भोगार्थं सृष्टिरित्यन्ये क्रीडार्थमिति चापरे
उपनिषत्
(निरपेक्ष एव विष्णुः सृष्टिं विधास्यति )
भोगार्थं सृष्टिरित्यन्ये क्रीडार्थमिति चापरे ।
देवस्यैषः स्वभावोऽयमाप्तकामस्य का स्पृहेति ॥ १५ ॥ ९ ॥ ॥ इति प्रथमः खण्डः ॥
भाष्यम्
तस्यापि विष्णोः सृष्टिं तु केचिदाहुरनैपुणाः ।
अतृप्तस्यैव भोगार्थं क्रीडार्थं तु विपश्चितः ।
सा च क्रीडा स्वभावोऽस्य कुतोऽतृप्त्या स्पृहा विभोः ॥ '
इति हरिवंशेषु ॥
श्रीव्यासतीर्थविरचिताटीका
खण्डार्थः-
भगवान् जगत्कारणं सन्निमित्तकारणमिति निरूपयिष्यंस्तेषां स्वरूप- निरूपणेनैव दुष्टत्वं मन्वानः पूर्वपक्षान्निरूपयति विभूतिमिति ॥ महदादित्वेन ब्रह्मादित्वेन च विविधभवनमिति यावत् ॥ १३ ॥
भाष्यार्थः-
विभूतिं प्रसवमित्यादिना बहुधा सृष्टिर्निरूपिता । तत्र कः स्वपक्ष इति न ज्ञायतेऽतो विवेचयंस्तद्वाक्यजातं सर्वं व्याचष्टे - तामित्यादिना ॥ बहुधेत्युक्तमेव विशदयति- विष्णुरिति ॥ १३ ॥
खण्डार्थः-
सिद्धान्तं निरूपयति- इच्छेति ॥ इच्छामात्रं सृष्टिरिति सामानाधि- करण्येनाऽनायासेनाऽविलम्बेन सृष्टिर्भवतीति सूचयति । सिद्धान्तज्ञान- कातरं प्रति सिद्धान्तं निरूप्य पुनरपि पूर्वपक्षं निरूपयति-कालादिति ॥ कालचिन्तका आभासतः कालविदः || १४ |
भाष्यार्थ: -
ननु भगवतश्चिन्मात्रस्वेच्छया जगदुत्पद्यत इत्युक्तं निमित्तकारणत्वं चेत्पक्षः तर्हि तदितरपक्षाणां किं दूषणमित्यत आह- पूर्णशक्तेरिति ॥ तत्त्वप्रदर्शने अशक्तस्य हि तत्प्रदर्शने मायोपादेया । अपूर्णशक्तेः कुतो माया ? अज्ञानां हि स्वप्नोऽस्तु, अस्य तु सार्वज्ञात्सर्वपदार्थज्ञानभावात् अज्ञानाऽभावात्तत्सृष्टा सृष्टिः कुतो मायावत्स्वप्नवच्च । तस्मान्मायादि- पक्षाणां दुष्टत्वात् । कालात्प्रसूतिमिति वाक्यं व्याकुर्वन्स्तदुपलक्षित- पक्षांश्चाह- केचिदिति ।। सर्वकर्तृत्वं कुत इत्यत उक्तम्- सर्वशक्तिरिति ।।प्रधानादेर्जगत्कर्तृत्वाभावः कुत इत्यत आह प्रधानेति ॥ तद्वशत्वं च प्रधानादेर्द्रव्यं कर्मचेत्यादिना सिद्धमिति भावः ॥ १४ ॥
खण्डार्थः -
भगवतो जगत्सृष्टौ प्रयोजनसदसद्भावजिज्ञासायां सिद्धान्तं विवक्षुः पूर्वपक्षावाह - भोगेति ॥ प्रलये सर्वाभावाद् भोगाभावेनालस्येन च भोगार्थं क्रीडार्थं च सृष्टिरिति मन्यन्ते । क्रीडा च भवन्ती स्वभाव एवेति सिद्धान्तमाह- देवस्येति ॥ १५ ॥
॥ इति श्रीमाण्डूकभाष्यटीकायां व्यासतीर्थमुनिविरचितायां, खण्डार्थे च प्रथमः खण्डः ॥
श्रीवादिराजीयाप्रकाशिका
प्रभवः सर्वभावानामिति प्रस्तावितस्वाभिमतसृष्टिं विविच्य दर्शयितुं पूर्वपक्षानाह - विभूतिमित्यादिना ॥ विभूतिं विविधप्रपञ्चाकारेण भवनं, महदादिजगदुपादानत्वमिति यावत् । अन्ये तत्त्वप्रमातुर्मत्तोऽन्ये । मन्त्रद्रष्टृ- ब्रह्मणः यदि स्वाभिमतेयं सृष्टिः स्यात्तर्हि मन्य इति ब्रूयान्न त्वन्य इति । ततो ज्ञायते पूर्वपक्षोऽयमिति । एवमुत्तरवाक्येऽपि द्रष्टव्यम् । विकल्पितेति विरुद्धतया स्वकपोलादेव कल्पितत्वस्य विकल्पपदमहिम्नैव लाभाच्च पूर्वपक्षत्वं ज्ञायते । अतो मायावाद्युक्तं ब्रह्मणो जगदुपादानत्वं जगतो मिथ्यात्वं च पूर्वपक्ष एवेति प्राग्भवे मध्वरूपस्य मन्त्रद्रष्टृब्रह्मणो हृदयम् । अनायासेन स्वतन्त्रसाधनान्तरं विना, स्वसंकल्पोत्तरकाले स्वेच्छयैव जगत्सृष्टिकरणादिच्छामात्रमित्युक्तम् । अस्ति ह्यतिसमर्थकार्वादिभिः लीलयैव कृतप्रासादादिषु अस्येयं लीलैवेत्यादिकार्यकारणयोरभेदव्यपदेशः तथाऽत्रापि । कथमन्यथा बाह्यजगन्निष्ठसृष्टिरूपोत्पत्तेरन्तःकरणतया प्रागेव विद्यमानभगवदिच्छया सहैक्यम् ? सृष्टौ विनिश्चिताः विशेषेण निश्चितं निश्चयो येषां ते इति विनिश्चितपदेनैव सिद्धान्तत्वं सूचितम् । क्रीडार्थं त्वित्येतत्पर्यन्तं पूर्वपक्ष एव । श्रुतौ भोगार्थं क्रीडार्थम् । द्वयोरपि पूर्वपक्ष- तयोक्तत्वात् कः सिद्धान्तः इत्यत आह- स्वभाव इति ॥ ' सा च क्रीडा स्वभावोऽस्य' इति वदतः क्रीडार्थं न सृष्टिः, किं तु क्रीडाऽप्युन्मत्तनर्तनवत् स्वभाव एवेत्यभिसन्धिः | अत एव श्रुतिः 'स्वभावोऽयम्' इत्याह । यथा वसन्तकाले कोकिलगानस्य न राजादिरञ्जनं फलं, नापि स्वस्यापूर्व- सुखोत्पत्तिः फलम् । कण्ठशोषणरूपत्वात् । किन्तु चूतांकुरास्वादन- जनितसुखोद्रेकेणैव । तथा भगवतोऽपि क्रीडाऽपि स्वाभाविक्येवेति भावः । इयांस्तु विशेष:, कोकिलस्य कण्ठशोषणेनेषदायासोऽपि सम्भावितः । भगवति तु सोऽपि नास्तीति । अत एव 'देवस्य' इत्युक्तम् | मोदेनैव हि दीव्यन् हि ‘देव:' इत्युच्यते । तदुक्तं सूत्रकृता- 'लोकवत्तु लीलाकैवल्यम्’ इति । सूत्रे तुशब्देन लोकवदायासाऽभावं भगवति विशिनष्टि । दृश्यन्ते हि मोदाऽभावेऽपि स्वभावादेव वायोः पवनम् । जडत्वात्तस्य मोदो न चेदाप्तकामत्वाद्भगवतोऽपि सुतरां स नास्ति । अत एव 'आप्तकामस्य' इत्याह श्रुतिः ।। १३-१५ ॥
श्रीनिवासतीर्थविरचितापदार्थदीपिका
‘सर्वं जनयति' इत्युक्तं विष्णोर्जगदुत्पत्तिनिमित्तकारणत्वमेव स्पष्टयन् वादिनां पूर्वपक्षाननुवदितुं 'विभूतिं प्रसवम्' इत्यादिको ग्रन्थः प्रवृत्तः । तत्र विभूतिं प्रसवमित्येतद्व्याचष्टे - विष्णुरिति ॥ तत्तद्विविधभूतिः, तत्तत्पदार्थाकारेण विविधभवनम् । अपण्डितैः भास्करैः । ‘स्वप्नमायासरूप’ इत्येतद् व्याचष्टे- स्वप्नेति । स्वप्नसरूपां स्वप्नसृष्टिसरूपाम् । मायासरूपां ऐन्द्रजालविद्याम् अज्ञाः जनाः मायिनः । 'अनादिकालतोवृत्ताः समया हि प्रवाहत:' इत्युक्तत्वान्नात्र कश्चित्क्षुद्रोपद्रवः ।
एवं पूर्वपक्षद्वयमभिधाय सिद्धान्तज्ञानकातरं प्रति सिद्धान्तं निरूपयितुं प्रवृत्तमिच्छामात्रमित्यर्धर्चं व्याचष्टे - अविकारस्येति । हरेरिति शेषः । पूर्वपक्षस्वरूपव्याक्रियैव निराक्रियेत्याशयेन पूर्वपक्षानुवादमात्रस्यैव कृत- त्वात्तदभिप्रेतं दूषणं दर्शयति पूर्णशक्तेरिति ॥ 'अक्षमाः सत्यसृष्टौ हि मायासृष्टिं वितन्वते । अनन्ताचिन्त्यविभवः कथं तामीहते हरिः' (भाग.ता.) इति वचनादित्यर्थः । सार्वज्ञादिति ॥ स्वप्नस्याज्ञानकार्यत्वाद् भगवतश्च सार्वज्ञान स्वप्रवत्सृष्टिः । इदञ्च दूषणं स्वप्नमायासरूपेत्यनूदित - मायिपक्षस्येति द्रष्टव्यम् । विभूतिं प्रसवमित्युक्तभास्करपक्षं दूषयति- सर्वदोषेति ।। भगवत एव महदाद्याकारेण परिणामाङ्गीकारे शुनकगर्दभादि- पदार्थाकारेणापि विकारप्राप्त्या दूषणापत्तेरिति भावः । एवं पूर्वपक्षद्वये दूषणमभिधाय प्रतिपादितस्य स्वपक्षस्य प्रामाणिकत्वं वदन्नुपसम्हरति- तस्मादिति ॥ वेदवचः ‘कविर्मनीषी परिभूः स्वयम्भूर्याथातथ्यतोऽर्थान् व्यदधाच्छाश्वतीभ्यःसमाभ्यः' (ईश. मं. ८) इत्यादिवेदवचः । एवं सिद्धान्तज्ञानकातरं प्रति सिद्धान्तं निरूप्य पुनः पूर्वपक्षं प्रतिपादयितुं प्रवृत्तं कालात्प्रसूतिमिति वाक्यं व्याकुर्वन् तदभिप्रेतपूर्वपक्षान्तराण्यपि दर्शयति- केचिदित्यादिना ॥ मिथ्याज्ञानमूलत्वादेतानि मतान्यग्राह्माणीत्या- शयेनाह - विमूढा इति ॥ यत एते सर्वेऽपि वादिनो विमूढाः मोहवन्तोऽ- तस्तन्मतानि मिथ्याज्ञानमूलकानीत्याशयः । कुतस्ते विमूढा इत्यत आह- यत इति ॥ प्रधानादीनामस्वातन्त्र्यान्न जगत्कारणत्वमित्याशयेनाह- प्रधानेति ।। प्रधानादेः ‘द्रव्यं कर्म च कालश्च' (ब्र.सू. अनु. १.१.१ श्लो. १३) इत्यादिना नारायणवशत्वं प्रमितमिति भावः ।
ननु भगवत इच्छापूर्वकं स्रष्टृत्वमुक्तं, तदयुक्तम् । प्रयोजनापेक्षया स्रष्टृत्वेऽपूर्णत्वापत्तेस्तदनपेक्षया स्रष्टृत्वे मन्दत्वापत्तेरित्याशङ्कायां सिद्धान्तं विवक्षुरत्रापि पूर्वपक्षं वक्तुं भोगार्थं सृष्टिरित्यादिवाक्यं प्रवृत्तम् । तद्व्याचष्टे-
तस्यापीति || अविद्यमाननैपुणाः केचिद्वादिनो विष्णोः सृष्टिं विष्णुकर्तृकां सृष्टिमतृप्तस्यैव विष्णोर्भोगार्थमाहुरित्यन्वयः । केचिद्रामानुजाः । प्रलये एकस्यैव विष्णोः सत्वेन तस्याप्यालस्यप्राप्त्या तत्परिहाराय क्रीडार्थं सृष्टिमाहुः । क्रीडायाः आलस्यपरिहारार्थतायाः लोके दर्शनादिति योज्यम् । एवं पूर्वपक्षावभिधाय ' लोकवत्तु लीलाकैवल्यम्' इति सिद्धान्तं वक्तुं 'देवस्यैषः स्वभावोऽयम्' इति वाक्यं प्रवृत्तम् । तद्व्याचष्टे तु विपश्चित इति ।। विपश्चितस्त्विति सम्बन्धः । आहुरिति वर्तते । एषोऽयमित्यस्यार्थः- सा च क्रीडेति । जगत्सर्जनादिरूपा क्रीडा व्यापार इत्यर्थः । भोगार्थं क्रीडार्थं सृष्टिरिति मतद्वयनिराकरणाय प्रवृत्तस्याप्तकामस्य का स्पृहेत्यस्यार्थः - कुत इति । विभोरतृप्त्याऽजातभोगार्थं स्पृहा । आलस्यपरिहारार्थं जातक्रीडार्थं वा कुतः । न कुतोऽपीत्यर्थः । ॥ १३-१५ ॥
॥ इति श्रीमाण्डूकभाष्यार्थे प्रथमः खण्डः ॥