स यथेमा नद्यः स्यान्दमानाः समुद्रायणाः ..

मुक्त कलानामवस्थितिप्रकारः- नामरूपाणां नित्यत्वम्

उपनिषत्

स यथेमा नद्यः स्यान्दमानाः समुद्रायणाः समुद्रं प्राप्यास्तं गच्छन्ति भिद्येते तासां नामरूपे समुद्र इत्येवं प्रोच्यते । एवमेवास्य परिद्रष्टुरिमाः षोडशकलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति भिद्येते चासां नामरूपे पुरुष इत्येवं प्रोच्यते । स एषोऽकलोऽमृतो भवति ॥ ३ ॥

भाष्यम्

'समुद्रे इत्येवं प्रोच्यते । पुरुषे इत्येवं प्रोच्यते । भिद्येते तासां नामरूपे । भिद्येते चासां नामरूपे' इत्युक्तत्वात् । अज्ञैरनवगतान्यपि समुद्रे स्थितानां नदीनां, विष्णौ स्थितानां मुक्तानाञ्च भिन्नान्येव नामरूपाणि सन्त्येवेत्यर्थः॥

न च भेदशब्दो नाशे प्रयुज्यमानः क्वापि दृष्टः । घटादावपि बहुभाव एव भेदशब्दः प्रयुज्यते । नाशस्त्वर्थत एवावगम्यते । न चात्रार्थतोऽपि नाशोऽवगम्यते । न हि नामानि रूपाणि च कपालवद् बहुधा भूतानि तिष्ठन्ति । अतो भिद्येते इति पृथक्त्वमेवोच्यते । 'अरा इव रथनाभौ कला यस्मिन् प्रतिष्ठिताः' इति वाक्यशेषाच्च । अतः पुरषे भिन्नानि नामरूपाणि प्रतिष्ठितानीत्येवार्थः । अस्तगमनं त्वादित्यवदज्ञानामविज्ञेयत्वमेव ।

'प्राणादयः कला यस्मिन् मुक्ता नित्यं प्रतिष्ठिताः ।

पृथक् पृथक् नामरूपैर्नमस्तस्मै पराय ते ।।' इति सत्तत्त्वे ॥

'नामरूपाद्विमुक्तः' इत्यनेनापि नामरूपामुक्तत्वमुच्यते । विप्रिय इत्यादिवत्। नामरूपे अविहायेति च पूर्वत्र । 'अनन्तं वै नामानन्ता वै विश्वेदेवाः' इति नामरूयोरनन्तत्वं हि श्रुतिर्वक्ति ।

'यत्र पूर्वे साध्याः सन्ति देवाः ' ' स तत्र पर्येति जक्षन् क्रीडन् रममाणः '

'सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता' 'ऋचां त्वः पोषमास्ते पुपुष्वान् गायत्रं त्वो गायति शक्करीषु' इत्यादेश्च । अतः सर्वमुक्तेभ्योऽप्युत्तमोत्तमः परिपूर्णो नारायण इति सिद्धम् ॥ ३ ॥

 श्रीमज्जयतीर्थभिक्षुविरचिताषट्प्रश्नभाष्यटीका

' यस्मिन्नेताः षोडशकलाः प्रभवन्ति' इति कलानां मुक्तौ परमपुरुषा- श्रयत्वमभिधाय यथेत्यादितद्विवरणवाक्ये सदृष्टान्तं पुरुषैक्यमुच्यते । यथा लोके इमा नद्यः स्यन्दमानाः स्रवन्त्यो गच्छन्त्य इति यावत् । समुद्रायणाः समुद्रगमन- स्वभावाः समुद्रं प्राप्यास्तं स्वरूपतिरस्कारं गच्छन्ति । तासाञ्च भिद्येते विनश्यतः । नामरूपे गङ्गा यमुना इत्यादिलक्षणे । तद्भेदे समुद्र इत्येवं प्रोच्यते तदुदकलक्षणं वस्तु। एवमेवास्य परिद्र्ष्टुर्जीवस्येमाः षोडशकलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति। तासाञ्च नामरूपे प्राण इत्यादिनामरूपे भिद्येते । नाशे च नामरूपयोर्यदनष्टं चैतन्यं तत्पुरुष एवेत्युच्यते विद्वद्भिः । ततस्स एष जीवोऽकलोऽमृतो भवतीति । तदेतत्कथमित्यतो मुक्तेश्वरभेदस्यात्रानुपलभ्यमानत्वाद्यस्मिन्निति तदुक्तिरयुक्तेति शङ्कापरिहाराय भेद एव समर्थ्यत इति भावेनाऽह- समुद्र इति ॥ समुद्रे पुरुषे इति सप्तमी । न प्रथमेत्यर्थः । तत्कुत इत्यत आह- भिद्येते इति ॥ समुद्रं प्राप्तानां नदीनां, पुरुषं प्राप्तानां कलानां च परस्परं समुद्रादेश्च विविक्तानामरूप- वत्त्वस्योक्तत्वात्। प्रथमान्तत्वाङ्गीकारे तद्विरोधः स्यात् । नहि नद्यादीनां समुद्रादिभिरैक्यं विविक्तनामरूपवत्त्वञ्चेति युज्यते। अतः सप्तम्यन्तत्वमेवेत्यर्थः । तर्हि भिद्ये तासामित्यादिवाक्यस्य कथं योजनेत्यत आह- अज्ञैरिति ॥ अस्तं गच्छन्तीत्यस्यानुवादो अज्ञैरिति । तथाहि वक्ष्यति । तथाचेयमक्षरयोजना- नद्यः समुद्रं प्राप्यास्तमदर्शनं गच्छन्ति । अज्ञानामदर्शनं गतानामपि तासां समुद्रे स्थितानां नामरूपे भिद्येते विविक्ते एव तिष्ठत इत्येवं विद्वद्भिः प्रोच्यते । एवं कला अपि जीवमोक्षकाले मुक्ताः परमपुरुषं प्राप्यादर्शनं गच्छन्ति । तथापि पुरुषे स्थितानां तासां नामरूपे विविक्ते एव तिष्ठत इत्येवं विद्वद्भिः प्रोच्यते । ततश्च कलादेवतासु मुक्तिं गतासु स एष जीवो नष्टाचेतनकलो भवति । तत एवामृतो भवति । कलानिमित्तं हि मरणमस्येति ॥

ननु भिद्येते इत्यस्य नाशोऽर्थो मयाऽङ्गीक्रियते । तत्कथम्। प्रथमान्तत्वे एतद्विरोध इत्यत आह-नचेति । दृष्ट एव घटो भिन्न इत्यादौ नाशे च प्रयुज्यमानो भेदशब्द इत्यत आह- घटादावपीति । बहुभावे अवयवविभागे । कथं तर्हि भिन्नो घट इति प्रयोगे नष्ट इति प्रत्ययः श्रोतॄणामित्यत आह- नाशस्त्विति ॥ भिन्नशब्दाज्ज्ञातावयवविभागेन श्रोत्रा यस्यावयवविभागस्तस्य नाशमन्तरेणा- सावनुपपन्न इत्यनुमानेनैव नाशोऽवगम्यते, न शब्दशक्त्येत्यर्थः । अस्तु तर्हि प्रकृतेऽप्यर्थत एव नाशावगमः । नहि शब्दशक्त्यैवेति प्रतिज्ञातमस्माभिरित्यत आह-नचेति ॥ कुतो नेत्यत आह-नहीति । नहि घटादाविव नामरूपयोरवयव- विभागो भेदशब्देनोच्यते इति वक्तुं शक्यते । येन तदनुपपत्त्या नाशं निश्चिनुमः । अद्रव्यत्वात्। नह्यनुपपद्यमानादर्शनेऽप्युपपादके बुद्धिर्भवतीत्यर्थः । यत एवं भेदशब्दः शक्तितो ऽर्थतश्च न नाशवाचकोऽत उक्तरीत्या पृथक्त्वपर एव । ततश्चैतद्विरोधात्समुद्रादिपदं सप्तम्यन्तमेवेति । उपसंहरति- अत इति ॥

किञ्च तदेष श्लोकः । अरा इवेत्युक्तार्थसम्मतित्वेनोदाहृतमन्त्रे कलानां परमपुरुषाश्रयत्वस्योक्तत्वात् । अत्रापि पुरुषपदं सप्तम्यन्तमेवेत्याह- अरा इति ॥ पुरुषशब्दस्य सप्तम्यन्तत्वोपपादनमुपसंहरति- अत इति ।। अरा रथनाभाविव कलाः प्राणाद्याः यस्मिन् प्रतिष्ठिताः तं वेद्यं पुरुषार्थकामैर्ज्ञातव्यं पुरुषं वासुदेवं वेदयथाः जानीध्वं हे शिष्याः न इति कस्यचिद्वाक्यम् । ततश्च मृत्युस्संसारो वो युष्मान् मा परिव्यथाः मा परिव्यथयतु । परमपुरुषाज्ञाने संसारव्यथा भवेत्। सा भवतां मा भवत्विति। एवं चेत् 'समुद्रं प्राप्यास्तं गच्छन्ति' इति 'पुरुषं प्राप्यास्तं गच्छन्ति' इति स्वरूपतिरस्कारोक्तिः कथमित्यतः प्राक् सूचितमेवार्थं विवृणोति - अस्तगमनं त्विति ॥ एवं समर्थितं वाक्यार्थं वाक्यान्तरसमाख्ययाऽपि समर्थयते- प्राणादय इति ।।

ननु मदुक्तार्थेऽपि 'यथा नद्यः स्यन्दमानाः' समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय । तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्' इति मन्त्रसमाख्याऽस्ति । अत्र हि मुक्तस्य नामरूपाद्विमुक्तत्वमुच्यत इत्यत आह- नामरूपादिति ॥

वीत्युपसर्गस्य वर्जनार्थतायाः विप्रियादिशब्दे दर्शनादत्रापि तथात्वेन विमुक्त इत्यमुक्तत्वमुच्यत इत्यर्थः । नच समासानुपपत्तिः । मुक्तशब्दस्य भावप्रधानत्वो- पपत्तेः । भावे वाऽयं क्तप्रत्ययः । ततश्च विगतं मुक्तं मुक्तिरस्मादित्यतिचतुरस्रम् | एवं सति पूर्वार्धोक्तदृष्टान्तविरोधः स्यात् । तत्र नामरूपे विहायेति तद्धानस्योक्त- त्वादित्यत आह- नामरूपे इति ॥ पूर्वत्र पूर्वार्धेऽपि अविहायेत्येव योज्यम् । नतु विहायेतीत्यर्थः । कुत एवं पूर्वोत्तरार्धयोजनेत्यत आह- अनन्तमिति ॥ विश्वेदेवा इति रूपस्यानन्तत्वमुच्यते । मोक्षेऽपि भेदश्रुतिबाहुल्याच्चैवमेवार्थ इत्याह- यत्रेति ॥ श्रुतिविरोधादेव मणीवादिवदत्राप्यप्रगृह्यत्वं वक्तव्यम् । एतत्प्रश्नप्रतिवचनार्थं प्रसङ्गादुपसंहरति- अत इति ॥ ३ ॥

श्रीवामनपण्डिताचार्यविरचिताषट्प्रश्रभाष्यटीका

समुद्र इत्येवं प्रोच्यते । पुरुष इत्येवं प्रोच्यते । इत्यनयोर्दृष्टान्त- दान्तिकवाक्ययोः समुद्रे पुरुषे चेति पदच्छेदं करोति । स यथेमा नद्यः स्यन्दमाना इति दृष्टान्तवाक्येन नद्यः समुद्रे स्थिता इत्येवं भेद एवोच्यते । एवमेवास्येति दार्शन्तिकवाक्येऽपीमाः कलाः पुरुषे स्थिता इत्येवं भेद एवो- च्यते। कुतस्तासां नदीनां नामरूपे समुद्रस्य नामरूपाभ्यां भिद्येते इत्युभयत्रापि भेदस्यैवोक्तत्वात् । अथ समुद्रः पुरुष इति पदं छित्वा ताः समुद्रा भवन्ति इमाश्च पुरुषा भवन्तीत्येवमभेदः प्रोच्यत इत्यङ्गीकारे तत्तन्नामरूपयोर्भेदविधिविरोधः स्यात् । अनयोर्वाक्ययोरभिप्रायं वक्ति- अज्ञैरिति ॥ अत्र भिद्येते इति भेदशब्दस्य नाशार्थत्वमित्याशङ्कय परिहरति- नचेति ॥ भेदशब्दार्थं निगमयति - अत इति ॥ नामरूपयोः पृथक्त्वमेवोच्यते । नतु नाशः । वाक्यशेषेऽप्याधारा- धेयभावेन भेदोक्तेः । अथ वाक्यार्थं निगमयति- अत इति ॥ नच 'अस्तं गच्छ- न्ति' इत्यपि नाश उच्यत इत्याह- अस्तगमनं त्विति ॥ अविज्ञेयत्वं स्थाना- न्तरप्रवेशान्मुक्तानां नामरूपप्रहाणमन्यत्रापि नोच्यत इत्याह- नामरूपादिति ॥ नामरूपाभ्यां मुक्तो न भवतीति विमुक्त उच्यते । प्रियो न भवतीति विप्रिय इतिवत् । नच तत्र नामरूपे विहायेति पूर्ववाक्यविरोधः । तत्राप्यविहायेत्य- भिप्रेतत्वात्। नामरूपयोरनन्तत्वमनन्तकालीनत्वम् । 'यत्र पूर्वे साध्याः सन्ति देवाः' इत्यादिश्रुत्युपन्यासादिहोक्तानां प्राणादिदेवतानां पूर्वापरकालवर्तिना- मप्यनन्तपरम्पराणां परमपुरुषाद्भिन्नत्वं तदुपासनान्मोक्षं स्वेच्छयैव सञ्चरणादिकं सर्वकामभोगं सर्वविद्याभिरपि भगवद्ध्यानं चेत्यादि बहूनर्थविशेषानभिप्रेतान् प्रकटयति। अस्यामुपनिषद्यादित आरभ्य उक्तमर्थमशेषं निगमयति-- अतः सर्वमुक्तेभ्योऽप्युत्तमोत्तमः परिपूर्णो नारायण इति सिद्धमिति ॥ ६-३ ॥

श्रीवादिराजतीर्थविरचिताषट्प्रश्नभाष्यटीकाप्रकाशिका

'अनुपलभ्यमानत्वाद्यस्मिन्निति तदुक्तिः' इत्यत्र यस्मिन्निति वाक्ये तदुक्तिः भवद्भिः कथितजीवेश्वरभेदोक्तिरयुक्तेति शङ्कितुरभिप्रायः । अदर्शनं गच्छन्तीत्यत्रामुक्तानामदर्शनं गच्छन्तीत्यर्थः ।

'बहुभाव एव भेदशब्दः प्रयुज्यते ' इत्यत्र अत एवाऽऽमघटे स्वरूपत एव जलेन द्रवीभूते सति, अग्निना पटे स्वरूपत एव दग्धे सति च भिन्नो घटो, भिन्नः पट इति च प्रयोगो न दृश्यते, किन्तु नष्ट इत्येव प्रयोगः । शकलीभूतघटपटयोरेव भिन्नो घटो, भिन्नः पट इत्यादिव्यवहारो जायत इति । 'भिद्लृ विदारण' इति हि धातुः, नतु विनाश इति युक्तिरनुसन्धेया । 'अरा इव रथनाभौ' इत्यत्रारशब्देनान्योन्यसन्धायकतया निर्मिता अयर्शलाका उच्यते। अत्र चारा इति रथनाभाविति च नामभेदस्य रूपभेदस्य च स्फुटतयोक्तत्वात् पूर्ववाक्येऽपि भेदोऽन्योन्याभाव एव, नतु नाशः । 'विप्रियादिशब्दे दर्शनात्' इत्युपलक्षणम् । 'विर्निषेधे पृथग्भावे' इत्यनुशासनादित्यपि द्रष्टव्यम् । 'नच समासानुपपत्तिः ' इत्यत्र वीत्युपसर्गस्य विगत इत्यर्थग्रहणे समासानुपपत्तिरित्यर्थः। अनुशासन- बलेन विशब्दस्य निषेधार्थकत्वे विमुक्त अमुक्त इत्येवार्थकथनान्न काचिदनु- पपत्तिरित्यनुसन्धेयम् ॥ ३ ॥

षट्प्रश्नोपनिषद्भाष्यटीकार्थकथनेन मे ।

प्रीतो हयमुखः श्रीमान् कामादीन् हन्तु षड्रिपून् ।

इति श्रीमत्कविकुलतिलकवादिराजपूज्यचरणविरचिता षट्प्रश्नोपनिषद्भाष्यटीकाटिप्पणी समाप्ता

श्रीनिवासतीर्थविरचिताषट्प्रश्रभाष्यटीकाटिप्पणी

भवतीति पुरुषैक्यमुच्यत इत्यन्वयः ॥ तत्कथमिति ॥ परस्परविरुद्धं वाक्यद्वयं कथमित्यत एकवाक्योक्तं स्वीकृत्य अपरवाक्योक्त- मयुक्तमिति वाच्यम्। तत्र वयं वदामो यस्मिन्नित्याश्रयत्वेन भेदोक्तिरेवायुक्तेति कुत इत्यतस्तत्र हेतुः - मुक्तेश्वरेति ॥ यथेत्यादितद्विवरणवाक्य इति शेषः । इति शङ्कापरिहारायेत्यर्थः । समर्थ्यत इति । यथेत्यत्राविरोधमेवोपपादयति- नहीति ॥ विविक्तेति ॥ भेदोपपादकमिति शेषः । ननु तस्यायमनुवाद इति कुतो ज्ञायत इत्यतो वक्ति- तथाहीति ॥ अस्तगमनं त्वित्युत्तरत्रेत्यर्थः ।। कलानिमित्तमिति पञ्चमहाभूतैकादशेन्द्रियरूपषोडशकलात्मकदेहसम्बन्धस्यैवोत्पत्तिमत्त्वेन तत्सम्बन्धनाशस्यैव मरणत्वादिति भावः । भेदशब्दो दृष्ट एवेत्यन्क्यः । विभागेन विभागवता अनुमानेन अयं नष्टोऽवयवविभागवत्त्वाद्घटवदित्यनुमानं द्रष्टव्यम्। अर्थत एव अवयवविभागा येन घटादाविव नामरूपयोरवयवविभागो यदि भेदशब्देन यद्युच्यतेति यावत् । तदनुपपत्त्या तस्यावयवविभागस्य नाशं विनानु- पपत्त्येत्यर्थः । ननु नामरूपे भिद्यत इत्यत्र नामरूपयोर्भेदशब्देनावयव- विभागाङ्गीकारे को दोष इति चेन्न । द्रव्य एवावयवानां सत्त्वेन तत्रैव तद्विभागसम्भवात्। नामरूपयोश्चाद्रव्यत्वात्तत्रावयवविभागोक्तिरयुक्त्याह- अद्रव्यत्वादिति ॥ नन्ववयवविभागासम्भवेऽपि नाशो भेदशब्दार्थतयावगम्यत इति चेन्नेत्याह- नहीति ॥ प्राक्सूचितमिति ।। अज्ञैरनवगतान्यपी- त्यनेनेत्यर्थः ॥ नच समासानुपपत्तिरिति । 'समर्थः पदविधि:' समर्थं सुबन्तं समर्थेन सुबन्तेन समस्यत इत्युक्तत्वेन विगतो मुक्तो यस्मादिति विग्रहे मुक्तशब्दोक्तमुक्तिमत्पुरुषवियोगस्यैव प्राप्त्या मोचनरूपक्रियावियोगस्या- प्राप्त्यार्थाबाधरूपयोग्यतापरपर्यायसामर्थ्याभावेन वीत्युपसर्गस्य मुक्तपदेन समासोऽनुपपन्न इत्यर्थः । ननु अव्ययं विभक्तिसमीपसमृद्धिवृद्ध्यर्थाभावेत्या- दिनाऽर्थाभावे यदव्ययमिति मक्षिकाणामभावो निर्मक्षिकमितिवत् मुक्ताभावो मुक्त इत्यव्यीभावसमासः किन्न स्यादिति चेन्न । एवमपि मुक्तशब्दोक्त- पुरुषाभावस्यैव प्राप्त्योक्तरीत्या सामर्थ्येन समासानुपपत्तिरेव । किञ्चाव्ययी- भावत्वेऽव्ययीभावश्चाव्ययीभावो नपुंसकं स्यादिति निर्मक्षिकमितिवत् विमुक्तमिति नपुंसकनिर्देशः स्यादित्यपि दोषो द्रष्टव्यः । ननु न ब्राह्मणोऽब्राह्मण इत्यादिवन्न मुक्तो विमुक्त इति नञ्समासः कस्मान्न स्यादिति चेत्सत्यम् । अत्र नामरूपाभ्यां मुक्तो न भवतीत्यर्थाबाधरूपसामर्थ्यस्याप्राप्तत्वान्नञ् इति सूत्रेण

नञः समासो वक्तव्यः। नचासावत्र सम्भवति । वीत्युपसर्गस्य नत्वाभावादिति पुनः समासानुपपत्तिरेवेति प्रकारान्तरेणैतद्वाक्यार्थोपपादनं कार्यम्॥ भावेति ॥ तथाच मुक्तो मुक्तत्वम् । मुक्तत्वशब्देन च धूमवतो भावो धूमवत्त्वम् । धूम एवेतिवन्मुक्तत्वस्य भावे धर्मो मुक्तत्वं मुक्तिरेवेत्यायाति । तथाच विगतं मुक्तत्वं नाम मुक्तिर्यस्मादिति भावप्रधानं कृत्वा बहुव्रीहिसमासकरणे नानुपपत्ति- रित्यर्थः ॥

भावप्रधानमकृत्वा इममेवार्थं प्रकारान्तरेणानयति- भावे वेति ॥ पक्ष- द्वयेऽप्यर्थस्त्वेक एव। परं तु पूर्वे भावप्रधानकरणमिदानीं तदभाव इत्येतावानेव विशेषो बोध्यः । अतिचतुरस्रम् । अत्युपपन्नमित्यर्थः । विश्वेदेवा इति रूपस्येति । अनन्तं नामेति नामप्रपञ्चस्यानन्तशब्देन नाशाभावमुक्त्वा 'अनन्ता वै विश्वेदेवाः' इति समस्तदेवरूपप्रपञ्चस्यार्थरूपप्रपञ्चस्यापि नाशाभावोऽनन्त- शब्देनोच्यत इत्यर्थः ।

ननु 'ईदूदेद्द्द्विवचनं प्रगृह्यम्' ईदूदेदन्तं द्विवचनान्तं प्रगृह्यसंज्ञं स्यात् । न सन्धिं यातीत्यर्थः इत्युक्तत्वादस्य च ईदन्तत्वात् गङ्गे अमू इत्यादिवत् नामरूपे अविहाय इति प्रगृह्यसंज्ञं स्यादिति शङ्कायां तत्रोक्तम्- मणीवादिवदिति ॥ 'मणीवादिना' इति वार्तिकेन मणीवादिगणोपरि प्रगृह्यसंज्ञानिषेधात्तस्य चाकृति- गणत्वात् . मणी इव मणी वा, रोदसी इव रोदसी वेतिवन्नायं नामरूपेऽविहाय नामरूपे विहायेति सन्धिर्ज्ञातव्य इत्यर्थः । ननु बलादेवं पदं विच्छिद्य तत्र प्राप्तानुपपत्तिपरिहाराय मणीवादित्वसमाधानाय सः कुतः विहायत्येव न पदं क्रियत इत्यत उक्तम् ॥ श्रुतीति ॥ अनन्तं वा इत्यादि श्रुतिरित्यर्थः ॥ ६-३॥

छलारीनारायणाचार्यविरचितंषट्प्रश्नटीकाविवरणम्

स्रवन्त्य इति । स्यन्दू प्रस्रवणे इति धातोः । गच्छन्त्य इति तु तात्पर्यकथनम् । समुद्रायणा इत्यत्र अय पय गतावित्यतः भावे ल्युटि समुद्रं प्रति अयनं गमनमेषामस्तीति नित्ययोगे 'अर्श आद्यच्' इति भावेनाह- समुद्र- गमनस्वभावा इति ॥ अस्तमिति ॥ असु क्षेपण इत्यतः नपुंसके भावे क्त इति क्तप्रत्यय इति भावः ॥ नामरूपे गङ्गायमुनेत्यादिलक्षण इति ॥ नामशब्दात्मकं रूपं तद्वाच्यार्थात्मकमित्यर्थः । नतु रूपशब्देन शुक्लादिकं गृह्यत इति ज्ञेयम् । पुरुष इत्येवं प्रोच्यत इत्यत्र पुरुषशब्दस्य विशेषादर्शनात्तदध्याहारति-यदनष्टं चैतन्यमिति ॥ एवं दृष्टान्ते तदुक्तलक्षणं वस्त्वित्यत्रापि सङ्गतिर्द्रष्टव्या ॥ तदेत- त्कथमिति । तस्मात्प्राणमसृजतेत्यादिवाक्ये प्राणादिदेवानां विष्णोश्च मुक्तौ तारतम्यकथनपरत्वेन कथं व्याख्यातमित्यर्थः । इत्यत इत्यस्य भेद एव समर्थ्यत इति भावेनेत्यनेनान्वयः । मुक्तेश्वरभेदस्यानुपलभ्यमानत्वादिति ॥ समुद्र इत्येवं प्रोच्यत इत्यादिमूलसङ्गत्यनन्तरं अस्यार्थः । यस्मिन्निति भेदप्रयुक्ताश्रयत्वोक्तिः कथम्? अस्मिन्प्रकरणे भेदस्याप्रतीतेरित्याशङ्कापरिहाराय चेति । अस्यापि भेद एव समर्थ्यत इति भावेनाहेत्यनेनान्वयः ॥ नाशोऽर्थ इति ॥ मुद्गरेण घटो भिद्यत इत्यादौ तथा प्रतीतेरित्यर्थः ॥ अनुमानेनेति ॥ मूले अर्थत इत्यनेनार्थापत्ति- रूपमनुमानं गृह्यते। अत्रापत्तिरित्यत्रार्थापत्तिः अर्थाल्लिङ्गदर्शनादापत्तिः प्रमेयज्ञानम् । यथा पीनत्वदर्शनेन रात्रिभोजनज्ञानम् । तथा चार्थत इत्यत्रानुपपद्यमान- दर्शनाद्धटावयवविभागदर्शनात् । घटस्य नाशोऽवगम्यत इति अर्थापत्तिरूपानुमानेन नाशोऽवगम्यत इत्युक्तं भवति ।। अद्रव्यत्वादिति ॥ घटादिवत् प्रत्यक्षेण प्रतीयमानावयवविभागशून्यद्रव्यत्वादित्यर्थः । पक्षे हेतुमुपपादयति- नहीति ॥ नद्यादावयवविभागानां प्रत्यक्षेण प्रतीतावपि नाशानुमानं नहि सम्भवि । घटा- वयवानां समुद्रावयवैर्मिश्रत्वरूपसंयोगमात्रप्रतीतेरिति भावः ॥ उपसंहरतीति ॥ भाष्ये भिन्नानि प्रतिष्ठितानीति नपुंसकलिङ्गपदयोर्नामानि रूपाणीति । पूर्वोक्तपदा- भ्यामन्वयः ॥ अरा इति ॥ धारा इत्यर्थः ॥ वेदयथा जानीध्वमिति । उत्तरत्र मा व इति बहुवचनप्रयोगात् वेदयथा इत्येकवचनव्यत्ययेन बहुवचनं कृतम् । तेषां मोक्षफलोक्तेस्तत्साधनज्ञानस्यापेक्षितत्वाण्णिजपि स्वार्थे कृतः ॥ मा परिव्यथाः मा परिव्यथयत्विति ॥ न भयं प्रापयत् न समचालयत् । तत्त्वज्ञानादिति शेष इति वा । व्यथ भयसञ्चलनयोः इति धातोरन्तर्णीतण्यर्थाल्लेटि तिप्स्थाने व्यत्ययेन मध्यमपुरुषशिबादेशे अडागमे इतश्च लोपे परस्मैपदेषु इतीकारलोपे सस्य रुत्वविसर्गयोर्मूले परिव्यथा इति रूपं सिद्धम् । अत्र निषेधार्थको माशब्दः प्रयुक्तः। तेन माङ्योगाभावात्माङि लुङ्' इति लुङन्तम् । अनेनैवाशयेन टीकायां निषेधार्थकं माशब्दं प्रयुज्य परिव्यथा इत्यस्य प्रतिपदं परिव्यथयत्विति लोट्प्रयोगः कृतः । लिङ लोडिति विधिनिमन्त्रणेत्यनुवृत्तौ लोट् चेति लोट्समानाथत्वोक्तेः । अत्र लेट् लोडर्थस्तु प्रार्थना ग्राह्या । जानीध्वमिति मध्यमपुरुषप्रयोगबलात् हे शिष्या इत्यध्याहृतम् । सम्मतित्वेनोदाहृतस्य शाखान्तरस्थत्वेन पिप्पलादे- र्वाक्यत्वाभावात् कस्येदं वाक्यमित्यत आह- कस्यचिद्वाक्यमिति ॥ तच्छाखा- द्रष्टुरित्यर्थः ॥ प्राक्सूचितमिति ॥ समुद्रं प्राप्यास्तं गच्छन्तीत्यत्र पूर्वं भाष्ये अज्ञैरनवगतानीत्यनुवादेनास्तं गच्छन्तीत्यस्य अज्ञैरनवगतत्वमेवार्थ इति सूचित- मिति भावः।। आदित्यवदिति ॥ भाष्यस्य यथा मेरोः पूर्वभागे विद्यमानं प्रति मेरोः पश्चिमभागे विद्यमानस्याप्यस्तङ्गमनं नाम तदज्ञेयत्वम् । तथा मुक्तपुरषाणामपि परमपुरुषेऽस्तगमनं नाम संसार्यज्ञेयत्वमित्यर्थः ॥ आदित्यवदिति ॥ 'तत्र तस्यैवेति षष्ठ्यन्ताद्वति:- मदुक्तार्थेऽपीति । समुद्रप्रविष्टनदीनां ब्रह्मप्रविष्टमुक्तानां नामरूपाभाव इत्यर्थः। वर्जनार्थताया इति ॥ 'विर्लये च विशेषे च वैपरीत्यादिषु स्मृतः' इति एकाक्षररत्नमालायाम् । विशब्दः लय विशेषणवैपरीत्यादिषु स्मृत इत्युक्तेः । अत्र विशब्दस्य वैपरीत्यार्थग्रहणात्। मुक्तवैपरीत्यं नाम मुक्त्यभावार्थ- प्रतीतेः। नामरूपराहित्यस्यैव प्रतीतेरिति भावः । नच समासानुपपत्तिरिति ।। विशब्दस्यात्र वर्जनार्थकत्वे मुक्तशब्दस्य पुरुषवाचकत्वात्। समासान्तरानुपपत्तेः बहुव्रीहिसमासस्य तु नामरूपादितिपदेनान्वयानुपपत्तिरिति भावः ॥ भावे वेति ॥ नपुंसके भावे क्त इत्युक्तेः। तदेव स्पष्टयति - ततश्चेति ॥ भावप्रधानपक्षे तु विगतं मुक्तं मुक्तत्वं यस्मादिति विग्रहो ज्ञेयः । अतिचतुरस्रं सर्वथानुपपत्तिशून्यमित्यर्थः ॥ अविहायेति योज्यमिति ।। नञ्प्रश्लेषं कृत्वेत्यर्थः । नन्वेवमकारप्रश्लेषोऽनुपपन्नः । नामरूपे इत्यस्येदं तद्विवचनत्वेन इदूदेदिति प्रगृह्यसंज्ञकत्वात् प्लुतप्रगृह्या अचि नित्यमिति प्रकृतिभावप्राप्तेरिति चेन्न । संज्ञापूर्वको विधिरनित्य इत्युक्तेः । वैदिकत्वाच्चास्य प्रयोगस्यानुपपत्त्यभावात् । पुत्रेति तन्मयतया' इति भागवत- प्रयोगाच्च।। रूपस्यानन्तत्वमिति । पूर्वं नामानन्तत्वोक्तिसामर्थ्यात्। उत्तरत्र 'अनन्ता वै विश्वेदेवाः' इत्यत्र तत्प्रतियोगित्वेनोपलक्षणतया रूपग्रणादिति भावः । अनन्तत्वं नाम नाशराहित्यम् । एवं नाम्नोऽनन्तत्वमपि नाशराहित्यमेव ॥एवमेवार्थ इति॥ भिद्येते चासां नामरूपे इति दान्तिकवाक्यस्येति शेषः । भाष्येऽप्यत्र पूर्वे इति गृहीतश्रुतिवाक्यस्य 'यज्ञेन यज्ञमयजन्त ' इति पूर्ववाक्येना- न्वयः। मन्त्रार्थस्तु देवः यज्ञेन ज्ञानकर्मात्मकेन यज्ञं विष्णुं " यज्ञो विष्णुर्देवता " इति श्रुतेः । अयजन्त पूजितवन्तः । यज देवपूजासङ्गतिकरणदानेष्विति धातोः । तानि देवाः प्रथमानि मुख्यः धर्माणि धारकाः आसन्नभवन्। नपुंसकत्वाच्छान्दसम्। देवा यत्र यस्मिन्लोके पूर्वेण साध्याः देवाः बह्मादयः सन्ति । तत्र महिमानः स्वयोग्यमाहात्म्योपेताः नाकं कं सुखं तद्विरुद्धमकं दुःखं तद्विरुद्धं अतिसुखं सचन्ते प्राप्नुवन्ति। यत्र पूर्वे इति बहुवचनप्रयोगान्मुक्तानां भेदसिद्धिः।स तत्र' इति वाक्ये तु उत्तरत्र स्त्रीभिर्वा यानैर्वा युक्तः स मुक्तः । तत्र वैकुण्ठादौ पर्येति । परितः एति इत्युक्तेर्भेदसिद्धिः । 'सोऽश्रुत' इति वाक्येऽपि हृदयगुहायां निहितं ब्रह्म यो वेद सः विपश्चिता ब्रह्मणा सह सर्वान्कामानश्रुते भुङ्क्ते । अत्र सहोक्तेर्भेदसिद्धिः ।ऋचां त्व' इति मन्त्रस्यायमर्थः । त्वः कश्चित् ब्रह्मा मुक्तिस्थान इति शेषः । ऋचां पोषं पुपुष्वान्पुष्टिं कुर्वन्नास्ते । त्वः कश्चिद् ब्रह्मा शक्करीषु छन्दस्सु गायत्रं साम गायति । त्वः ब्रह्मा जातविद्यां पौरुषेयविद्यां वदति । शिष्यान्प्रतीति शेषः । ब्रह्मा यज्ञस्य विष्णोः मात्रामंशं रामादिकम् । विमिमीते विशेषेण जानातीति । अत्र पादचतुष्टये त्वशब्दचतुष्टयात् ब्रह्मणः बहुत्वावगमात् मुक्तानां भेदसिद्धिः । ननु निरुक्ते पादचतुष्टयस्य होत्रादिक्रक्चतुष्टयपरत्वेन व्याख्यातत्वाद् ब्रह्मशब्दस्यै- कस्यैव सत्वान्नानुपपत्तिरिति चेन्न । ब्रह्मा त्व इत्यत्र ब्रह्मशब्दविशेषणस्य त्वशब्दस्य वैय्यर्थ्यप्राप्तेः । यज्ञे एकस्यैव ब्रह्मणः सत्वात् । ब्रह्मणः यज्ञे जातविद्या त्वस्याप्रसिद्धेश्च। ननु नामरूपे विहायेत्यत्र नञः प्रश्लेषानङ्गीकारे बाधकं वदन् संज्ञापूर्वको विधिरनित्य इति समाधाने सत्यपि स्पष्टत्वात्तदनुक्त्वा समाधाना- न्तरमाह - श्रुतिविरोधादेवेति ॥ नच वाच्यं 'मणीवादीनां प्रतिषेधो वाच्यः' इति काशिकोक्तं मुनित्रयानुक्तत्वादप्रमाणम् । मणीवाष्ट्रस्य लम्बेतेत्यादिभारत- प्रयोगस्तु वा इति पदच्छेदेन समाधेयः । ननु इवेति पदच्छेदेनेति कैय्यटोकं ग्राह्यमिति । कैय्यटापेक्षया काशिकायाः प्राचीनत्वेन तेन वार्तिकेन धृते वाक्ये मुनित्रयानुक्तत्वस्य सन्दिग्धत्वात् । ननु एतावता ग्रन्थेनाभेदखण्डनेन भेदोपसंहारे कर्तव्ये सर्वोत्तमत्वोपसंहारः कुतः क्रियत इत्यत आह- प्रसङ्गादिति । एतत्प्रश्न- प्रतिवचनस्य विष्णोर्मुक्तौ प्राणादिषोडशकलाधारकत्वेन सर्वोत्तमत्वप्रतिपादनार्थं प्रवृत्तत्वेन ब्रह्मप्रतिपादनस्यैव मुख्यत्वात् ।अद्वैतखण्डनपूर्वकभेदसमर्थनस्य सर्वोत्तमत्वसिद्ध्यर्थं कृतत्वात् । तेन तस्य स्मृतत्वादिति भावः॥ ६-३ ॥

ताम्रपर्णीश्रीनिवासाचार्यविरचिताषट्प्रश्रभाष्यटीकाटिप्पणी

उपनिषदि पूर्वोत्तरग्रन्थयोर्विरोधमाशङ्क्य तत्परिहारकत्वेन मता-न्तरमुत्थाप्य तद्दृषणपरत्वेन भाष्यमवतारयति - यस्मिन्नेता इत्यादिना ॥ तदेतदिति ॥ तत् उपक्रमवाक्योक्तं कलानां परमपुरुषाश्रयत्वम् । एतत् विवरण- वाक्योक्तमैक्यञ्च कथम्, विरोधादित्यतो मुक्तेश्वरभेदस्यानुपलभ्यमानत्वाद- प्रामाणिकत्वात् अस्मिन्निति मुक्तानां तदाश्रयत्वोक्तिरयुक्ता अतः सा सगुण- मुक्तिपरा योज्येति शङ्कापरिहाराय उपक्रमोक्ताभेद एवोत्तरत्र समर्थ्यते न विरोधः नापि परकीयसमाधानमितिभावेनाहेत्यर्थः । कथं योजनेति ॥ अस्तं स्वरूप- तिरस्कारं गच्छति । भिद्यतेत्यनयोः कथं योजना | स्वरूपसत्त्वे खलु भेदचिन्तेति भावः॥ अद्रव्यत्वादिति ॥ अत्र रूपशब्देन शुक्लादिगुणस्यापि ग्रहणादवयव- विभागस्य द्रव्यनिष्ठत्वादिति भावः । नच समासानुपपत्तिरिति कर्तरि क्तप्रत्यय- विधानाद्विगतो मुक्त इति विग्रहे समासानुपपत्तिरित्यर्थः । अतिचतुरस्रमिति भावप्रधाननिर्देशस्यागतित्वादिति भावः ॥ रूपस्येति ॥ रूपपदेन नाम- प्रतिपाद्यस्य द्रव्यस्यापि विवक्षितत्वान्नामानन्तं नाशरहितं विश्वेदेवाश्चानन्ता इति रूपस्यानन्तत्वमुच्यत इत्यर्थः । नन्वविहायेति पदच्छेदे 'ईदूदेद्विवचनं प्रगृह्यम्' इति प्रगृह्यसंज्ञायां 'प्लुतप्रगृह्या अचि' इति प्रकृतिभावविधानादकारप्रश्लेषेणैव पाठः स्यादित्यत आह- श्रुतिविरोधादेवेति ॥ मणीवादिवदिति ॥ मणीवादिगणप्रविष्टस्य प्रकृतिभावनिषेधात्तस्य चाकृतिगणत्वात्तद्वदत्राप्यगृह्यत्वं वक्तव्यम्। अन्यथाअनन्तं वै नाम' इत्यादि श्रुतिविरोधादिति भावः । प्राक्प्रश्नार्थानामनुपसंहतत्वादाह - प्रसङ्गादिति ॥ भाष्योपसंहारप्रसङ्गादित्यर्थः । सर्वमुक्तोत्तमत्वे विवादस्य प्रसक्तत्वादिति वा । प्राचीनटीकायां तु अस्या-मुपनिषदि आदित आरभ्य उक्तमशेषार्थं निगमयतीत्यवतारितम्॥ ६-३ ॥

मङ्कालीधर्मराजाचार्यविरचिताषट्प्रश्नभाष्यटीकाटिप्पणी

स्रवन्त्यो गच्छन्त्य इति ॥ स्यन्दू प्रस्रवण इति धातोर्गच्छन्त्य इति तात्पर्यकथनम् । समुद्रायणा इत्यत्राय पय गताविति धातोर्भावे ल्युटि समुद्रं प्रति अयनं गमनमासामस्तीति नित्ययोगेऽर्श आद्यजिति भावेनाह- समुद्र- गमनस्वभावा इति ॥ अस्तमिति ॥ असु क्षेप इत्यतः नपुंसके भावे क्त इति प्रत्यय इति भावः ॥ नामरूपे गङ्गायमुना इत्यादिलक्षणे इति ॥ नामशब्दात्मकं रूपं तद्वाच्यार्थात्मकमित्यर्थः । नतु रूपशब्देन शुक्लादिकं गृह्यत इति ज्ञेयम् ॥ तद्भेद इति ॥ तन्नाश इत्यर्थः । पुरुष इत्येवं प्रोच्यत इत्यत्र विशेष्यादर्शनात्तदध्याहरति- यदनष्टं चैतन्यमिति ॥ एवं दृष्टान्तेऽपि तदुदक- लक्षणं वस्त्वित्यत्रापि सङ्गतिर्द्रष्टव्या । अकलोऽमृतो भवतीतीतिशब्दस्य पुरुषैक्यमुच्यत इति पूर्वेणान्वयः ॥ तदेतत्कथमिति ।। यस्मिन्नेता इति वाक्येन भेदसापेक्षं कलानां मुक्तौ पुरुषाश्रयत्वमभिधाय यथेत्यादितद्विवरणपरे वाक्ये तद्विरोध्यभेदवचनं कथमित्यर्थः । इत्यत इत्यस्य भेद एव समर्थ्यत इति भावेनाहेत्यनेनान्वयः । यथेत्यादिवाक्यस्य भेदसमर्थनपरत्ववचनेनोत्तरवाक्ये तद्विरोध्यभेदः कथमुच्यते इति शङ्कानिरासेऽपि तत्र भेदसमर्थनस्य किं फल- मित्याशङ्क्य यस्मिन्नित्यादिवाक्ये मुक्तकलानां पुरुषाश्रितत्वोपयुक्ततयाभि- मतभेदस्यानुपलभ्यमानतया यस्मिन्नित्यनेन भेदसापेक्षाश्रयाश्रयिभावोक्ति- रयुक्तेत्याशङ्कानिरासफलकत्वाद्यथेत्यादिवाक्यकृतभेदसमर्थनस्य न वैयर्थ्यमि- त्यभिप्रेत्याह- मुक्तेश्वरभेदस्येति ॥ अनुपलभ्यमानत्वात्प्रमाणेनेति शेषः ॥ यस्मिन्निति तदुक्तिरिति ॥ भेदसापेक्षा श्रयाश्रयिभावोक्तिरित्यर्थः ॥ इति शङ्कापरिहारायेति ॥ इत्याशङ्क्य प्रतिवचनकर्त्रापि पिप्पलादेन भेद एव समर्थ्यत इत्यर्थः। नत्वभेद उच्यत इत्येवकारार्थः । केचित्तु - तदेतत्कथमितीति ॥ तत्तस्मात्स प्राणमसृजतेत्यादिवाक्यस्य प्राणादिदेवानां विष्णोश्च मुक्तौ तारतम्यकथनपरत्वेन कथं व्याख्यानमित्यत इत्यस्य भेद एव समर्थ्यत इति भावेनाहेत्यनेनान्वयः। मुक्तेश्वरभेदस्यात्रानुपलभ्यमानत्वादिति समुद्र इत्येवं प्रोच्यत इति मूलस्य सङ्गत्यन्तरम् । अस्यार्थःयस्मिन्निति भेदप्रयुक्ता- श्रयत्वोक्तिः कथम् ? अस्मिन्प्रकरणे भेदस्याप्रतीतेरित्याशङ्कापिराहाराय चेति ।अस्यापि भेद एव समर्थ्यत इति भावेनाहेत्यनेनान्वयः इति व्याचक्षते - तथाहि वक्ष्यतीति ॥ अस्तगमनं त्वादित्यवदज्ञानामविज्ञेयत्वमेवेत्यनेनेत्यर्थः ॥ नाशोऽर्थ इति ॥ मुद्गरेण घटो भिद्यत इत्यादौ तथा प्रतीतेरिति भावः ॥ अनु- मानेनेति ॥ मूले अर्थत इत्यनेनार्थापत्तिरूपानुमानं गृह्यते । अर्थापत्ति- रित्यत्रार्थादापत्तिः। अर्थात् लिङ्गदर्शनात् आपत्तिः प्रमारूपं ज्ञानम् । यथा पीनत्वदर्शनेन रात्रिभोजनज्ञानम् । तथा घटो भिद्यत इत्यत्रानुपपद्यमानदर्शनात् घटावयवविभागदर्शनाद्धटस्य नाशोऽवगम्यत इत्यर्थापत्तिरूपानुमानेन नाशोऽ- वगम्यत इत्युक्तं भवति- अद्रव्यत्वादिति ॥ घटादिवत्प्रत्यक्षेण प्रतीयमाना- वयवविभागशून्यद्रव्यत्वादित्यर्थः । यद्वाऽवयवानारब्धद्रव्यत्वादित्यर्थः । एतच्च दान्तिकाभिप्रायेणोक्तमिति मन्तव्यम् ॥ तद्विरोधादिति ॥ पृथक्त्ववाचक- भेदशब्दविरोधादित्यर्थः। अत्र वाक्ये समुद्रपुरुषपदयोरुभयोरपि सप्तम्यन्तत्वो- पपादनोपसंहारः। उपपादकस्य भेदशब्दविरोधस्य प्रथमान्तत्वाङ्गीकारे शब्द - द्वयसाधारण्यादिति भावः । अत एव समुद्रादिपदमित्युक्तम् । उत्तरवाक्ये तु केवलपुरुषपदस्यैव सप्तम्यन्तत्वोपपादनोपसंहारः । उपपादकवाक्यशेषयुक्तेः तन्मात्रनिष्ठत्वात्। अत एव पुरुषपदस्येत्येव वक्ष्यति । अतः पुरुष इति भाष्ये भिन्नानि भिन्नानीति नपुंसकलिङ्गपदयोः नामानि रूपाणीति पूर्वोक्तपदाभ्यामा- वृत्ताभ्यामन्वयो बोध्यः । श्लोकार्थमाह- अरा इति ॥ वेदयथाः जानीध्व- मिति ॥ उत्तरमा व इति बहुवचनप्रयोगाद्वेदयथा इत्येकवचनं व्यत्ययेन बहुवचनं कृतम्। तेषां मोक्षफलोक्तेः तत्साधनज्ञानस्यापेक्षितत्वाण्णिजपि स्वार्थे कृतः । मध्यमपुरुषबलात् हे शिष्या इत्यध्याहृतम् । सम्मतित्वेनोदाहृतस्य पिप्पलादवाक्यत्वाभावात्कस्यचिद्वाक्यमित्युक्तम् ॥ मा परिव्यथयत्विति ॥ न भयं प्रापयतु । न सञ्चालयतु तत्त्वज्ञानादिति शेषः । व्यथ भयसञ्चलनयोः इति धातोः अन्तर्णीतण्यर्थस्य लेटि परिव्यथा इति रूपम् । अत्र निषेधार्थको माशब्दः। तेन माङ् योगाभावात् माङि लुङिति न लुङ् । अनेनैवाशयेन टीकायां निषेधार्थकमाशब्दं प्रयुज्य परिव्यथा इत्यस्य प्रतिपदं परिव्यथयत्विति लोडन्तं प्रयुक्तम्॥ एवञ्चेदिति ॥ उक्तरीत्या भेदपरश्चेदित्यर्थः ॥ प्राक्सूचितमिति ॥ समुद्रं प्राप्यास्तं गच्छन्तीत्यस्य पूर्वभाष्ये अज्ञैरनवगतानीत्यर्थानुवादेनास्तं गच्छन्तीत्यस्याज्ञैरनवगतत्वमेवार्थ इति सूचितमिति भावः । आदित्यवदिति भाष्ये तत्र तस्यैवेति षष्ठ्यन्ताद्वतिः । यथा मेरोरुत्तरभागे विद्यमानस्याप्या- दित्यस्यास्तगमनं नाम दक्षिणदिक्स्थैरविज्ञेयत्वमेव । तथा मुक्तकलानां परम- पुरुषेऽस्तगमनं संसार्यविज्ञेयत्वमित्यर्थः । समाख्ययापीत्यपिशब्दः प्रागुक्तो- पपत्तिसमुच्चायकः॥ मदुक्तार्थेऽपीति ॥ समुद्रप्रविष्टनदीनां ब्रह्मप्रविष्टमुक्तानां नामरूपाभाव इत्यर्थः ॥ वर्जनार्थताया इति ॥ 'विर्लये च विशेषे च वैपरीत्यादिषु स्मृतः' इति एकाक्षररत्नमालायां विशब्दस्य वैपरीत्यार्थत्वोक्तेः । मुक्तवैपरीत्यस्य मुक्त्यभावरूपत्वात् नामरूपसाहित्यस्यैव प्रतीतेरित्यर्थः।। नच समासानुपपत्तिरिति ॥ विशब्दस्य वर्जनार्थत्वे मुक्तशब्दस्य पुरुषवाचित्वा- त्समासान्तरानुपपत्तेर्बहुव्रीहेरपि नामरूपादिति पञ्चम्यन्तेनानन्वयेनानुपपत्तिरिति भावः ॥ भावे वेति ॥ नपुंसके भावे क्त इत्युक्तेरिति भावः । तदेव स्पष्टयति- ततश्चेति ॥ भावप्रधानपक्षे तु विगतं मुक्तं मुक्तत्वं तस्मादिति विग्रहो ज्ञेयः ॥ अतिचतुरस्रमिति ॥ सर्वथाऽनुपपत्तिशून्यमित्यर्थः ॥ अविहायेति योज्य - मिति ॥ नञ्प्रश्लेषं कृत्वेत्यर्थः । अनन्तत्वमुच्यत इति ॥ नाशराहित्यमुच्यत इत्यर्थः ॥ एवमेवार्थ इति ॥ भिद्येते चासां नामरूपे इति दाष्टन्तिकवाक्यस्येति शेषः । भाष्ये यत्र पूर्व इति वाक्यस्य यज्ञेन यज्ञमयजन्तेति पूर्वभागेनान्वयः । मन्त्रार्थस्तु देवाः यज्ञेन ज्ञानकर्मात्मकेन यज्ञं विष्णुं यज्ञो विष्णुर्देवतेति श्रुतेः अयजन्त पूजितवन्तः । यज देवपूजासङ्गतिकरणदानेष्विति धातोः । तानि ते देवाः । प्रथमानि मुख्यानि धर्माणि धारकाः आसन् अभवन्। नपुंसकत्वं छान्दसम्। ते देवाः यत्र यस्मिन् लोके पूर्वे साध्या देवाः ब्रह्मादयः सन्ति। तत्र महिमानः स्वयोग्यमाहात्म्योपेताः नाकं कं सुखं तद्विरुद्धमकं दुःखम् । तद्विरुद्धं अतिसुखम् । सचन्ते प्राप्नुवन्तीति । अत्र पूर्व इति बहुवचन - प्रयोगान्मुक्तानां भेदसिद्धिः। स तत्रेति वाक्ये स्त्रीभिर्वा यानैर्वा युक्तः स मुक्तः तत्र वैकुण्ठादौ पर्येति परितः एति इत्युक्तेर्भेदसिद्धिः । सोऽश्रुत इति वाक्येऽपि हृदयगुहायां निहितं ब्रह्म यो वेद स विपश्चिता ब्रह्मणा सह सर्वान्कामानश्रुते भुङ्क्ते । अत्रापि सहेत्युक्तेर्भेदसिद्धिः ॥ ऋचां त्व इति मन्त्रस्यायमर्थः । त्वः कश्चिद्वह्मा मुक्तः सन्निति शेषः । ऋचां पोषं पुपुष्वान् पुष्टिं कुर्वन्नास्ते त्वः कश्चिद्वह्मा शक्करीषु शक्करीच्छन्दस्कासु गायत्रं सम गायति । त्वो ब्रह्मा जातविद्यां पौरुषेयविद्यां वदति । शिष्यान्प्रतीति शेषः । त्वो ब्रह्मा यज्ञस्य विष्णोः मात्रामंशं विमिमीते जानातीति। ननु नामरूपे अविहायेति अकारप्रश्लेषोऽनुपपन्नः। नामरूपे इत्यस्य द्विवचनत्वेन ईदूदेद्द्विवचनं प्रगृह्यमिति प्रगृह्यसंज्ञकत्वात्प्लुतप्रगृह्या अचि नित्यमिति प्रकृतिभावे प्राप्ते नामरूपे अविहायेत्येवनिर्देशः स्यादिति चेन्न । संज्ञापूर्वको विधिरनित्य इति समाधानस्य स्पष्टत्वात्तदनुक्त्वा समाधानान्तर- माह - श्रुतिविरोधादेवेति ॥ नन्वेतावता ग्रन्थेनाभेदखण्डनेन भेदोपसंहारे कर्तव्ये सर्वोत्तमत्वोपसंहारः कुतः क्रियत इत्यत आह- प्रसङ्गादिति ॥ एतत्प्रश्नप्रतिवचनस्य विष्णोर्मुक्तप्राणादिषोडशकलाधारकत्वेन सर्वोत्तमत्व- प्रतिपादनार्थं प्रवृत्तत्वेन तत्प्रतिपादनस्यैव मुख्यत्वादद्वैतखण्डनपूर्वकं भेद- समर्थनस्य सर्वोत्तमत्वसिद्ध्यर्थमेव कृतत्वात् । तेन तस्य स्मृतत्वादिति भावः ॥ ६-३ ॥

गूढकर्तृकाषट्प्रश्नभाष्यटीकाटिप्पणी

॥ तदेतत्कथमिति ॥ अस्याभेद एव समर्थ्यत इति भावेनाहे- त्यनेनान्वयः। तदेव विवृणोति - मुक्तेश्वरभेदस्येत्यादिना ॥ यद्वा इत्यत इतिपर्यन्तं प्रतिज्ञावाक्यविरोधं विवरणवाक्यस्योक्त्वा प्रतिज्ञावाक्यमेवानु- पपन्नमित्याह - मुक्तेश्वरेति ॥ तदुक्तिः भेदोक्तिः । अयुक्तेतीत्यनन्तरं चशब्दोऽ- ध्याहार्यः। कथं योजनेति । अस्तं स्वरूपतिरस्कारं गच्छन्ति भिद्येतेत्यनयोः कथं योजना । स्वरूपसत्त्वे खलु भेदचिन्तेति भावः ॥ अद्रव्यत्वादिति ॥ अवयवविभागस्य द्रव्यनिष्ठत्वान्नामरूपयोरद्रव्यत्वादिति भावः । नन्वत्र रूप- शब्देन द्रव्यं विवक्षितम् । अनन्तं वै नामानन्ता वै विश्वेदेवा इति रूपस्यानन्तत्व- मुच्यत इति व्याख्यास्यमानत्वादिति चेत्, तत्र रूपप्राधान्यविवक्षयोक्तत्वा- दिति ॥ नच समासानुपपत्तिरिति ॥ कर्तरि क्तप्रत्ययविधाने विगतो मुक्त इति विग्रहे असङ्गतिप्राप्तेरिति भावः ॥ अतिचतुरस्रमिति ॥ भावप्रधान- निर्देशस्यागतिका गतित्वादिति भावः । अनन्तं वै नामेति नामानन्तं नाशरहितम् ।

विश्वेदेवाश्च नाशरहिता इत्यर्थः । नन्वकारप्रश्लेषेण पदच्छेदे तथैव पाठः स्यात् । 'ईदूदेद् द्विवचनं प्रगृह्यम्' इति प्रगृह्यसंज्ञाया 'प्लुतप्रगृह्या अचि' इति प्रकृतिभावविधानादित्यत आह- मणीवादिवदिति ॥ मणीवादेराकृति- गणत्वादेतदपि तत्र सङ्घयेयमित्यदोष इति भावः । आदरार्थ इत्यादिपदेनोक्ता- वधारणादिकं गृह्यते। हे परमानन्दसन्दोह । सान्द्रानन्दवपुष्मते ते नम इत्यर्थः । यद्वै तदानन्दविशेषणम् ।

श्रीराघवेन्द्रयतिविरचितषट्प्रश्नोपनिषत्खण्डार्थः

एतासाञ्च कलादेवतानां जीवेन सह मोक्षे पुरुषप्राप्तिरूच्यते-यथेमा नद्य इत्यादिना ॥ यथा लोके इमाः प्रसिद्धाः स्यन्दमानाः प्रस्रवन्त्यः समुद्र एवायमाश्रय यासां ता नद्यः समुद्रं प्राप्यास्तमदर्शनं गच्छन्ति प्राप्नुवन्ति, अज्ञानामदर्शनं गतानामपि तासां समुद्रे स्थितानां नदीनां गङ्गायमुनेत्यादिनामरूपे भिद्येते विविक्ते तिष्ठत इत्येवं विद्वद्भिः प्रोच्यते । एवमेवास्य पुरुषस्य परिद्र्ष्टुर्ज्ञानिनो जीवस्य षोडशकलाः प्राणाद्याः पुरुषायणाः पुरुष एवायनमाश्रयो येषां ते, त एव पुरुषं प्राप्यास्तमज्ञैरज्ञेयत्वं गच्छन्ति । आसां पुरुषे स्थितानां तासां नामरूपे भिद्येते विविक्ते तिष्ठत इत्येवं विद्वद्भिः प्रोच्यते । तथा च कलादेवतासु मुक्तिं गतासु स एष जीवः नष्टाचेतनकलो भवति । तत एवामृतो भवति, कलानिमित्तं हि मरणमस्येति ॥ ६-३ ॥

नरसिंहभिक्षुविरचिताषट्प्रश्नार्थप्रकाशिका

तत्सदृष्टान्तं विवृणोति-यथेति ॥ यथा लोके स्यन्दमाना गच्छन्त्यः समुद्रायणाः समुद्रगमनस्वभावा इमाः गङ्गाद्याः नद्यः समुद्रं प्राप्यास्तमदर्शनं गच्छन्ति। अज्ञानां अदर्शनं गतानामपि तासां समुद्रे स्थितानां नामरूपे भिद्येते विविक्ते एव तिष्ठत इत्येवं विद्वद्भिः प्रोच्यते । एवं कला अपि जीवानां मोक्षकाले मुक्ताः परमपुरुषं प्राप्यास्तमदर्शनं गच्छन्ति । तथापि पुरुषे स्थितानां तासां नामरूपे विविक्ते एव तिष्ठत इत्येवं विद्वद्भिः प्रोच्यते । ततश्च कलादेवतासु मुक्तिं गतासु स एष जीवः नष्टाचेतनकलो भवति । तत एवामृतो भवति । जडकलानिवृत्तिर्हि मरणमस्येति ॥ ६-३ ॥

उदयगिरिकेशवाचार्यविरचिताषट्प्रश्नपञ्चिका

न केवलं संसारावस्थायामेव तदाश्रयत्वं किन्तु मुक्तावपीति सदृष्टान्तमाह-यथेमा इति ॥ यथेमा नद्यः स्यन्दमानाः स्रवन्त्यः । गच्छन्त्य इति यावत् । समुद्रायणाः समुद्रा एव अयनं स्थानं यासां ताः । समुद्रगमनस्वभावा इत्यर्थः । समुद्रं प्राप्यास्तं अदर्शनं गच्छन्ति । अज्ञानामदर्शनं गतानां समुद्रे स्थितानामिति शेषः । तासां नदीनाम् । समुद्र इति सप्तमी न प्रथमा । नामरूपे भिद्येते विविक्ते भिन्ने इति यावत् । एवं प्रोच्यते विद्वद्भिरिति शेषः । एवमेव खलु अस्य परिद्रष्टुः जीवस्य सम्बन्धिन्य इमाः पूर्वोक्ताः षोडशकलाः देवताः प्राणाद्याः पुरुषायणाः पुरुषो भगवान् नारायणो अयनं मुख्यस्थानं यासां ताः । जीवमोक्षकाले पुरुषं नारायणं प्राप्यास्तं गच्छन्ति । अज्ञानिदृष्ट्याऽदर्शनं प्राप्नुवन्ति । पुरुष इति सप्तमी । पुरुषे स्थितानामासां कलानां नामरूपे भिद्येते विविक्ते भिन्ने इत्यर्थः । इत्येवं प्रोच्यते ज्ञानिभिः । कलादेवतासु मुक्तिं गतासु स एष जीवः अकलः सन् नष्टकला अचेतनकला यस्य सः नष्टाचेतनकल इत्यर्थः । अमृतो मुक्तो भवति । कलानिमित्तं अस्य जीवस्य मरणम् । तदभावे अमृतत्वं सिद्धमित्यर्थः॥ ६-३ ॥