अमात्रश्चतुर्थोऽव्यवहार्यः प्रपञ्चोपशमः ..
॥ अथ चतुर्थ खण्डः ॥
उपनिषत्
(तुरीयोपासकस्य फलम्)
अमात्रश्चतुर्थोऽव्यवहार्यः प्रपञ्चोपशमः शिवोऽद्वैत:
ओङ्कार आत्मैव संविशत्यात्मनाऽत्मानं य एवं वेद ॥ १ ॥
भाष्यम्
आत्मैव भूत्वाऽन्याभिमानं त्यक्त्वा परमात्मनैव परमात्मानं प्रविशत्यु- पासकः । अव्यवहार्यत्वादिकमत्र साम्यमिति दर्शयितुं पुनरप्युक्त- मव्यवहार्यत्वादिकम् ।
श्रीव्यासतीर्थविरचिताटीका
खण्डार्थः -
तुरीयस्य 'नान्तः प्रज्ञम्' इत्याद्युक्तं तदनुवादेनावधारयन् नादप्रति- पाद्यत्वमाह - अमात्र इति ॥ ओंकारः प्रणवैकदेशनादप्रतिपाद्य इत्यर्थः । नादप्रतिपाद्यत्वेन तुरीयोपासकस्य फलमाह - आत्मेति ॥ १ ॥
भाष्यार्थः -
'आत्मैव संविशति' इत्यादिवाक्यमप्रतीतेर्व्याचष्टे - आत्मैवेति ॥ 'अदृष्टमव्यवहार्यम्' इत्यादिना पूर्वमेवाव्यवहार्यत्वादेरुक्तत्वात् पुनश्चतुर्थोऽव्यवहार्य इत्याद्युक्तिर्व्यर्थेति शङ्कां प्रयोजनोक्त्या परिहरति- अव्यवहार्यत्वादिकमिति ॥ अत्रोपासके अद्वैत ओंकार इत्यत्र तुरीयस्य समग्रप्रणवप्रतिपाद्यत्वप्रतीतिं निवारयंस्तदुपासकस्यात्मैव संविशत्या - त्मनाऽऽत्मानमित्युक्तं तत्प्रवेशं प्रमाणेन दृढयति - तुरीयमिति ।। तत्सदृशात्म- वानित्युक्तं तत्सादृश्यं सर्वप्रकारेणेति प्रतीतिं निवारयन्नाह - ज्ञानेति ॥ १ ॥
श्रीवादिराजीयाप्रकाशिका
य एवं वेद सोऽपि सांसारिकव्यवहारागोचरः सन्देहाभिमाननिमित्तक- प्रपञ्चोपशमवान् शिवः शोभनः अद्वैतः भ्रमरहितश्च सन्नित्येतावानर्थः य एवं वेदेत्युक्तिबलाल्लभ्यते । अतः पुनरारम्भ इत्यर्थः । पूर्वं तु उपासक- स्याप्रस्तावात्तुरीयस्यैव महिमेति सिध्यति । अत्र तु उपासकफल- प्रस्तावादुपास्यगतमव्यवहार्यत्वादिकमपि स्वयोग्यं फलं बलादायाति । ‘तं यथा यथोपासते तथैव भवति' इति हि श्रुतिः । तदिदमाह पुराणकारः- 'तत्सदृशात्मवान्' इति, 'ज्ञानानन्दौ च शक्तिश्च तथाऽपि न समाः क्वचित्' इति च ।
श्रीनिवासतीर्थविरचितापदार्थदीपिका
तुरीयस्य नादप्रतिपाद्यत्वं वक्तुमयं खण्डः प्रवृत्तः । तत्र नाद- प्रतिपाद्यत्वेन तुरीयज्ञानिफलप्रतिपादकं आत्मैवेत्यादिवाक्यं अभेद- प्रतीतिनिरासाय सम्यग्व्याचष्टे - आत्मैवेत्यादिना || पारतन्त्र्यादि- विशिष्टस्वरूपानुभवमपरित्यज्येत्यर्थः । एवकारलब्धार्थं दर्शयति- अन्याभिमानमिति || देहाद्यभिमानमित्यर्थः । आत्मनेत्यस्यार्थः परमात्मनैवेति । प्रसन्नेन तुरीयेणेत्यर्थः । तत्प्रसादादिति यावत् । परमात्मानं तुरीयम् । नन्वदृष्टमव्यवहार्यमित्यादिना पूर्वं तुरीयस्याव्यव - हार्यत्वादेः प्रतिपादनादत्र पुनरव्यवहार्यत्वादिकं तुरीयस्य कस्मादुच्यत इत्यतस्तदभिप्रायमाह- अव्यवहार्यत्वादिकमिति । अत्र तुरीयोपा- सके । विश्वाद्युपासके तत्साम्यस्येव तुरीयोपासकेऽपि तत्साम्यस्यावश्यं वक्तव्यत्वादव्यवहार्यत्वादिधर्मेण तत्साम्यमिति दर्शयितुं पुनरत्राव्यव- हार्यत्वादिकमुक्तमित्यर्थः ।