अमात्रश्चतुर्थोऽव्यवहार्यः प्रपञ्चोपशमः शिवोऽद्वैत:
नान्त: प्रज्ञमित्यादिनोक्ततुरीयगुणानुवादपूर्वं तुरीयस्य नादप्रतिपाद्यत्व- माह - आमात्र इति ॥
चतुर्थः खण्डः
अमात्रश्चतुर्थोऽव्यवहार्यः प्रपञ्चोपशमः शिवोऽद्वैत:
ओंकार आत्मैव संविशत्यात्मनाऽऽत्मानं य एवं वेद ॥ १ ॥
अमात्रोऽव्यवहार्य : प्रपञ्चोपशमः शिवोऽद्वैतश्चतुर्थ इत्यनुवादः । ओङ्कारः प्रणवैकदेश-नादप्रतिपाद्य इति नादप्रतिपाद्यत्वं विधेयम् । अमात्र इत्यादिपदानां प्रागुक्तरीत्याऽर्थो ध्येयः । अदृष्टमव्यवहार्यमित्यादिना प्रागुक्तस्याव्यवहार्यत्वादेः पुनरत्रानुवादोऽव्यवहार्यत्वादिकमुपासकेऽपि समं मुक्तावपीति दर्शयितुमिति ज्ञेयम् । नादप्रतिपाद्यत्वेन तुरीयोपासकस्य फलमाह - आत्मेति ॥ योऽधिकारी एवममात्रत्वाव्यवहार्यत्वादिना ओङ्कारमोङ्कारैकदेशनादप्रतिपाद्यं वेद जानाति, स आत्मैव, शुद्धात्मैव सन् देहगेहादावन्यत्र ममताद्यभिमानत्यागी भूत्वेति यावत् । आत्मना परमात्मना, तत्प्रसादेनेति यावत् । आत्मानं नादबोध्यं तरीयात्मानं संविशति प्रविशति । प्रविश्य च बहिरन्तः स्वेच्छया स्वयोग्यभोगान् भुञ्जानः सुखमास्त इति भावः ||१||
प्रणवावयवाकारादिप्रतिपाद्यभगवद्रूपज्ञानमन्यस्मरणत्यागेन सम्पाद्य - मित्यत्र मन्त्रान् ब्रह्मदृष्टानाह - अत्रैत इति ॥
अत्रैते श्लोका भवन्ति ।
ओङ्कारं पादशो विद्यात् पादा मात्रा न संशयः ।
ओङ्कारं पादशो ज्ञात्वा न किञ्चिदपि चिन्तयेत् ॥ २ ॥
अत्रेत्युक्तार्थम् । ओङ्कारमोमित्याक्रियमाणमात्मानं समग्रप्रणवप्रतिपाद्यं पादशः पादैः पद्यन्ते प्राप्यन्ते स्वोपासकैरिति पादैर्विश्वाद्यशैर्विद्यात् विश्वादिचतूरूपात्मना जानीयात् । पादाः किंरूपा इत्यत आह- पादा मात्रा इति ॥ प्रणवांशभूताकारादिप्रतिपाद्या इत्यर्थः । ओङ्कारं प्रणववाच्यं पादशः चतूरूपतया ज्ञात्वा किञ्चिदपि न चिन्तयेत् । इतरचिन्तया जायमानफलस्य ततोऽधिकफलस्य चैतज्ज्ञानादेव सिद्धेरिति भावः ॥२॥ संसारभयं तितीर्षुणा ओङ्कारो भगवान् सर्वथा ध्येय इत्यत्र श्लोकं पठति- युञ्जीतेति ॥
युञ्जीत प्रणवे चेतः प्रणवो ब्रह्म निर्भयम् ।
प्रणवे नित्ययुक्तस्य न भयं विद्यते कचित् ॥ ३ ॥
प्रणवे हरौ चेतो मनः युञ्जीत तद्विषयं कार्यम् । कीदृश: प्रणव इत्यत आह- प्रणवो ब्रह्मेति ।। गुणैर्बृंहणात् पूर्णत्वात् विश्वादिरूपचतुष्टयात्मकः प्रणव: निर्भयम् । ब्रह्म गुणपूर्ण इति, विश्वादिचतूरूपो हरिर्जाप्रदाद्य-वस्थाप्रणयनात् प्रणव इत्युच्यते । प्रपूर्वान्नयतेरच्प्रत्यये ( धात्विकार- स्योकारादेशे ) धातोर्नुशब्दादेशे गुणावादेशणत्वेषु प्रणव इति सिद्धेः । फलमाह - प्रणवे नित्ययुक्तस्येति ॥ नित्यं ध्यायिन इत्यर्थः । कचित् केनापि निमित्तेनेत्यर्थः । फलसाम्यार्थमेव प्राङ् निर्भयमिति विशेषणोक्तिः || 3 ||
विश्वादिरूपाणामन्योन्यं मूलरूपेण च न गुणतारतम्यमित्याह- प्रणवो हीति ।
प्रणवो ह्यपरं ब्रह्म प्रणवश्च परं स्मृतः ।
अपूर्वोऽनन्तरोऽबाह्योऽनपरः प्रणवोऽव्ययः ॥ ४ ॥
अपरमपरः पूर्वतनो मूलरूपपूर्वावतारात्मा प्रणवो हरिः ब्रह्म पूर्णः । हि प्रसिद्धमेतत् । ‘सर्वेषु भूतेष्वेतमेव ब्रह्मेत्याचक्षते' इत्यादाविति भावः। परं पश्चात्तनो विश्वाद्यवताररूपः प्रणवो हरिश्च ब्रह्म पूर्ण इत्याकर्ष:, स्मृतः श्लोकद्रष्ट्रा ब्रह्मणेति योज्यम् । पूर्वावतारे पश्चिमावतारे च पूर्णतैव, न क्वचिदपि न्यूनतेति भावः । तथा च सूत्रं 'न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि' (ब्र.सू.३-२-११) इति । प्रणवो ब्रह्मेत्युक्तं पूणर्वं व्यनक्ति- अपूर्व इति ॥ न विद्यते पूर्वं कारणं यस्य सोऽपूर्वः प्रणवः कारणहीनः । नाशाभावादनन्तर: । अन्तशब्दपर्यायोऽत्रान्तरशब्दः । सर्वगतत्वादबाह्यः। पराधीनस्थित्यभावादनपरः । अव्ययः शश्वदेकप्रकार: प्रणवो हरिः ||४|| सर्वस्यादिः ३: कारणम्, मध्यं स्थितिकर्ता, तथाऽन्तः नाशकश्च, एवेति निश्चयमाह । ज्ञानिनः फलमाह - एवं हीति ॥
सर्वस्य प्रणवो ह्यादिर्मध्यमन्तस्तथैव च ।
एवं हि प्रणवं ज्ञात्वा व्यश्नुते तदनन्तरम् ॥ ५ ॥
एवं ब्रह्मत्वादिना प्रकारेण प्रणवं हरिं ज्ञात्वा तदनन्तरं प्रारब्धभोगानन्तरं तद् ब्रह्म व्यश्नुते विशेषेण प्राप्नोति । तत्प्राप्तेः सदा सत्त्वेऽपि स्थानादि- विशेषाभिप्रायेण बीत्युक्तिः ।। ५ ।।
प्रणवस्य हरेर्महिमान्तरमाह - प्रणवं हीति ॥
प्रणवं हीश्वरं विद्यात् सर्वस्य हृदये स्थितम् ।
सर्वव्यापिनमोङ्कारं मत्वा धीरो न शोचति ॥ ६ ॥
ईश्वरं सर्वनियामकं ओङ्कारं ओमित्याक्रियमाणं मत्वा न शोचति, मुक्तो भवतीत्यर्थः ।। ६ ।।
एवमुक्तां समस्तव्यस्तप्रणवाभिधेयभगवदुपासनामनुवदन्तज्ज्ञानिनः स्तवेनोपसंहरति- अमात्र इति ॥
अमात्रोऽनन्तमात्रश्च द्वैतस्योपशमश्शिवः ।
ओङ्कारो विदितो येन स मुनिर्नेतरो जनः ।
स मुनिर्नेतरो जन इति ॥ ७ ॥
॥ इति चतुर्थः खण्डः ॥
॥ इति श्रीमाण्डूकोपनिषत्समाप्ता ॥
अमात्रः भिन्नांशहीनोऽनन्तमात्रो विश्वाद्यनन्तांशो द्वैतस्योपशमः सर्वानिष्टनिवर्तकः । शिवो निर्दुःखसुखरूपः । ओङ्कार ओमित्याक्रियमाणो येन विदितो ज्ञातः स मुनिर्मननशीलो नेतर इति द्विरुक्तिरुक्तसर्व- प्रमेयावधारणार्था ।। ७ ॥
|| इति चतुर्थः खण्डः ||
प्रणवप्रतिपाद्याय चतुर्मूर्तिस्वरूपिणे ।
नमः श्रीप्राणनाथाय भक्ताभीष्टप्रदायिने ॥
इति माण्डूकोपनिषदर्थानां सङ्ग्रहोत्र यः ।
राघवेन्द्रकृतस्तेन प्रीयतां कमलापतिः ॥
॥ इति श्री राघवेन्द्रयतिविरचित माण्डूकोपनिषत्खण्डार्थः सम्पूर्णः ॥
॥ श्रीकृष्णार्पणमस्तु ॥