यत्र सुप्तो न कञ्चन कामं ..
उपनिषत्
(सुषुप्तौ सुखदः प्राज्ञः)
यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति तत् सुषुप्तम् । सुषुप्तस्थान एकीभूतः प्रज्ञानघन एवाऽनन्दमयो ह्यानन्दभुक् चेतोमुखः प्राज्ञस्तृतीयः पादः ।। ५ ।।
भाष्यम्
सुषुप्तं तु तमो ज्ञेयं हरिं प्राप्य तदावृतः ।
न कामयेन्नैव पश्येज्जीवः स्वात्मतमो विना ॥
कालं च तस्य स्थानस्य पतिः प्राज्ञो हरिः स्वयम् ।
चित्तस्थो दर्शयेद् यस्मात् तैजसः स्वप्रकृद्धरिः ॥
न बाह्यं ज्ञापयेद् यस्मात् प्राज्ञस्तेन जनार्दनः ।
एकीभावं व्रजेतां च तेन विश्वश्व तैजसः ॥
एकीभूतस्त्वतः प्राज्ञो घनो जीवस्तमोवृतः ।
तन्मात्रस्य सकालस्य घनप्रज्ञः प्रदर्शनात् ॥'
इति प्रकाशिकायाम् ॥
आनन्दमयः पूर्णानन्दः । चेतोमुखः ज्ञानस्वरूपमुखः । प्रज्ञानघनत विपरीतसमासः । घनप्रज्ञ इति वक्ष्यमाणत्वात् । विषयभोगं विनाऽनन्द- मात्र भुक्त्वादानन्दभुगिति विशेषः ॥ आनन्दमयत्वचेतोमुखत्व- सर्वज्ञत्वसर्वेश्वरत्वादि चतुष्टयेऽपि समम् । अन्यत्रातिदेशार्थमेकत्राऽनन्दमयत्वं तोमुखत्वं चोक्तम् ॥ ५ ॥
उपनिषत्
एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्यामी । एष योनिः सर्वस्य
प्रभवाप्ययौ हि भूतानाम् ॥ ६ ॥
भाष्यम्
एष चतूरूप आत्मा सर्वज्ञत्वसर्वेश्वरत्वादिलक्षणः-
'परमात्मा चतूरूपः सर्वप्राणिशरीरगः ।
विश्वश्च तैजसः प्राज्ञस्तुरीयश्चेति कथ्यते ॥
तानि रूपाणि सर्वाणि पूर्णानन्दमयानि तु ।
तोमुखानि सर्वाणि पूर्णज्ञानस्वरूपतः ॥
मुखशब्दस्तु सर्वस्य देहस्याप्युपलक्षणः ।
तथाऽपि मुखशब्दोऽयं पूर्णत्वं सूचयेद् विभोः ।
ज्ञानस्य मुख्यवाचित्वान्मुखवाच्यपि सन् स्वतः || '
इति मार्कण्डेये ॥
'पूर्णानन्दस्वरूपस्य क्रीडा भोगो नचान्यथा ।
यथाssदित्यस्य दीपेन न विशेषोऽस्ति कश्चन ॥ '
इति ब्रह्मतर्के ।। ६ ।।