कार्यकारणबद्धौ ताविष्येते विश्वतैजसौ
- उपनिषत्
- (विश्व-तैजस-प्राज्ञ-तुर्यस्वरूपम्)
- कार्यकारणबद्धौ ताविष्येते विश्वतैजसौ ।
- प्राज्ञः कारणबद्धस्तु द्वौ तु तुर्ये न सिद्ध्यतः ॥ ३ ॥ २ ॥
- भाष्यम्
नाऽत्मानं न परांश्चैव न सत्यं नापि चानृतम्
द्वैतस्याग्रहणं तुल्यमुभयोः प्राज्ञतुर्ययोः
स्वप्ननिद्रायुतावाद्यौ प्राज्ञस्त्वस्वप्ननिद्रया
कार्यकारणबद्धौ ताविष्येते विश्वतैजसौ
उपनिषत्
(विश्व-तैजस-प्राज्ञ-तुर्यस्वरूपम्)
कार्यकारणबद्धौ ताविष्येते विश्वतैजसौ ।
प्राज्ञः कारणबद्धस्तु द्वौ तु तुर्ये न सिद्ध्यतः ॥ ३ ॥ २ ॥
भाष्यम्
‘कार्यकारणबन्धस्य तदधीनत्वतो विभुः ।
विश्वादिरूपो भगवान् बद्ध इत्युच्यते श्रुतौ ।
कुतो बन्धः परस्यास्य बन्धेशस्य चिदात्मनः' इति च ॥
स बद्धः स दुःखी स बन्धयति स दुःखयतीति । स जीवः स प्रकृति: स जीवयति स प्रकरोतीति । सोऽवरः सोऽनित्यः सोऽवरयति सोऽनित्ययति' इति कौषारवश्रुतिः ॥
'विष्णोर्गुणोक्तिपरता मम नित्यं सुरेश्वराः ।
तदर्थमन्यद् वचनमतस्तस्य विरोधि यत् ।।
तन्ममार्थो न हि कापि साऽहं तत्सरणात् सदा ।
सरस्वतीति सम्प्रोक्ता तस्माज्ज्ञेया गुणा हरेः ।। ' इति महोपनिषदि ॥