नमो नमोऽस्तु हरये प्रेष्ठप्रेष्ठतमाय ते । परमानन्दसन्दोहसान्द्रानन्दवपुष्मते

अन्तिमंमङ्गलाचरणम्

भाष्यम्

नमो नमोऽस्तु हरये प्रेष्ठप्रेष्ठतमाय ते ।

परमानन्दसन्दोहसान्द्रानन्दवपुष्मते ||

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं षट्प्रश्नोपनिषद्भाष्यं सम्पूर्णम्

श्रीमज्जयतीर्थभिक्षुविरचिताषट्प्रश्नभाष्यटीका

अत एव भाष्यकारोऽप्यन्ते च भगवत्प्रणामं निबध्नाति - नम इति ॥

वचनप्रसूनमाला जयतीर्थाख्येन भिक्षुणा रचिता ।

ध्रियतां हृदये सदये कमलामहिलेन पुरुषेण ॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य षट्प्रश्नोपनिषद्भाष्यस्य विवरणं जयतीर्थभिक्षुविरचितं सम्पूर्णम्

श्रीवामनपण्डिताचार्यविरचिताषट्प्रश्रभाष्यटीका

अथ भाष्यकारभट्टारको ग्रन्थावसानेऽपीष्टदेवतायै हरये नमस्करोति - नम इति ॥

यस्य त्रिरूपाण्युदितानि वायौ वेदे बलज्ञानवतो बलादौ ।

दशप्रमत्याख्यतृतीयरूपी षट्प्रश्नभाष्यं कृतवान् रमेशे ॥

तस्य टीकामिमां शक्त्या कृत्वा विष्णोः पदाब्जयोः ।

समार्पयद्वामनोऽयं सततं तत्प्रसत्तये ॥

ज्ञानानन्दादिनिर्दोषसम्पूर्णगुणविग्रह |

सर्वप्रेष्ठप्रेष्ठतम नमो नारायणाय ते ॥

नमोऽस्तु श्रीमदानन्दतीर्थप्रज्ञाय नित्यशः ।

श्रीमन्नारायणपदद्वन्द्वं वन्दामहेऽनिशम् ॥

तत्पादसेवासुधया स्पर्धिता ये निरन्तरम् ।

परमेभ्यो गुरुभ्यो नः सर्वदैव नमो नमः ॥

इति श्रीमद्वामनपण्डिताचार्यविरचिता षट्प्रश्नटीका

श्रीनिवासतीर्थविरचिताषट्प्रश्रभाष्यटीकाटिप्पणी

एवं समापितग्रन्थाः टीकाकाराः स्वकृतां वचनप्रसूनमालां भगवत्यर्पयतिवचनेति ॥ महिला स्त्री । तत्तु परं ब्रह्म ॥ अत एवेति ॥ शिष्यशिक्षणार्थमन्ते वेदपुरषेण प्रणामस्य कृतत्वादेवेत्यर्थः ॥

श्रीनिवासेन विदुषा रचिता टिप्पणी शुभा ।

भूयाच्छ्रीव्यासदेवस्य पदयोरर्पिता सदा ॥

इति श्रीश्रीनिवासतीर्थविरचिता षट्प्रश्नभाष्यटीकाटिप्पणी

छलारीनारायणाचार्यविरचितंषट्प्रश्नटीकाविवरणम्

अत एवेति ॥ भाष्यकारस्य सर्वदा विष्णुनमस्कारकरणशीलत्वात् ग्रन्थान्ते निबन्धनस्य शिष्यशिक्षणार्थत्वादेवेति भावः । भाष्यस्थपदानामयमर्थः । अतिशयेन प्रियं प्रेष्ठ शरीरादि । तस्मादतिशयेन प्रियं रमादि। ततोऽप्यतिशयेन प्रियाय प्रेष्ठतमाय 'अतिशायने तमबिष्ठननौ' इति प्रत्यये प्रिय स्थिरेति प्रियशब्दस्य प्रवेशप्रकृत्यैकाजितिप्रकृतिभावे 'आदुण:' इति गुणे प्रेष्ठ इत्यादिरूपं भवति । परमाश्च ते निरवकाशाश्च ते आनन्दादयश्च तेषां सन्दोहः समुदायस्तेन सान्द्रं शिरः करचरणादिरूपेण स्थितं तच्च तत् आनन्दवपुश्चानन्दात्मकशरीरम्। तदस्तीति परमानन्दसन्दोहसान्द्रानन्दवपुष्मान् तस्मै । 'तस्य प्रियमेव शिरः' इत्यादि श्रुतेः । अन्तेऽपि श्रीमज्जयार्यवर्या मङ्गलं निबध्नन्ति - वचनप्रसूनमालेति ॥ कमला महिला पत्नी यस्य स कमलामहिलस्तेन कमलामहिलेन " वनिता महिलाऽथ साइत्यमरोक्तेः॥

स्रष्टा पाता प्राणसौख्यदाता... रणादिदः ।

तारोपास्यो मुक्तगम्यः श्रीपतिः पातु मां सदा॥

श्रीमध्वपुंसिंहकृतस्य भूयाच्छट्प्रश्नभाष्यस्य जयार्यटीका।

छलारिनारायणसिंहनाम्ना विवृतेशतुष्टये ॥

छनारि श्रीनारायणाचार्यकृतं षट्पश्नटीकाविवरणं समाप्तम्

ताम्रपर्णीश्रीनिवासाचार्यविरचिताषट्प्रश्रभाष्यटीकाटिप्पणी

अत एवेति ॥ शिष्यशिक्षार्थमेव । परमानन्दसन्दोहसान्द्रेति सम्बोधनम् । अत्र टीकाकृन्मुनिः स्वकृतिं हरावर्पयतिवचनेति ॥

लक्ष्मीब्रह्मशिवेन्द्रबीन्द्रमुखसद्देवेन्द्रसंवन्दित-

श्रीमत्पादयुगं जगज्जनिलयस्थित्यादिहेतुं परम्।

श्रीमन्मध्वमहामुनीन्द्रविलसद्भृत्पद्ममुख्यासनं

सान्द्रानन्दनिधिं भजे हरिमहं व्यासाभिधं शाश्वतम् ॥

श्रीविठ्ठलार्यपुत्रेण श्रीमत्तीर्थार्यसेविना ।

श्रीनिवासेन विवृता टीका षट्प्रश्नभाष्यगा ॥

इति श्रीमद्विठ्ठलाचार्यपुत्रेण श्रीमत्तीर्थार्यचरणसेविना श्रीनिवासेन रचितं षट्प्रश्नटीकाविवरणं समाप्तम्

मङ्कालीधर्मराजाचार्यविरचिताषट्प्रश्नभाष्यटीकाटिप्पणी

। अत एवेति ॥ भाष्यकारस्य सर्वदा विष्णुनमस्कार- शीलत्वाद्गन्थान्ते निबन्धनस्य शिष्यशिक्षार्थत्वादेवेति भावः । भाष्यस्थपदाना- मयमर्थः । अतिशयेन प्रियं प्रेष्ठं शरीरादि । तस्मादतिशयेन प्रियं रमादि । ततोऽप्यतिशयप्रियाय प्रेष्ठप्रेष्ठतमाय । परमाश्च ते निरवधिकाश्च ते आनन्दाश्च तेषां सन्दोहः समुदायः तेन सान्द्रं शिरः करचरणादिरूपेण स्थितं तच्च तत् आनन्दवपुश्च। आनन्दात्मकं शरीरं तदस्यास्तीति परमानन्दवपुष्मान् तस्मै ।तस्य प्रियमेव शिरः' इत्यादिश्रुतेरिति ॥

अन्तेऽपि जयतीर्थ श्रीमच्चरणः मङ्गलं निबध्नाति - वचनेति ॥ कमला लक्ष्मीः । 'कमला श्रीहरिप्रिया' इत्यमरोक्तेः महिला पत्नी यस्य स कमला- महिलः तेन कमलामहिलेन । अन्यपदार्थस्य कमलामहिलत्वं कुत इत्यत उक्तम् - पुरुषेण पूर्णषड्गुणत्वात्परमपुरुषेणेति ॥ भिक्षोर्माला निर्माणे नाधिकार इत्यत उक्तम्॥ वचनेति ॥ वचनानि प्रसूनानीव वचनान्येव प्रसूनानीति वा समासः । कमलापतेरेतादृशमालाधारणेन किं प्रयोजनमित्यत उक्तम् ॥ सदय इति ॥ भक्तानुकम्पयैव धारणमिति भावः ॥ ६-४ ॥

षट्प्रश्नोपनिषद्भाष्यटीकाव्याख्यानमात्रतः।

इन्दिरारमणः प्रीतिं यातु मध्वार्यहद्गतः ॥

इति श्रीमङ्कालीधर्माचार्यविरचिता षट्प्रनटीकाटिप्पणी समाप्ता गूढकर्तृकाषट्प्रश्नभाष्यटीकाटिप्पणी

गूढकर्तृकाषट्प्रश्नभाष्यटीकाटिप्पणी

एवं समापितभाष्यविवरणः श्रीमज्जयतीर्थश्रीमच्चरणः स्वकृतं हरावर्पयति- वचनप्रसूनमालेत ॥ ६-४ ॥

इति गूढकर्तृकं दुर्घटार्थविवरणं समाप्तम्