ओङ्कारं पादशो विद्यात् पादा मात्रा न संशयः
उपनिषत्
(अन्यत्त्यागेन ब्रह्मज्ञानं सम्पाद्यमित्यत्र ब्रह्मदृष्टमन्त्रनिरूपणम्)
अते इलोका भवन्ति-
ओङ्कारं पादशो विद्यात् पादा मात्रा न संशयः । ओङ्कारं पादशो ज्ञात्वा न किञ्चदपि चिन्तयेत् ॥ २ ॥ १ ॥
युञ्जीत प्रणवे चेतः प्रणवो ब्रह्म निर्भयम् ।
प्रणवे नित्ययुक्तस्य न भयं विद्यते कचित् ॥ ३ ॥ २ ॥
प्रणवो ह्यपरं ब्रह्म प्रणवस्य परं स्मृतम् । अपूर्वोऽनन्तरोऽबाह्योऽनपरः प्रणवोऽव्ययः ॥ ४ ॥३॥
सर्वस्य प्रणवो ह्यादिर्मध्यमन्तस्तथैव च ।
एवं हि प्रणवं ज्ञात्वा व्यश्नुते तदनन्तरम् ॥ ५ ॥ ४ ॥
प्रणवं हीश्वरं विद्यात् सर्वस्य हृदये स्थितम् । सर्वव्यापिनमोङ्कारं मत्वा धीरो न शोचति ॥ ६॥५॥
अमात्रोऽनन्तमात्रश्च द्वैतस्योपशमः शिवः ।
ओङ्कारो विदितो येन स मुनिर्नेतरो जनः
स मुनिर्नेतरो जन इति ॥ ७ ॥ ६ ॥
॥ इति चतुर्थः खण्डः ॥
॥ समाप्ता चेयं माण्डूकोपनिषत् ॥
भाष्यम्
' तुरीयं नादनामानं हरिं ज्ञात्वा परं पदम् ।
तमेव प्रविशेच्छुद्धरूपी तत्सदृशात्मवान् ॥
ज्ञानानन्दौ च शक्तिश्च तथाऽपि न समाः कचित् ।
विमुक्तस्यापि जीवस्य पारतन्त्र्यं च नित्यदा ।
चतूरूपस्यास्य विष्णोर्नाम प्रणव इत्यपि ।
जाग्रदादिप्रणयनात् स एव ब्रह्म बृंहणात् ॥
ओमित्याक्रियमाणत्वादोङ्कारः स प्रकीर्तितः ।
आदिमत्त्वादयो ह्यर्था ओमित्यस्य श्रुतौ श्रुताः ॥
अपूर्वः कारणाभावान्नाशाभावादनन्तकः (रः ? ) ।
पराधीनस्थित्यभावादनन्तर उदाहृतः ।
सर्वगत्वादबाह्यश्च तं ज्ञात्वा प्रविमुच्यते ||' इति च ॥
'परत्वमपरत्वं च विष्णोरेकस्य वै यदा ।
श्रूयते न तु सामर्थ्यभेदस्तत्र कथञ्चन ।
अवतारस्य पूर्णत्वात् पौर्वापर्यमुदाहृतम् ॥' इति ब्रह्म ।
पूर्वावतारे पश्चिमावतारेऽपि पूर्ण एवेति प्रणवो ह्यपरं ब्रह्मेत्यादे- रर्थः ॥
एकोऽपि निर्विशेषोऽपि चतुर्धा व्यवहारभाक् ।
यस्तं वन्दे सदानन्दं विष्णुं विश्वादिरूपिणम् ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं माण्डूकोपनिषद्भाष्यं समाप्तम् ॥
श्रीव्यासतीर्थविरचिताटीका
खण्डार्थ: -
प्रणवावयवाकारादिप्रतिपाद्यभगवद्रूपज्ञानमन्यस्मरणत्यागेनापादनीय- मित्यादौ मन्त्रान् प्रमाणयन्नाह - अत्रैव इति ॥ मन्त्रं पठति - ओङ्कार- मिति ॥ पादशः पादैः ॥ २
संसारभयतितीर्षुणकारो भगवान् सर्वथा ध्येय इत्यत्र मन्त्रं पठति- युञ्जीतेति ॥ ३ ॥
भाष्यार्थः
'युञ्जीत प्रणवे चेतः' इत्यादी बहुवारमावर्त्यमानः क इति न ज्ञायते तदाह- चतूरूपस्येति ॥ प्रणवाभिधेयश्चतूरूपो विष्णुर्भवतु । किं कुर्वन् तथोच्यते इत्यत आह-जाग्रदिति ॥ प्रकृष्टं नयतीति प्रणव इत्यर्थः ।। २- ३ ॥
खण्डार्थः
विश्वादिरूपाणां परस्परं मूलरूपेण च न ज्ञानादिगुणैरपकर्षो ज्ञातव्य इत्याह- प्रणव इति । अपरमपरः प्रणवो ब्रह्म हि परं परश्व प्रणवो ब्रह्मेति स्मृतः । ब्रह्मेत्युक्तं पूर्णत्वं विशदयंन्नाह - अपूर्व इति । उक्ताः पूर्णत्वगुणाः नोपचरिता इति भाबेन तथा वेत्तुः फलमाह एवं हीति ॥ व्य प्राप्नोति । तदनन्तरं तज्ज्ञानानन्तरम् । अनन्तरः अबाह्य इति
तस्यान्तर्बहिरन्यन्नास्तीत्युक्तम् । न केवलमेतावदपि तर्हि स्वयं सर्वस्यान्तर्बहिश्च इत्याह- प्रणवमिति ॥ एवं समस्तव्यस्त- प्रणवाभिधेयोपास्तिमुक्त्वा तामनुवदन् तज्ज्ञानिनं स्तुवन्नुपसंहरति- अमात्र इति ॥ ४-७ ॥
भाष्यार्थः
'शिवोऽद्वैत ओंकारः' इत्यत्र द्विरावृत्तोंकारपदं ब्रह्मपदं च व्याचष्टे- ओमिति ॥ प्रणवावयवाकारोकारमकारवाच्यविश्वादीनामाप्त्यादि- मत्त्वादयो येऽकाराद्यर्थाः ते तथैवेत्यत्र प्रमाणान्तरमाह- आदिमत्त्वादय इति ।। ओमित्यस्यावयवानामिति ग्राह्यम् । पूर्वो न भवतीति नविद्यतेऽन्तरोन्ऽतस्थो यस्येति, न विद्यते परं अन्यद्भिन्नं यस्मादिति प्रतीतिं निवारयन् अपूर्वोऽनन्तरोऽबाह्य इति पदानि व्याचष्टे - अपूर्व इत्यादिना ॥ ‘प्रणवो ह्यपरं ब्रह्म प्रणवश्च परं स्मृतः' इत्यस्यावताराणां सामर्थ्यतः परत्वापरत्वप्रतिपादकत्वप्रतीतिं निवारयन्नाह - परत्वमिति ॥ पूर्वत्वात्पश्चिमत्वाच्चेति ग्राह्यम् । अन्यथाप्रतीतिं परिहृत्येदानीमर्थमाह - पूर्वेति ॥ यत्प्रसादाद्यत्प्रीत्यै माण्डूकोपनिषद्भाष्यमुपक्रम्य समापितं तमेव तदुक्तगुणैरुपश्लोकयन् प्रणामेन समापयति- एकोऽपीति ॥ निर्विशेषोऽपीन्द्रार्जुनादिवद्विशेषरहितोऽपि विश्वादिचतूरूपेण चतुर्धा सन् जाग्रदादिचतुर्धा व्यवहारभागित्यशेषमतिमङ्गलम् ।। ४-७ ॥
यः सर्वजीवनेत्रादौ स्थित्वाऽवस्थाः प्रवर्तयन् ।
मोक्षदश्च रमानाथं वन्दे तं मध्ववल्लभम् ॥
॥ इति श्रीमाण्डूकभाष्यटीकायां व्यासतीर्थमुनिविरचितायां, खण्डार्थे च चतुर्थः खण्डः ॥
॥ श्रीकृष्णार्पणमस्तु ॥
श्रीवादिराजीयाप्रकाशिका
अत्र विश्वादिषु पूर्वस्यैव ब्रह्मत्वं न त्वपरस्येति शङ्कां श्रुतिरेव वारयति - प्रणवो ह्यपरं ब्रह्मेति ॥ परं पूर्वरूपं च ब्रह्म । अपरमपररूपं च ब्रह्म । तत्र ज्ञानानन्दादिगुणानां सर्वत्र साम्यादिति हेतुसूचनाय हिशब्दः । तर्हि पूर्वापरभावः कथमिति चेन्न | मत्स्यकूर्मादिरूपाणामिव विशेषबलेनैवोप- पत्तेरित्यपि हिशब्देनैव सूचितम् । अपूर्व: पूर्वशब्दवाच्यकारणरहितः । अनन्तरः अन्तं नाशं राति ददातीत्यन्तरो मृत्युस्तद्रहितोऽनन्तरः । तथा स्वकृतकर्माधीनतया देहान्तर्गतजीववदन्तरो न भवतीत्यनन्तरः । न विद्यते बाह्यं यस्मात् सोऽबाह्यः, सर्वगत इत्यर्थः । न विद्यते परमुत्तमं यस्मात् सोऽपरः सर्वोत्तमः । अव्ययः वृद्धिह्रासरहित: । आदिः आदौ विद्यमानः । मध्यं मध्ये विद्यमानं ब्रह्म प्रणव एव । अन्तः नियामकतया सर्वेषां हृदि विद्यमानः सर्वस्यान्ते विद्यमानो वाऽन्तः । तत् प्रणवाख्यं ब्रह्म अनन्तरं ज्ञानानन्तरं व्यश्नुते विशेषेण प्राप्नोति । सर्वगतस्य व्याप्तिः संसारावस्था- यामप्यस्तीत्यतो बीत्युपसर्गः ।
अस्यामुपनिषदि चतूरूपतया प्रतिपाद्यमानो विष्ण्वाख्यो जगदीश्वर एव न तु जीवादिरिति भावेन श्रुति: स्वाभिप्रायं स्वयमेवोद्घाटयति- प्रणवं हीति ।। प्रणवं हीश्वरं सर्वेश्वरं विद्यात् । सर्वस्य मुक्तामुक्तात्मक- सकलजीवसमुदायस्य हृदि स्थितं हृदये स्थितम् । सर्वव्यापिनं सकलचेतनाचेतनात्मकप्रपञ्चव्यापिनं च विद्यात् । अमात्रः भिन्नांशरहितः, इयत्तारहितो वा । अनन्तमात्र: अभिन्नमत्स्यकूर्माद्यनन्तावताराख्यांश- सहितः । द्वैतस्योपशमः भ्रमस्योपशमः । अनन्तमात्र इत्यत्र मन्द- मतिभिराशङ्कितस्वगतभेदरहितो वा । 'नेह नानाऽस्ति किञ्चन' इति हि श्रुतिः । इममेवार्थमाह भाष्यकार:- अपूर्वः कारणाभावादित्यादिना ॥
वारं वारं तत्र तत्र कथिताद्वैतशब्दस्य पराभिलषितभेदमात्रराहित्यरूपार्थो न ममाभिप्रेत इति श्रुतिः स्वयमेव बाधकानि वदन्त्युपसंहारव्याजेन परस्य दुराशामपि दूरयितुं सर्वेश्वरत्वसर्वजीवहृन्मध्यगतत्वसर्वव्यापित्वाख्य- भेदकविशेषणवत्तया परमात्मानं विशिनष्टीति सर्वमतिमङ्गलम् ।
आचार्यैः प्रमाणवचनैर्व्याख्यातत्वान्नैतच्छ्रुत्यर्थे प्रेक्षावतां शङ्कावकाशः । तथाऽपि 'मुखमस्तीति वक्तव्यं दशहस्ता हरीतकी' इतिवत् स्वमतदुराग्रहेण वदन्तं प्रति च हृदिस्थमध्वकृपयैव सकलश्रुतिवाक्यानामप्येकवाक्यतयैव सर्वेषां विदुषां मनोनुरञ्जकमर्थं ब्रूमः - तथा हि 'एष सर्वेश्वर एष सर्वज्ञ सर्वान्तर्याम्येष योनिः सर्वस्य' इति श्रुतौ प्रथमं तावदनीश्वरजीवेभ्योऽ- त्यन्तभेदे सर्वेश्वरत्वाख्यो हेतुरुक्तो भवति । तथा च 'विमत: परमात्मा जीवादत्यन्तभिन्नो भवितुमर्हति सर्वेश्वरत्वात् । यो जीवादत्यन्तभिन्नो न, न स सर्वेश्वरोऽपि । यथा देवदत्तः ।' अथवा ईश्वरस्य सर्वेश्वरत्वं 'एष सर्वेश्वरः' इति श्रुत्यैव सिद्धम् । जीवानामनीश्वरत्वं स्वस्वानुभवसिद्धम् । अर्थात्श्रुत्यादिसिद्धम् । एवं च सति 'ईश्वरजीवौ परस्परमभिन्नौ न, विरुद्धधर्माक्रान्तंत्वात् दहनतुहिनवत्' इत्यन्वय्यनुमानमुक्तं भवति । किं च ‘एष सर्वेश्वरः' इति भगवतः सर्वेश्वरत्वं वदन्ती श्रुति: सर्वस्य जगतो मिथ्यात्वे स्वोक्तसर्वेश्वरत्वस्यैव भङ्गप्रसङ्गाज्जगतः सत्यतामभिप्रैतीति सिद्धम् । तथा च 'ईश्वरो जगतो मिथ्यात्वं न सहते, विश्वसत्यतायाः स्व॑सर्वेश्वरत्वोपयोगित्वात्, यद्यदीश्वरत्वोपयोगि स न तन्मिथ्यात्वं सहते । यथा राजा राष्ट्रस्येति । कथमन्यथा वराहरूपी भगवान् रसातलगतां रसामुद्दधारेत्यपि श्रुतिरेवासूचयत् ।
तथा भेदजगत्सत्यत्वसाधकतयोक्तानुमानद्वयेऽनुकूलतर्ककथनाय सर्वज्ञत्वादिविशेषणत्रयमुक्तम् । तथा हि- यदीश्वरस्य तदधीन-तयोक्तजगतश्च भेदो न स्यात्तर्ह्येष परमेश्वर: सर्वज्ञः कथं स्यात् । भवति च भगवान् सर्वज्ञः । अतोऽल्पजगतो भिन्नश्च । एवं सर्वस्याभावे कथमेष सर्वज्ञः स्यात् । किन्तु सर्वाऽभावज्ञ एव स्यात् । भवति च सर्वज्ञः । अतस्तत्त्वेनेश्वरप्रमाविषयीभूतं सर्वं जगच्च सत्यमिति भेदे जगत्सत्यत्वे चानुकूलतर्कद्वयमुक्तं भवति । यदि चेश्वरजगतोर्भेदो न स्यात्तर्हीश्वरः सर्वान्तर्यामी कथं स्यात् । भवति च सर्वान्तर्यामी । 'एष त आत्माऽन्तर्यामी ' इति श्रुते: । 'अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात्' (ब्र. सू. १.२.१८) इति सूत्राच्च । सर्वस्यान्तर्नियमयति यः स हि सर्वान्तर्यामी । एवं राजभृत्ययोरिव नियामकनियम्ययोः कथं भेदो न स्यादिति । सर्वाभावे च कथं तदन्तर्यामी स्यात् । न हि बन्ध्यासुतस्य कोऽप्यन्तर्यामी दृष्टः । अतोऽत्रापि पूर्ववदनुकूलतर्कद्वयमुक्तं भवति । तथा यदीश्वरजगतो: भेदो न स्यात्तर्ह्येष सर्वस्य योनिः कथं स्यात् । भवति सर्वस्य योनि: । 'यतो वा इमानि भूतानि जायन्ते' इति श्रुतेः । ' जन्माद्यस्य यतः' (ब्र.सू. १.२.२) इति सूत्रात् । ' जन्माद्यस्य यतोऽन्वयादितरत:' इति भागवतोक्तेश्च । एवं च कुलालघटयोरिव स्रष्टृसृज्ययोः कथं भेदो न स्यात् । एवं सर्वस्याभावे कथं सर्वस्य योनिः स्यात् । न हि शशविषाणस्य कारणं क्वापि श्रूयत इति ।
प्राथमिकविशेषणसिद्धानुमानसाधितभेदं जगत्सत्यत्वं चानुकूलतर्कैः साधयित्वोपनिषत् स्वयमेव परपक्षे बाधकतर्कांश्चाऽह- 'प्रपञ्चो यदि बिद्येत' इति । अस्याः श्रुतेः परेषां मनसि परिवर्तमानोऽर्थस्तावत् कपोणि डायित एव । यदि विद्येत तर्हि निवर्तेतेति तर्कमूलव्याप्ते : ब्रह्मणि व्यभिचारात् । न च निवर्तते तस्मान्न विद्यत इति विपर्ययपर्यवसानं च ब्रह्मण्येव व्यभिचारात् स्वप्रक्रिययैव विरुद्धम् । तस्मात्तर्कानुकूल-
व्याप्तिघटनाय ‘न संशयः' इत्यत्र वक्ष्यमाणनञावृत्त्या यदि प्रपञ्चो न विद्येत यदीदं प्रपञ्चान्तर्गतं द्वैतं मायामात्रं स्यात्तर्द्युभयमपि निवर्तेत । अत्र संशयो न । मिथ्याभूतस्य शुक्तिरजतादेः मायाकल्पितकरितुरगादेश्च निवृत्तिदर्शनात् । न च निवर्तते । तस्मात्प्रपञ्च न विद्यत इति न । द्वैतं च मायामात्रं न । अनादिकालमारभ्य प्रवाहतोऽनुवर्तमानमहीमहीधरादि- प्रपञ्चस्य, वर्णाश्रमादिरूपेण गुरुशिष्यमातापितृभार्याभर्त्रादिरूपेण गज- तुरगपशुपक्ष्यादिरूपेण चानुवर्तमानस्य चानन्तजीवनिष्ठद्वैतस्य च, पृथिव्यप्तेजोवाय्वादिरूपेण अनुवर्तमानजडनिष्ठद्वैतस्य च सकलशिष्ट- व्यवहारोपयोगितया श्रुतिस्मृतिसिद्धस्यानिवृत्तेरेव प्रमितत्वात् । ज्ञानाङ्ग- यज्ञादिविहितक्रियासाधनव्रीहियवधनघृतदध्यादिजड प्रपञ्चाभावे साक्षाज्ज्ञानोपयोगिश्रवणादेः कारणभूतश्रुतिस्मृत्यादिजडप्रपञ्चाभावे वक्तृ- श्रोत्रादीनां जीवनहेतुभूतधनधान्यादिरूपजडप्रपञ्चाभावेऽपि चित्रफल - हेतूनामेतेषां परस्परं द्वैताभावे वक्तृश्रोत्रादिरूपजीवद्वैताभावे च सर्वापेक्षित- मोक्षस्यैवानुदयप्रसङ्गात् । एवं च चिरकालानुवृत्तस्यास्य ब्रह्मण इव न भाविनी निवृत्तिरपि शङ्कितुं शक्यते ।
'न त्वेवाहं जातुनासं न त्वं नेमे जनाधिपाः ।
न चैव न भविष्यामः सर्वे वयमतः परम् ॥'
इति गीतायां साक्षाद्भगवत इवाहं च नाऽसमिति न, त्वं च नासीरिति न, इमे जनाधिपा नासन्निति नेति विचित्रानन्तजीवानां तन्निष्ठद्वैतस्य च स्वसमानयोगक्षेमतया अनादित्वमुक्त्वा ' अतः परं वयं सर्वे न भविष्याम इति च नैव' इति स्वसमानयोगक्षेमतया भाव्यनन्तजीवपरम्परायास्तन्निष्ठ- भाविद्वैतानां चानवच्छिन्नभविष्यत्कालेऽपि निवृत्त्यभावस्यैवैवकारेणाव- धारितत्वात् प्रपञ्चनिवृत्तिस्तन्निष्ठद्वैतनिवृत्तिश्च न मनसाऽपि स्म शक्या । चशब्देन मुक्तावपि प्रपञ्चानिवृत्तिं समुचिनोति । 'न त्वेवाहं' इत्यत्र विद्यमानतुशब्दस्याहन्त्विति सम्बन्धः । तेन च स्वस्य देहपरम्परां विनैकेनैव देहेनानाद्यनन्तकालेष्ववस्थानाख्यविशेषं सूचयति । 'वयं सर्वे भविष्यामः' इत्येवोक्ते चिरकालस्थायित्वेनापीयमुक्तिरिति परस्य दुराशा स्यात् । तामप्युन्मूलयितुं 'न भविष्याम इति च नैव' इति नञद्वयेन 'द्वौ नञौ प्रकृतमर्थं सातिशयं गमयतः' इति न्यायादनवच्छिन्नभविष्यत्कालेऽपि स्वात्मवत् प्रपञ्चस्य द्वैतस्यातिशयं सङ्गृह्णाति । तेन परैराशास्यमानभावि- निर्धर्मत्वशङ्कारख्यवृक्षस्यापि मूलच्छेद एवाभूदिति ज्ञेयम् । अतोऽस्ति च धूमस्तस्मादग्निरप्यस्तीतिवद् विपर्ययपर्यवसानस्यैव प्रमितत्वात् परेषामति- कर्कशोऽयं तर्क इत्यनुसन्धेयम् ।
एवं चाद्वैतं परमार्थतो विद्येत तर्हि न निवर्तेत । यथास्थितनिवर्तेतेति क्रियया योगे विद्यमानस्य ब्रह्मणो निवृत्त्यदर्शनेन व्याप्त्यसम्भवान्नञनु- षङ्गेनाऽपादकानुसार्यापाद्यमुन्नेयम् । इयं व्याप्तिः परस्यापि सिद्धा । निवर्तते चाद्वैतम् । गुरूपदेशाद् ब्रह्मणि ज्ञाते सत्यद्वैतं न विद्यते । अयं सतां वाद इति श्रुत्यैवाद्वैतनिवृत्तेर्वक्ष्यमाणत्वात् । युक्तं चैतत् । इहाद्वैतनिवृत्त्यभावे उक्तरीत्या सर्वव्यवहारविलोपप्रसङ्गात् । मुक्तावद्वैतनिवृत्त्यभावे च ‘सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता' ( तैत्ति. २.३ ) इति, ‘परं ज्योतिरूपसम्पद्य स्वेन रूपेणाभिनिष्यद्यत' इति, ‘स तत्र पर्येति जक्षन् क्रीडन् रममाणः स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वाऽज्ञातिभिर्वा' (छां. १२.३) इत्यादिश्रुत्युक्तनानाजीवानां नानाविषयभोगानां चाभावप्रसङ्गेन मुक्तेरेवामुक्तित्वप्रसङ्गात् । अत एव ' यत्र त्वस्य सर्वमात्मैवाभूत्' इति श्रुतिश्च अव्ययानामनेकार्थत्वाद् यदि अस्य जीवस्य सर्वमात्मैवाभूत्तर्हि केन कं पश्येदिति तर्कमुखेनाद्वैतनिवृत्तिमेव प्रसाधयति । अन्यथा श्रुत्योः परस्परविरोधप्रसङ्गात् । अतोऽत्रापि निवर्तते चाद्वैतं तस्मान्न विद्यत इति विपर्ययपर्यवसानमावश्यकम् । एवमेकवाक्यतया तर्कत्रयानिरूपणे प्रायपाठविरोधः । वाक्यभेदश्च प्रसज्येत । एवं चानुपमर्दितपदसम्पदैव प्रागुक्तानुमानद्वयेऽनुकूलतर्क़त्रयवत् परपक्षे बाधकत्रयस्यापि सिद्धेः श्रुतेरपीदमेवाभिमतम् । अन्यथा स्वस्या एवाऽभावप्रसङ्गात् । उक्तरीत्या मुक्तिपर्यन्तसकलपदार्थानामप्यभावापत्त्या श्रुतिः स्वव्याघातिनी पर- धातिनी च स्यात् । तथाऽस्मदुक्तरीत्या सकलजीवजगत्पोषकाने सिद्धे सति कः प्रेक्षावानप्रतीतसकलजगन्नाशकविषसम्पृक्तान्ने मतिं दद्यात् ।
एवमुत्तरवाक्येऽपि विकल्पो भेदो यदि केनचिदज्ञानादिना कल्पित: स्यात् तर्हि निवर्तेत । न च निवर्तते । तस्मात् कल्पितो नेति पूर्वोक्त- भेदस्थिरीकरणाय पुनस्तर्कान्तरमुच्यते । इदं च द्वैतं मायामात्रमिति न मयोच्यते, किन्तु मायाकल्पितमिति परकीयदुराशाखण्डनार्थम् । वस्तुतस्त्विदमस्य लीलामात्रमित्युक्ते लीलया निर्मितमित्यर्थस्यैव लोके बहुलमुपलम्भात् । तस्मादुक्तयुक्तिभिः पराजितस्य दुराशैवेदम् । तर्हि सर्वैरपि जगतस्सत्यत्वात्तत् कुतो नाङ्गीक्रियत इत्यत उक्तम्- उपदेशा- दिति ॥ उत्तमगुरूपदेशाच्छास्त्रार्थे ज्ञाते सत्यद्वैतं न विद्यत इत्ययं वादो बोद्धुं शक्यते । न त्वन्यथा | अतः केचिद्वाक्यार्थज्ञानाकुशला नेदं तत्त्वं जानन्तीति वाक्यद्वयस्यापि योजना |
अथवा विकल्पो द्वैतं नास्त्यद्वैतमेवास्तीति विरुद्धपक्षद्वयं यदि केनचिद्बौद्धेन मायावादिना वा कल्पितः स्यात् तर्ह्यपदेशात् पूर्वोत्तर- विवेकवतस्तर्ककर्कशबुद्धेर्मध्वाख्यसमीचीनगुरूपदेशाद्विनिवर्तेत निवृत्तिं प्राप्नुयादेव । तर्कबाधितस्य सर्वानुभवविरुद्धपक्षस्य चिरकालस्थायि- त्वायोगात् । इदं च यदि पापं कुर्यात्तर्हि नरकं प्राप्नुयादितिवत् वस्तुस्थितिकथनम् । कोऽसौ गुरूपदेश इत्यत उक्तमयं वाद इत्यादि ।
ज्ञाते पूर्वोत्तराविरुद्धतया श्रुत्यर्थे सम्यक् ज्ञाते सति संसारे मुक्तौ चाद्वैतमेव न विद्यते । अयं वादो व्यासशुकयोगिप्रभृतीनां सतां वादः । ते हि स्वग्रन्थे-
'न यत्र माया किमुतापरे हरेरनुव्रता यत्र सुरासुरार्चिताः ॥'
'तर्हि न सन्न चासदुभयं न च कालजवः
किमपि न तत्र शास्त्रमपकृष्य शयीत यदा ।
जनिमसतः सतो मृतिमजात्मनि ये च भिदां
विपणमृते स्मरन्त्युपविश ध्वनिमारुवतः ।।' (भा. १०.९४.२६)
इत्यादिना मुक्तावपि भेदमेव स्थिरीचक्रुः । अत एव श्रुति: 'स्वप्नमाया सरूपेति सृष्टिरन्यैर्विकल्पिता' इति मायासृष्टिमन्य इति पूर्वपक्षतयोक्त्वा ‘इच्छामात्रं प्रभोः सृष्टिः' इति सत्यजगत्सृष्टिं स्वपक्षमाह - असमर्थो हि मायासृष्टिं कुर्यात् ॥ समर्थस्तु भगवान् कथं मायासृष्टिं कुर्यादिति युक्तिं सूचयितुं तं प्रभुपदेन विशिनष्टि । 'देवस्यैष स्वभावोऽयमाप्तकामस्य का स्पृहा' इति कदाऽप्यनिवर्त्यत्वे स्वाभाविकत्वयुक्तिमपि सूचयति । ‘स्वभावस्यानपायात्’ इति हि प्राचां वाचः ।
तर्हि ‘प्रपञ्चोपशमः’ ‘द्वैतस्योपशमः' इत्यादिकं कथमुक्तमिति चेन्न । विश्वतैजसप्राज्ञानां जाग्रत्स्वप्नसुषुप्त्याख्यप्रपञ्चोपयोगित्ववन्मुक्तिदायकस्य तुरीयस्य तन्नास्तीत्यभिप्रेत्य विष्ण्वादिषूक्तप्रपञ्चस्योपशमो यस्मादिति प्रपञ्चोपशम इत्युक्तम् । उपस्थितपरित्यागेनानुपस्थितप्रपञ्श्वपरिग्रहे कारणाभावात् । द्वैतस्योपशम इति तु प्रथमा मात्रेत्यादिना प्रथमत्व- द्वितीयत्वतृतीयत्वचतुर्थत्वोत्त्या प्राप्तस्वगतभेदशङ्का-निवारणार्थमुक्तम् । द्वैतस्य स्वगतभेदस्योपशमो यस्मात्स तथोक्त: । अत्राप्युक्तरीत्या प्रसक्तस्वगतभेदं विहायाप्रसक्तानुपपन्नस्ववाक्यविरुद्धजीवेश्वरभेदग्रहण- स्यानुचितत्वात् ।
अत इयं श्रुतिस्तदुपक्रमे सर्वेश्वरत्वादिभेदसाधकमहिमानमुक्त्वा उपसंहारवाक्येऽपि 'प्रणवं हीश्वरं विद्यात् सर्वस्य हृदये स्थितम् । सर्वव्यापिनमोङ्कारम्' इति भगवन्महिमोक्त्यैव स्वाभिप्रेतार्थरूपरत्नरक्षार्थं सम्पुटीचकारेति सर्वमवदातम् ।। २-७ ।।
।। इति श्रीमत्कविकुलतिलकवादिराजपूज्यचरणविरचिता माण्डूकोपनिषद्भाष्यटिप्पणी समाप्ता॥
श्रीनिवासतीर्थविरचितापदार्थदीपिका
'अद्वैत ओङ्कार' इत्यत्र तुरीयस्य समग्रोङ्कारप्रतिपाद्यत्वमुच्यत इत्यन्यथाप्रतीतिनिरासाय प्रमाणेनैव व्याचष्टे - तुरीयमिति ॥ तथा चात्रोङ्कार- शब्देन तदवयवो नादो ग्राह्यः । नादो नाम वर्णो मन्त्रशास्त्रे प्रसिद्धः । तत्सदृशात्मवानिति तुरीयवत्तदुपासकस्यापि लोकव्यवहारागोचरत्वादव्यव- हार्यत्वादिधर्मैस्तत्सदृशत्ववत् ज्ञानानन्दादिगुणैरपि तत्सदृशत्वं किं न स्यादित्यत आह- ज्ञानानन्दाविति || यद्यपि तत्सदृशात्मवानिति सामान्येनोच्यते, तथापि ज्ञानानन्दौ शक्तिश्चेत्येतद्धर्माः विमुक्तस्य जीवस्य क्वचिदपि न भगवज्ज्ञानादिसमा इत्यर्थः । कस्मान्न समा इत्यत आह- पारतन्त्र्यमिति ।। परतन्त्रत्वादित्यर्थः ।
अत्र स्वोक्तार्थे संमतित्वेन सलिलेश्वरो मन्त्रानुदाहरति अत्रेत इति ॥ सलिलेश्वरोदाहृते मन्त्रे ओङ्कारं पादश अवयवश : विद्यादितिवत् 'युञ्जीत प्रणवे चेतः' इत्यादिकं न तुरीयमात्रनिष्ठम् । किन्तु चतूरूपसाधारण- मित्याशयेन तत्प्रमाणेनैव व्याचष्टे - चतूरूपस्येति । प्रणवशब्दवाच्यत्वं केन निमित्तेनेत्यत आह- जाग्रदादीति ॥
प्रणवो हीत्यत्र ब्रह्मशब्दार्थमाह- स एवेति ॥ चतूरूप एवेत्यर्थः ।
ओङ्कारं मत्वा ओंकारो विदित इत्यत्रोंकारशब्दार्थमाह- ओमितीति ।। आप्त्यादिमत्त्वनिमित्तैः प्रणवांशाकारादिवाच्यत्वं विश्वादीनां प्रतिपादितं तच्छ्रुत्युक्तत्वान्नाऽनादरणीयमित्याह - आदिमत्वादय इति || ओमित्यस्य तदवयवभूताकारादेरादिमत्त्वादयो येऽर्था उक्ताः ते श्रुतावपि श्रुता उक्ता इत्यर्थः ।
अपूर्वादिशब्दचतुष्टयस्यार्थमाह- अपूर्व इत्यादिना || नाशाभावा- दिति । तथा च न विद्यन्तेऽन्तरो नाशो यस्येत्यनन्तर इत्यर्थ उक्तो भवति- पराधीनेति । तथाच न विद्यतेऽपरः स्थितिकर्ताऽस्येत्यनपर इत्यर्थो द्रष्टव्य:- सर्वगत्वादिति ॥ न विद्यतेऽन्यो जगतो बहिर्यस्मादसावबाह्यः । तत्र हेतुः सर्वगतत्वादिति । अनेन सर्वव्यापिनमिति वक्ष्यमाणं सर्वगतत्वमत्र हेतुतया सम्बध्यत इत्युक्तं भवतीति द्रष्टव्यम् ।
एवं हि प्रणवं ज्ञात्वेत्यादेरर्थः तं ज्ञात्वेति । विप्रमुच्यते विशेषेण मुच्यत इत्यर्थः । 'प्रणवो ह्यपरम्' इत्यादी वासुदेवाद्यवतारविश्वाद्यव- ताराणां सामर्थ्यभेदतः परत्वापरत्वे इति प्रतीतिनिवारणायाह- परत्व- मिति । तर्हि परत्वादिशब्दार्थः कः प्रतिपत्तव्य इत्यत आह- अवतार- स्येति || पश्चिमत्वाच्येत्यपि ग्राह्यम् । पूर्वापरयोर्भाव पौर्वापर्यम् । पूर्वत्व- मपरत्वं चेत्यर्थः । पूर्वत्वं नाम परत्वमित्यवगन्तव्यम् । एवमन्यथाप्रतीतिं प्रमाणेनैव परिहृत्यार्थमाह- पूर्वावतार इति ॥ वासुदेवाद्यवतार इत्यर्थः । पश्चिमावतारइति विश्वतैजसादिरूपावतार इत्यर्थः ।
॥ इति श्रीमाण्डूकभाष्यार्थे चतुर्थः खण्डः ॥