विश्वस्यात्वविवक्षायामादिसामान्यमुत्कटम्

उपनिषत्

(उक्तेऽर्थे ब्रह्मदृष्टश्लोकनिरूपणम्)

अत्रै श्लोका भवन्ति-

विश्वस्यात्वविवक्षायामादिसामान्यमुत्कटम् ।

मात्रासम्प्रतिपत्तौ स्यादाप्तिसामान्यमेव च ॥४॥१॥

भाष्यम्  

मात्रासम्प्रतिपत्तौ अंशध्याने । आदिमत्त्वं विश्वस्य विद्यते । तदुपासकस्यापि भवतीत्यादिसामान्यम् ॥

श्रीव्यासतीर्थविरचिताटीका

खण्डार्थ:-

चतुर्थं पादममात्रश्चतुर्थं इति वक्ष्यति ॥ एवमकाराद्यर्थयुक्तत्वेन विश्वाद्युपासकानामभीष्टकामावास्यादिकं फलमुक्तम् । तत्तथैवेति भावेन तत्र मन्त्रान् प्रमाणयन्नाह - अत्रत इति । मन्त्रान् पठति - विश्वस्ये- त्यादिना ॥ आदिसामान्यमादित्वेन साम्यम् ॥ ४॥

भाष्यार्थः -

मात्राः सम्प्रतिपत्तौइत्येतदप्रतीतेर्व्याचष्टे - मात्रेति ॥ विश्वस्यादित्व- विवक्षायामादिसामान्यमित्युक्तमुपासकस्य भवदादिसामान्यं किमिति न ज्ञायतेऽतस्तदाह- आदिमत्त्वमिति ॥ सुप्तेरुत्थान इत्यादिनोक्त- प्रकारेणादिमत्त्वं विश्वस्य विद्यत इति योज्यम् ॥ ४ ॥

श्रीवादिराजीयाप्रकाशिका

आदिसामान्यमुत्कटम्' इत्यत्र उत्कटमुत्कृष्टम्, आदिसामान्यमादि- मत्त्वेन साम्यम् । इयांस्तु विशेष : - विश्वस्य प्राज्ञतैजसाख्यादिमत्त्वम् । उपासकस्य तु स्वोपास्यविश्वाख्यादिमत्त्वम् । मुक्तौ परमानन्द- प्रापकत्वादुपास्यविश्वाख्यादिमत्त्वं यदुपासकस्य तदुत्कटमुत्कृष्ट- मित्युक्तमिति । अंशध्यान इत्यस्य विश्वाख्यांशध्यान इत्यर्थः ।

श्रीनिवासतीर्थविरचितापदार्थदीपिका

अत्रापि सलिलेश्वरः स्वोक्तार्थे संवादितया ब्रह्मदृष्टान् मन्त्रानुदाहरति- अत्रैत इत्यादिना ॥ तत्र मात्रा सम्प्रतिपत्तावित्यस्याप्रतीतेरर्थमाह- मात्रा सम्प्रतिपत्तावंशध्यान इति || ' आदिसामान्यमुत्कटम्' इत्येतदप्रतीतेः व्याकरोति- आदिमत्त्वमिति ॥ सुप्तेरुत्थाने प्राज्ञरूपादिमत्त्वं स्वप्नादुत्थाने तैजसरूपादिमत्त्वं विश्वस्यास्ति । तदादिमत्त्वम् । उपासकस्य विश्वोपासं- कस्यापि भवतीति मुक्त्यर्थं विश्वरूपादिमत्त्वमस्तीत्येवमादिसामान्यम् । आदिमत्त्वेन विश्वतदुपासकयोः साम्यं शब्दतो द्रष्टव्यमित्यर्थः ॥ ४ ॥

Load More