विभूतिं प्रसवं त्वन्ये मन्यन्ते सृष्टिचिन्तकाः

उपनिषत्

(सृष्टि: विष्णोरिच्छामात्रेण भवति)

विभूतिं प्रसवं त्वन्ये मन्यन्ते सृष्टिचिन्तकाः ।

स्वप्रमायासरूपेति सृष्टिरन्यैर्विकल्पिता ।। १३ ।। ७ ।।

इच्छामात्रं प्रभोः सृष्टिरिति सृष्टौ विनिश्चिताः ।

कालात् प्रसूतिं भूतानां मन्यन्ते कालचिन्तकाः ॥ १४ ॥ ८ ॥

भाष्यम्  

तां सृष्टिं बहुधा प्राहुर्ज्ञानिनोऽज्ञानिनस्तथा ॥

विष्णुर्विकृतिमायाति महदादिस्वरूपिणीम् ।

तत्तद्विविधभूतिस्तु सृष्टिः प्रोक्ता ह्यपण्डितैः ।

स्वप्नमायासरूपां च केचिदज्ञा जना विदुः ॥

अविकारस्य चिन्मात्रस्वेच्छयैवाखिलं जगत् ।

उत्पद्यत इति प्राज्ञाः प्राहुर्बह्मादयोऽखिलाः ||

पूर्णशक्तेः कुतो माया सार्वज्ञ्यात् स्वप्नवत् कुतः ।

सर्वदोषव्यतीतस्य विकारः कुत इष्यते ॥

तस्मादेवाविकारस्य विष्णोरिच्छावशादिदम् ।

यथार्थमेव सम्भूतमिति वेदवचोऽखिलम् ॥

केचित् कालत एवैतां सृष्टिमाहुरकोविदाः ।

केचिद् रुद्राद् ब्रह्मणश्व प्रधानादिति चापरे ।

विमूढाः सर्व एवैते यतो नारायणः परः ।

सर्वकर्ता सर्वशक्तिरेक एव नचापरः ।

प्रधानकालब्रह्मेशमुखाः सर्वेऽपि तद्वशाः ।।