स्वप्नस्थानोऽन्तप्रज्ञः सप्ताङ्ग: ..
उपनिषत्
(वासनामयवस्तुस्रष्टा उकारप्रतिपाद्यः तैजसः )
स्वप्नस्थानोऽन्तप्रज्ञः सप्ताङ्ग: एकोनविंशतिमुखः प्रवि-
विक्तभुक् तैजसो द्वितीयः पादः ॥ ४ ॥
भाष्यम्
‘जाग्रद्दर्शनसंस्काररूपत्वात् स्वप्नगं तु यत् ।
'प्रविविक्तं तु तज्ज्ञानकारणोऽन्त उच्यते ॥' इति वाराहे ॥
श्रीव्यासतीर्थविरचिताटीका
खण्डार्थ:-
एवं समस्तप्रणवप्रतिपाद्यभगवदुपास्तिमुक्त्वा प्रणवांशैरकारोकारमकार-नादैः प्रतिपाद्यविश्वादीना मुपास्तिमकारउकारोमकार इत्यत्र वक्तुं प्रस्तावयति - सोयमात्मा चतुष्पादिति ॥
ते चत्वारः पादाः कानि च तेषां स्थानानि कश्च व्यापारः किं विधं च रूपं किञ्च भोग्यमित्यतो विश्वादीनां त्रयाणां पृष्टं सर्वमाह - जागरित- स्थान इत्यादिना ॥ ३ ॥
भाष्यार्थः -
सोऽयमात्मा जीवश्चतुष्पात् कथमित्याकाङ्क्षायां जागरितस्थान इत्याद्युच्यत इत्यन्यथाप्रतीतिं निवारयन् सोऽयमात्मा चतुष्पादित्यादि यथावद् व्याचष्टे- चतुर्धेत्यादिना । बहिर्बाह्यं प्रज्ञापयतीति बहिःप्रज्ञ इत्यस्यार्थः - 'निर्माता बाह्यसंवित्ते:' इति । गजवक्त्रक इत्युक्तम् । तत्र विशेषमाह - अष्टादशेति ॥ सप्ताङ्गत्वं निर्देशेनाह पादाविति । शुभानशुभांश्च स्थूलान् भुङ्क्त इति स्थूलभुगिति अन्यथाप्रतीतिं निवारयंस्तावद् व्याचष्टे - स्थूलानिति ॥ अग्निर्वैश्वानरो वह्निरित्यग्नि- पर्यायत्वप्रतीतिं निवारयन्स्तत्पदं निर्वक्ति- विश्वमिति ॥ विश् प्रविश्यते गम्यत इति यावत् । यतोऽतः सर्वगम्यत्वहेतुतः सर्वैर्ज्ञायमान- त्वात् स्थूलं विश्वं समुद्दिष्टं तत्सम्बन्धात् वैश्व इति शेषः । स एव न रीयते न क्षीयते यतोऽसावनाशान्नर इति वैश्वानर इत्यर्थः । विनायकेत्यादिना तु मूलाभिप्रेतं चतुर्णां माहात्म्यमुच्यते ।
प्रविविक्तभुक्त्वमन्तःप्रज्ञत्वं च किमित्यतः तदुभयं दर्शयति- जाग्र- दिति ।। यत्स्वप्नगन्तु वस्तु तदान्तरं बाह्यार्थाद्विविक्तञ्च तद्भुङ्क्ते भोज- यति जानाति ज्ञायपति चेति प्रविविक्तभुगन्तः प्रज्ञश्चेत्यर्थः ।। ३-४ ।।
श्रीवादिराजीयाप्रकाशिका
'निर्माता बाह्यसंवित्तेः' इति वदता बहिः प्रज्ञशब्दस्य बहि: प्रकर्षेण ज्ञापयतीति णिजन्तव्युत्पत्तिर्दर्शिता । यथाश्रुतार्थकल्पने 'एष सर्वज्ञ : ' इति वक्ष्यमाणश्रुतिविरोध: । अत एव जीव एव विश्व इति मतं निरस्तम् । ओङ्कारप्रतिपाद्यवस्तुकथनावसरे ओङ्कारजसृजीवकथनस्यानवसरदुःस्थ- त्वात् । ‘स्थूलान् भोगानिन्द्रियैः सः' इत्यत्र स्थूलान् भोगान् स्वप्ने दृश्यमानवासनामयस्रक्चन्दनवनितादिसूक्ष्मविषयभोगेभ्यः स्थूलान् स्रक्चन्दनवस्त्रवनितादिविषयभोगान् । बहुकालस्थायित्वादिना भोगानामपि स्थौल्यमिति भावः । तत्र तन्नामैव प्रमाणमिति सूचयन् वैश्वानरशब्दं निर्वक्ति - विश्वमिति । 'श्वि गतिवृद्धयो:' इति धातोः विशेषेण श्वः गतिरिव गतिर्यस्य तद्विश्वमित्यर्थः । स्वाप्नपदार्था एकैकद्रष्ट्रैव दृश्यन्ते । जाग्रत्पदार्थजालं तु सर्वैरपि दृश्यत इति भावः । तत्प्रदर्शकत्वेन तत्सम्बन्धि- त्वात् भगवान् वैश्वः । न रीयत इति नरः । वैश्वश्चासौ नरश्चेति समासः। दीर्घस्तु मित्रावरुणावितिवज्ज्ञेयः । जाग्रत्प्रवर्तकत्वेन जीवदेहगतस्य परमात्मनो नाशशङ्कावारणाय नरपदमित्यनुसन्धेयम् । इण् गताविति धातोः लङि ऐदिति रूपं भवति । 'अत ऐगजवक्त्रताम्' इत्युक्तम् । तथैव तैजसध्यानादिति वदता तैजसस्यापि विश्ववदेकोनविंशतिमुखत्वमिति सूचितम् ।
‘यत् प्रविविक्तम्' इत्यत्र प्रकर्षेण विविक्तमेकान्तस्थलस्थितमित्यर्थः। ‘विविक्त उपगम्य’ ‘विविक्तसेवी लध्वाशी' इत्यादौ प्रयोगदर्शनात् ॥
पदार्थदीपिका
एवं समस्तप्रणवप्रतिपाद्यभगवदुपस्तिमभिधायेदानीं प्रणवांशाकारोकार- मकारनादप्रतिपाद्यानां विश्वतैजसप्राज्ञतुरीयाणामुपास्तिं अकारः प्रथमा मात्रा उकारो द्वितीयमात्रा मकारस्तृतीया मात्रा अमात्रश्चतुर्थ इत्यत्र वक्तुमादौ प्रस्तावयति ॥ सोयमात्मा चतुष्पादिति ||
तत्र 'सोऽयमात्मा जीवश्चतुष्पाद्' इति अन्यथाप्रतीतिनिरासाय प्रमाणेनैतद् व्याचष्टे - चतुर्धेति || देह इति श्रुतौ शेषोक्तिः । ननु के चत्वारः पादाः कानि च तेषां स्थानानि कश्च व्यापारः ? किं विधं च रूपम्? किं च भोग्यम् ? इत्यतो विश्वतैजसप्राज्ञानां स्थानादीनि वक्तुं जागरितस्थान इत्यादिकोपनिषत् प्रवृत्ता । तत्र विश्वस्य स्थानादि- प्रतिपादनपरं जागरितस्थान इत्यादिप्रथमः पाद इत्यन्तं वाक्यमप्रतीत्य- न्यथाप्रतीतिनिरासाय प्रमाणेनैव व्याचष्टे - वैश्वानर इत्यादिना || जागरितस्थानगः दक्षिणाक्षिरूपजानरितस्थनस्थित इत्यर्थः दक्षिणाक्षिमुखे विश्व इति वक्ष्यमाणत्वात् । वैश्वानरस्य रूपविशेषमाह - गजेति ॥ बहिःप्रज्ञ इत्यस्य बहिष्ठं वस्तु प्रज्ञापयतीति तथोक्त इत्यभिप्रेत्य आह - निर्मातेति || जीवानां बाह्यसंवित्तेः बाह्यपदार्थ- विषयकज्ञानस्येत्यर्थः । अत्राप्यनुपलब्धिपरिहाराय तदगोचर इत्युक्तम् । गजवक्त्रक इत्युक्तं तत्र विशेषं वक्तुं प्रवृत्तं एकोनविंशतिमुख इत्येतत् । तद्विवृणोति - अष्टादशेति । अस्य वैश्वानरस्य मध्यममित्यनन्तरं बुध्या विवेकेन वचनविपरिणामेन मुखमित्यनुवर्तते । सप्ताङ्ग इत्यस्यार्थमाह- पादाविति || द्वौ पादौ हस्तिनो गजस्य करः पुरोभागी शुण्ड एकः हस्ताश्चत्वारो बाहवः । स्थूलभुगित्यस्य शुभानशुभांश्च स्थूलान् भोगान् भुंक्त इत्यन्यथाप्रतीतिनिरासार्थमाह- स्थूलानिति ||
भुज्यन्त इति भोगा विषयाः । इन्द्रियैः जीवेन्द्रियैः । 'श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च । अधिष्ठाय मनश्चायं विषयानुपसेवते' इति गीतावचनात् । वैश्वानरशब्दस्य 'अग्निर्वैश्वानरो वह्निः' इत्यभिधानबलेन
प्रसिद्धाग्निपरत्वप्रतीतिनिरासायार्थमाह - विश्वमिति ॥ कथमित्यत आह- सर्वेति || विश्यते ज्ञानेन प्रविश्यते गम्यत इति यावत् । तथाच सर्वैरपि ज्ञायमानत्वहेतुतः विश्वं स्थूलं समुद्दिष्टम् । भोक्तृत्वेन तत्सम्बन्धी भगवान् वैश्वः तस्येदमित्यण् । ' रीङ् क्षये' इति धातोः । न रीयते न क्षीयते अनाशात् अनाशनिमित्ततः नरः । वैश्वश्वासौ नरश्च वैश्वानर इत्युदाहृतो विश्वाख्यो भगवानित्यर्थः । अत्र वैश्वानर इति भाष्ये दीर्घस्त्वाधिक्यविवक्षया । 'संहितायां यत्र दैर्घ्यं पदे यत्र न दृश्यते । उक्तार्थस्य महाधिक्यं श्रुतेस्तत्र विवक्षितम्' इति वचनादित्याहुः । वस्तुतस्तु नरे संज्ञायामिति सूत्रेण विश्वशब्दस्य नरशब्दे परे संज्ञायां दीर्घविधानात् वैश्वानर इति युक्तमित्यवगन्तव्यम् । उपनिषदभिप्रेतानां विश्वादीनां उपासकान् दर्शयति- विनायकस्त्वित्यादिना || विनायको गणपतिः विश्वस्य ध्यानात् गजवक्त्रतां ऐत् । इण् गतौ प्रापेत्यर्थः । तथैव तैजसध्यानाद्गजवक्त्रतामैदिति सम्बन्धः । ‘तं यथा यथोपासते’ इत्यादिश्रुतेरित्यर्थः । त्रिध्यानात् त्रयाणां विश्वतैजसप्राज्ञानां ध्यानात् । चतुर्णां विश्वतैजसप्राज्ञतुरीयाणां ध्यानात् । उपसंहरति- एवंभूतगुण इति ।। विनायकादीनां गजवक्त्रतादिप्रदगुणोपेत इत्यर्थः ।
तैजसस्थानादिप्रतिपादनाय 'स्वप्नस्थान' इत्यारभ्य 'द्वितीयः पादः ' इत्यन्तं वाक्यं प्रवृत्तम् । तत्र प्रविविक्तभुक्त्वमन्तः प्रज्ञत्वं च कीदृश- मित्यतस्तदुभयं प्रमाणेन दर्शयति- जाग्रदिति । स्वप्नावस्थागतं यद्वस्तु तत् जाग्रत्कालीनपदार्थानुभवजन्यवासनोपादानकत्वात् प्रविविक्तम् । जाग्रददृष्टपदार्थापेक्षयात्यन्तविलक्षणम् । तज्ज्ञानकारणत्वादन्तःप्रज्ञः । तथा च प्रविविक्तं बाह्यपदार्थाद्विविक्तं स्वाप्नपदार्थजातं भुंक्ते स्वयं तदनुभवजन्यसारभोगवान् भवति । जीवं भोजयति चेति प्रविविक्तभुक् ।
तादृशपदार्थमन्तः देहान्तः मनसा करणेन जीवं प्रज्ञापयति स्वयंच जानातीत्यन्तःप्रज्ञ इत्यर्थ उक्तो भवतीति ज्ञातव्यम् ।। ३-४ ।।