सोऽयमात्माऽध्यक्षरमोङ्कारोऽधिमात्रं..
॥ अथ तृतीयः खण्डः ॥
उपनिषत्
(विश्वादिरूपाणां प्रणवांशप्रतिपाद्यत्वनिरूपणम् )
सोऽयमात्माऽध्यक्षरमोङ्कारोऽधिमात्रं पादा मात्रा अकार उकारो मकार इति ।
जागरितस्थानो वैश्वानरोऽकार: प्रथमा मात्रा || आप्तेरादिमत्त्वाद् वा ।
आप्नोति ह वै सर्वान् कामानादिश्च भवति य एवं वेद । १ ।
भाष्यम्
अधिकं सर्वतोSअविनाशि चेत्यध्यक्षरम् । अधिका एव मात्रा अंशा यस्य तदधिमात्रम् । अ इत्यनेनाभिधानेनाऽक्रियत इत्यकारः । तत्र पूर्वोक्तो वैश्वानरः प्रथमा मात्रेत्याद्यनुवादः । अकार इत्यादिकं विधेयम् ॥ प्राज्ञस्तैजसश्चादिरस्येत्यादिमान् । सुप्तेरुत्थाने प्राज्ञाद् विभक्तो भवति विश्वः । स्वप्नादुत्थाने तैजसात् । आदिश्चास्योपासकस्य भवति ॥
श्रीव्यासतीर्थविरचिताटीका
खण्डार्थ:-
एवं चतुरो विश्वादीनिरूप्य तेषां प्रणवांशाकारादिप्रतिपाद्यत्वादि वक्तुमुक्तमनुवदति- सोऽयमात्माध्यक्षरमोङ्कार इति । यद्वक्तुमुक्तमनूदितं तद्वक्तुं प्रस्तावयति- अधिमात्रमिति ॥ अधिका मात्रा यस्य तदधिमात्र- मित्युक्ता मात्रा का इत्यत आह- पादा मात्रा इति ॥ पादाश्च क इत्यतोऽकारादिप्रतिपाद्या विश्वादयस्त इत्याह अकार इति ॥ अत्र नादप्रतिपाद्यस्तुरीयोऽपि ग्राह्यः । ' सोऽयमात्मा चतुष्पात्' इत्युक्तत्वात् । कः प्रथमः पादः के च द्वितीयतृतीयचतुर्थाः ? किञ्चाकारादीनां विश्वादिषु प्रवृत्तिनिमित्तं किञ्च तद्युक्ततया तद्वेत्तुः फलमित्यतः क्रमेण सर्वमाह - जागरितस्थान इत्यादिना ॥ १ ॥
भाष्यार्थ: -
अध्यक्षरमधिमात्रमिति पदद्वयमन्यथाप्रतीतेः व्याचष्टे - अधिकमि- त्यादिना ॥ अकार उकार मकार इत्येतद्ब्रह्मणोऽकाराद्यात्मकत्वार्थ- प्रतीतिं निवारयन् उपलक्षणत्वेन व्याचष्टे - अ इति ॥ जागरितस्थानो वैश्वानरोऽकारः प्रथमा मात्रेत्यादौ कोऽनुवादः किं विधेयमिति न ज्ञायते, तद्दर्शयति तत्रेत्यादिना । आप्तेरादिमत्त्वादित्यत्राप्तेः सर्वविषया- नयनादिति सुलभोऽर्थः । आदिमत्त्वं नाम किमित्यतस्तद् व्याचष्टे - प्राज्ञ इति ।। तैजसप्रज्ञादिमत्त्वं विश्वस्य कथमित्यतस्तद्दर्शयति- सुप्तेरिति ॥ तैजसाद्विभक्तो भवतीत्यनुवर्तते । उपासक आदिश्च भवतीत्यन्यथा- प्रतीतिं निवारयन् व्याचष्टे- आदिश्चेति ॥ १॥
श्रीवादिराजीयाप्रकाशिका
‘आप्तेरादिमत्वाद्वा' इत्यत्र आप्ल व्याप्ताविति धातोरौणादिके प्रत्यये कृते टिलोपे च सति अन्तर्णीतणिजर्थतायां च विषयानापयति जीवस्त सः (अः) अशब्दवाच्यः । आप्तः तैजसात् प्राज्ञाद्वा बहिः प्राप्तश्च अकारवाच्य इति भावः ।
श्रीनिवासतीर्थविरचितापदार्थदीपिका
एवं चतुरो विश्वादीन्निरूप्य तेषामेव चतुर्णां प्रणवांशाकारोकार- मकारनादप्रतिपाद्यत्वरूपं महिमानं वक्तुमुत्तरखण्डद्वयम् । तत्राद्यखण्डं विश्वादीनां त्रयाणां प्रणवांशाकारादित्रयप्रतिपाद्यत्वं वक्तुं अनूद्यते- सोयमात्माध्यक्षरमोंकार इति ।। तत्राध्यक्षरपदमन्यथाप्रतीतिनिरासाय व्याचष्टे- अधिकमिति ।। अधिकत्वस्यावधिसापेक्षत्वात्सर्वत इत्युक्तम् । यदर्थमुक्तमनूदितं तत्प्रस्तावयितुं प्रवृत्तम् । अधिमात्रमित्यादि । तत्राधिमात्रशब्दार्थमाह- अधिका इति || पूर्णाइत्यर्थः । अकार इत्यादौ अकारद्यभेद एवोच्यत इत्यन्यथाप्रतीतिनिरासायाह- अ इत्यनेनेति ।। आक्रियते व्यवह्रियते । 'वैश्वानरोऽकारः प्रथमा मात्रा' इत्यत्र यथास्थितवाक्यवृत्तावसिद्धस्यानुवादः सिद्धस्य बोधनमित्यापद्यते तच्चायुक्तम् । ‘सिद्धं धर्मिणमुद्दिश्य साध्यधर्मो विधीयते' इति न्याय- विरोधापत्तेरतो व्याचष्टे- तत्रेत्यादिना ।। तत्र विश्वादिचतुर्षु पूर्वोक्तः जागरितस्थान इत्युक्तः । इत्याद्यनुवाद इत्यत्रेत्यादिपदेन स्वप्न- स्थानस्तैजसो द्वितीयामात्रेत्यस्य, सुषुप्तस्थानः प्राज्ञस्तृतीयामात्रेत्यस्य च सङ्ग्रहः । द्वितीयादिपदेन उकारमकार इत्यस्य ग्रहणम् । विश्वस्याकार- वाच्यत्वे निमित्तद्वयं कथ्यते आप्तेरादिमत्त्वाद्वेति । तत्र विश्वस्यादि- मत्त्वमप्रतीतेर्व्याचष्टे- प्राज्ञ इत्यादिना || अस्य विश्वस्य । ननु विश्वं प्राज्ञतैजसयोः कथं कारणत्वापरपर्यायरूपमादिमत्वमित्यतस्तदुपपाद- यति - सुप्तेरित्यादिना ॥ सुषुप्त्यवस्थापन्न एव जीवस्ताडनादिना कदाचित्सहसैव जागर्तीत्यनुभवसिद्धम् । तदभिप्रायेण सुप्तेरित्याद्युक्तम् । स्वप्नं पश्यन्नेव कदाचिज्जागर्तीत्यप्यनुभवसिद्धम् । तदभिप्रायेण स्वप्नादी- त्यादि । आप्त्यादिमत्त्वाभ्यां निमित्ताभ्यां अकारवाच्यतया विश्ववेत्तुः फलप्रतिपादके आप्नोतीत्यादिवाक्ये आदिश्च भवतीत्येतत् उपासकः स्वयमादिर्भवतीत्यन्यथाप्रतीतिनिरासाय व्याचष्टे - आदिश्चेति ॥ विश्व इति वर्तते । मुक्तिकारणमित्यर्थः ॥ १ ॥