृष्टिः' इत्यनेन स्पष्टयिष्यन् आदौ वादिनां पक्षान् तेषां स्वरूपव्याक्रियैव निराक्रियेति मन्यमानोऽनुवदति-
विभूतिमित्यादिना || केचित्सृष्टिचिन्तकाः सृष्टिस्वरूपनिरूपणे दक्षत्वा- भिमानवन्तो भास्कराः । विष्णोर्या विभूतिः महदादिरूपेण विविध- भवनरूपा तामेव प्रसवं जगदुत्पत्तिमाहुः । अयं पक्षः अविकारतया श्रुत्यादिप्रसिद्धस्येश्वरस्यैवैतादृशविविधभवनाङ्गीकारे हीनत्वादिदोष- प्राप्त्याऽयुक्त इति हृदयम् । अन्यैः प्रच्छन्नबौद्धैर्मायिभिरेषा सृष्टिः ‘स्वप्नमायासरूपा’, स्वाप्नपदार्थसृष्टिसदृशी ऐन्द्रजालिकमायासदृशी वा न यथार्थेति विकल्पिता निश्चितेत्यर्थः । अयमपि पक्षः 'पूर्णशक्तेः कुतो माया सार्वज्ञात्स्वप्नवत्कुतः’ । ‘याथातथ्यतोऽर्थान् व्यदधात्' (ईश. मं. ८) ‘अक्षमाः सत्यसृष्टौ हि माया सृष्टिं वितन्वते । अनन्ताचिन्त्यविभवः कथन्तामीहते हरिः' (भाग. ता. १.१.१ ) 'वैधर्म्याच्च न स्वप्नादिवत् ' (ब्र.सू. १.२.२९) इत्यादिश्रुतिस्मृतिसूत्रविरुद्धत्वादुपेक्ष्यः ।। १३ ।।
इच्छामात्रं प्रभोः सृष्टिरिति सृष्टौ विनिश्चिताः ।
कालात् प्रसूतिं भूतानां मन्यन्ते कालचिन्तकाः ॥१४ ॥ ८ ॥
सिद्धान्तं निरूपयति- इच्छेति ॥ प्रभोः अविकरिणो मायातीतस्य हरेः सकाशाद्या सृष्टिः अखिलस्यापि जगतः सा इच्छामात्रं इच्छामात्राधीनेति सृष्टिविषये यथार्थनिश्चयवन्तो ब्रह्मादयः प्राहुः । अनेन ब्रह्मणो जगज्जन्मादिकर्तृत्वमेव सिद्धान्त इत्युक्तं भवति । एवं सिद्धान्तज्ञानकातरं प्रति पूर्वपक्षमध्ये सिद्धान्तमभिधाय पुनः पूर्वपक्षान्निरूपयति- कालादित्यादिना ।। कालस्यैव सर्वोत्तमत्व- ध्यातारो भूतानां कालादेवोत्पत्तिं मन्यन्ते । उपलक्षणमेतत् । रुद्रचिन्तकाः ब्रह्मचिन्तकाः प्रधानचिन्तकाः भूतानां प्रसूतिं रुद्रादेरेव मन्यन्त इत्यपि द्रष्टव्यम् । एते पक्षा अयुक्ता एव, कालप्रधानयोर्जडत्वेन कतृत्वायोगात् । रुद्रस्य ' पत्युरसामञ्जस्यात्' (ब्र.सू. २.२.३७) इत्युक्तन्यायेन दोषित्वावगमात् । ब्रह्मणोऽपि 'एको नारायण आसीन्न ब्रह्मा' इत्यादिना प्रलयेऽभावावगमेन जगत्कतृत्वायोगेन ते वादिनो मूढा इति द्रष्टव्यम् । अतो नारायण एव सर्वकर्तेति पक्षः श्रेयानित्याशयः ॥१४ ॥
भोगार्थं सृष्टिरित्यन्ये क्रीडार्त्यमिति चापरे ।
देवस्यैषः स्वभावोऽयमाप्तकामस्य का स्पृहेति ॥ १५ ॥ ९ ॥
ननु भगवतः इच्छामात्रेणैव यत्स्रष्टृत्वमुक्तं तदयुक्तम् । प्रयोजना- पेक्षया स्रष्टृत्वेऽपूर्णत्वापत्तेः । तदनपेक्षया स्रष्टृत्वे मूर्खत्वापत्तेरित्य - तोऽत्रापि सिद्धान्तं विबक्षुः, पूर्वपक्षावाह - भोगार्थमिति || अतृप्तस्यैव विष्णोर्भोगार्थं, भोगाख्यप्रयोजनाय सृष्टिरित्यन्ये प्राहुः । प्रलये सर्व- जगदभावेनैकस्यैव सतः ईश्वरस्यालस्यप्राप्तेस्तत्परिहाराय क्रीडार्थं सृष्टि- रित्यपरे रामानुजाः मन्यन्त इत्यर्थः । क्रीडायाः आलस्यपरिहारार्थतायाः प्रसिद्धेरिति भावः । तत्रापि सिद्धान्तमाह- देवस्येति || देवस्यैषोऽयं जतत्सर्जनादिरूपोव्यापारः क्रीडारूपत्वात्स्वभाव एव न तेन प्रयोजना- पेक्षेति भावः । यथोक्तं ‘लोकवत्तु लीलाकैवल्यम्' इति । ननु भोगार्थं क्रीडार्थं वा सृष्टिः कस्मान्न स्यादित्यत आह- आप्तकामस्येति । आप्तकामस्य पूर्णकामस्य हरेः अतृप्तिप्रयुक्ता भोगार्थं स्पृहा आलस्य- परिहारार्थं वा जातक्रीडार्थं च स्पृहा इच्छा का ? न कापीत्यर्थः । तथा च भगवत्सृष्टेः स्वप्रयोजनाभावेऽपि परप्रयोजनापेक्षत्वमस्त्येवेति भावः । यथोक्तं 'सोऽयं विहार इह मे तनुभृत्स्वभावसम्भूतये भवति' (म.ता.नि. १.५) इति । व्याख्यातं चैतद्वाक्यं सुधायाम्- 'तदनेन पारमेश्वरी सृष्टिर्योग्यानां स्वगुणज्ञापनार्थेत्युक्तं भवति' इति ॥ १५ ॥
|| इति माण्डूकखण्डार्थे प्रथमः खण्डः ।।