ओमित्येतदक्षरम्
माण्डूकोपनिषद्भाष्यम्
हरि: ओम्
॥ श्रीमद्धनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मकलक्ष्मीहयग्रीवाय नमः ।।
उपनिषत्
(प्रणवप्रतिपाद्यं ब्रह्म)
ओ३म् ॥ ओमित्येतदक्षरम् । इदं सर्वम् । तस्योपव्याख्यानं भूतं भवद् भविष्यदिति । सर्वमोङ्कार एव । यच्चान्यत् त्रिकालातीतं तदप्योङ्कार एव ॥ १ ॥
भाष्यम्
ॐ॥ पूर्णानन्दज्ञानशक्तिस्वरूपं नित्यमव्ययम् ।
चतुर्द्धा सर्वभोक्तारं वन्दे विष्णुं परं पदम् ।।
मण्डूकरूपिणा वरुणेन चतूरूपो नारायणः स्तूयते ।
'ध्यायन्नारायणं देवं प्रणवेन समाहितः ।
मण्डूकरूपी वरुणस्तुष्टाव हरिमव्ययम्' इति पाझे ॥
'ओमित्युक्तं तु यद् ब्रह्म तदक्षरमुदाहृतम् ।
ओतमत्र जगद् यस्मादों तस्माद् भगवान् हरिः ॥
' तदिदं गुणपूर्त्यैव सर्वमित्येव शब्दितम् ।
भाविभूतभवत्कालेष्वेकरूपतया हरिः ।
सर्वदा नित्य इत्येषा व्याख्योङ्कारस्य कीर्त्तिता ॥ '
इति बृहत्संहितायाम् ॥
'ओमित्याक्रियते यस्मादोङ्कारोऽसावतः परः ।
सर्वत्वमिति पूर्णत्वं तन्नान्यस्य हरेः क्वचित् ॥'
इति नैर्गुण्ये ॥
सर्वमोङ्कार एवेत्यन्यस्य पूर्णत्वनिवारणम् । त्रिकालातीतत्वं च तस्यैव । प्रकृतेरपि त्रिकालातीतत्वं विद्यत इति अन्यदिति विशेषणम् ॥