अन्नं वै प्रजापतिस्ततो हैतद् रेतः

एतत्प्रजापतिव्रतं जानतः फलम्

उपनिषत्

अन्नं वै प्रजापतिस्ततो हैतद् रेतः ।

तस्मादिमाः प्रजाः प्रजायन्त इति ।

तद् ये हैतत् प्रजापतिव्रतं चरन्ति ते मिथुनमुत्पादयन्ते ।

तेषामेवैष ब्रह्मलोको येषां तपो ब्रह्मचर्यं येषु सत्यं प्रतिष्ठितम् ।

तेषामसौ विरजो ब्रह्मलोको न येषु जिह्ममनृतं न माया चेति ॥ १० ॥

भाष्यम्

........................एवं जानन्विमुच्यते ॥

श्रीमज्जयतीर्थभिक्षुविरचिताषट्प्रश्नभाष्यटीका

किञ्चान्नं वै प्रजापतिः । कथमन्ने स्थितस्य प्रजापतेः प्रजाजनकत्व- मिति ? ततोऽन्नात् खल्वेतद्रेतो जायते । किं चातः ? तस्माद्रेतसो हीमा मानुषादिप्रजाः प्रजायन्त इति। अन्ने स्थित्वा तत् रेतोरूपेण परिणाम्य तदुपादानीकृत्य प्रजापतिः प्रजाः सृजतीति यावत्। एवं परमेश्वरो निमित्तोपादानभूतान् पदार्थान् द्वारीकृत्य प्रजाः सृजतीति विदुषां फलमुच्यते - तदित्यादिना । तत्तत्र प्रजा ये खलु पुरुषास्तदेतद्यथोक्तं प्रजापतेर्व्रतं कर्म चरन्ति जानन्ति ते मिथुनमुत्पादयन्ते साध्वपत्या भवन्ति । तेषामेवैषः सत्याख्यो ब्रह्मलोकः प्राप्यो भवति । येषां तपो ब्रह्मचर्यं चास्ति, येषु सत्यं सत्यवचनं प्रतिष्ठितं नियमेन स्थितम् । न केवलमेतावत् । किन्तु यावद् ब्रह्मलयं तत्र स्थितानामेव तेषामसौ विरजोऽप्राकृतो ब्रह्मलोको वैकुण्ठादिः प्राप्यो भवति । येषु जिल्ह्यं कौटिल्यमनृतमसत्यवचनं माया विप्रलिप्सेत्येवमादिदोषा न सन्ति तेषामिति सम्बन्धः । सत्यवचनादिगुणाभिधानेन सिद्धस्याप्यनृतादिदोषाभावस्योक्तिरादरार्थेति । तदिदमाह - एवमिति ॥ १० ॥

श्रीवामनपण्डिताचार्यविरचिताषट्प्रश्रभाष्यटीका

अत्र पुनः साधनविशेषात्फलविशेषोऽस्तीत्याह - तो हैतदित्या- दिना ॥ तत्र यथा भगवतोत्पादितेषु जन्तुषु ये जनाः प्राजापत्यं व्रतं चरन्ति।तद्यथा ऋग्विधानोक्तभद्रया शंनः पुरुषसूक्तयोः सम्पुटहोमशेषप्राशनपूर्वकं विष्णुर्योनिसूक्तेनोपस्थाय प्रजापतिं प्रार्थयन्ति । ते तत्प्रसादात् सदपत्य- मुत्पादयन्ते। अथ एषां तपोब्रह्मचर्यादिगुणा बहवो भवन्ति । तेषामेवैष सत्याख्यो ब्रह्मलोको भवति। ब्रह्मचर्यादिगुणेष्वपि येषु सत्याख्यं ब्रह्म प्रकर्षेण स्थितं तेषां सौ विरजो जन्ममृत्यादिदोषहीनो वैकुण्ठाख्यः परब्रह्मलोको भवति । अथ येषु प्रारब्धकर्मविनाशेन जिह्यानृतादिदोषाणां कार्त्स्न्येनाभावः स्यात् । तेषामेवासौ लोकः स्यादिति भावः । जिह्म व्याजः । अनृतमसत्यवचनम् । ' माया त्वविद्यमानार्थप्रकटनम्' इति पिप्पलादः कबन्धिने प्रश्नपरिहारमुप- सञ्जहार ।। १-१० ॥

छलारीनारायणाचार्यविरचितंषट्प्रश्नटीकाविवरणम्

किञ्चअन्नं वै प्रजापतिः' इति उपक्रमे प्राणरय्यधिष्ठानेन प्रजासृष्टेः प्रतिज्ञातत्वादत्रान्नेऽपि रयिप्राणाधिष्ठानेनैव प्रजासृष्टिर्ज्ञातव्या ॥ सत्यं सत्यवचन- मिति ॥ सज्जनानामुपकारकं वचनमित्यर्थः । 'सतां येनोपकारः स्यात्तत्सत्यमिति गीयते' इति वचनात् । प्रतिष्ठितमित्यत्र प्रतिशब्दार्थो नियमेनेति । माया चेत्यत्र चशब्दस्यानुक्तसमुच्चयार्थत्वमित्यभिप्रेत्याह - एवमादिदोषा इति ॥ १-१० ॥

मङ्कालीधर्मराजाचार्यविरचिताषट्प्रश्नभाष्यटीकाटिप्पणी

एकेन प्रकारेणोपादानत्वस्य यन्मूर्तं चेत्यादावुक्तत्वादन्नं वा इत्येतत्किञ्श्चेत्यवतारितम्। प्रजाजनकत्वमितीत्यनन्तरमाकाङ्क्षायामाहेति शेषः । पितामहादिवत्परम्परया जनकत्वोपचार इति प्रतीतिनिरासायाह- अन्ने स्थित्वेत्यादि ॥ चरन्ति जानन्तीति ॥ चर गतिभक्षणयोरिति धातुव्याख्याना- गत्यर्थानामवगत्यर्थत्वमिति भावः । मिथुनोत्पादनस्याज्ञानिसाधारण्यादाह- साध्वपत्या इति ॥ तेषामेवैष इत्यादिवाक्यद्वयं भिन्नविषयत्वप्रतीतिनिरासाय व्याचष्टे - तेषामेवैष इति ॥ प्रतिष्ठितमित्यत्र प्रतिशब्दार्थो नियमेनेति । माया चेत्यत्र चशब्दस्यानुक्तसमुच्चायकत्वमभिप्रेत्याह - एवमादिदोषा इति ॥ १-१० ॥

अनन्तभट्टविरचिताषट्प्रश्नभाष्यटीकाटिप्पणी

एकेन प्रकारेणोपादानत्वस्य यन्मूर्तञ्चेत्यत्रोक्त्वा किञ्चे- त्यवतारितम् । पितामहत्वादिवत्परम्परया जनकत्वोपचार इति प्रतीति-निरासायाने स्थित्वेत्यादि ॥ चरन्ति जानन्तीति ॥ चर गतिभक्षणयोरिति धातुव्याख्यानाद्गत्यर्थानामवगत्यर्थत्वादिति भावः । तेषामेवैष इत्यादि वाक्यद्वयं भिन्नविषयकत्वप्रतीतिनिरासाय व्याचष्टे - तेषामेवैष इत्यादि ॥ १-१० ॥

श्रीराघवेन्द्रयतिविरचितषट्प्रश्नोपनिषत्खण्डार्थः

किञ्चान्नं वै प्रजापतिः । कथमन्नेऽवस्थितस्य प्रजाजनकत्वमित्यत उच्यते - ततोऽन्नात् खल्वेतद्रेतोऽभिजायते । किं ततः ? तस्माद्रेतसो हीमा मनुष्यादिप्रजाः प्रजायन्त इति । अन्ने स्थित्वा तद्रेतोरूपेण परिणाम्यैतदुपादानी- कृत्यापि प्रजापतिः प्रजाः सृजतीति यावत् । एवं परमेश्वरो निमित्तोपादानभूतान् पदार्थान् द्वारीकृत्य प्रजाः सृजतीति विदुषः फलमुच्यते - तदित्यादि । तत् तत्र प्रजासु ये खलु पुरुषाः तदेतद् यथोक्तं प्रजापतेर्व्रतं कर्म चरन्ति जानन्ति ते

मिथुनमुत्पादयन्ते साध्वपत्या भवन्ति । तेषामेवैष सत्याख्यो ब्रह्मलोकः प्राप्यो भवति येषां तपः ब्रह्मचर्यं चास्ति, येषु सत्यं सत्यवचनं च प्रतिष्ठितं नियमेन स्थितम् । न केवलमेतावत् किन्तु यावद् ब्रह्मलयं तत्र स्थितानां तेषामेवासौ विरजोऽप्राकृतो ब्रह्मलोको वैकुण्ठादिः प्राप्यो भवति । येषु जिह्म कौटिल्यमनृतमसत्यवचनं माया विप्रलिप्सा इत्येवमादिदोषाः न सन्ति तेषामिति सम्बन्धः । सत्यवचनादिगुणाभिधानेन सिद्धस्याप्यनृतादिदोषाभावस्योक्ति- दरार्थेति ॥ १-१० ॥

नरसिंहभिक्षुविरचिताषट्प्रश्नार्थप्रकाशिका

-अन्नं वै प्रजापतिः कथमित्यत आह- तत इति । ततोऽन्नात्खल्वेतद्रेतो जायते ततो रेतसो हि मानुषादिप्रजाः प्रजायन्त इति । अन्ने स्थित्वा तद्रेतोरूपेण परिणाम्य तदुपादानीकृत्य प्रजापतिः प्रजाः सृजतीति यावत्। एवंवेत्तुः फलमाह - तदिति । तत् तत्र प्रजासु खलु पुरुषास्तदेतद्यथोक्तं प्रजापतेर्व्रतं कर्म चरन्ति जानन्ति । साध्वपत्या जायन्ते । तेषामेवैष सत्याख्यो ब्रह्मलोकः प्राप्यो भवति । येषु जिह्मं कौटिल्यम् । अनृतं असत्यवचनम् । मायादिविप्रलिप्सा- दिदोषाः न सन्ति तेषामसौ प्रसिद्ध: विरजः प्रकृतिबन्धरहितः ब्रह्मलोकः पर- ब्रह्मलोकः प्राप्यो भवति ॥ १-१० ॥

उदयगिरिकेशवाचार्यविरचिताषट्प्रश्नपञ्चिका

विधान्तरेण प्रजासृष्टिमाह - अन्नं वै इत्यादिना ॥ प्रजापतिर्भगवान् अन्नं वै अन्नमधिष्ठाय प्रजाकारीति शेषः । अन्नाधिष्ठातुर्भगवतो कथं प्रजोत्पादकत्व - मित्यत आह- ततो ह वै इत्यादिना ॥ ततः अन्नात्, हवा खलु । एतद्रेतो । जायत इति शेषः । तस्माद्रेतसो इमाः मानुषादिप्रजाः प्रजायन्ते उत्पन्नाः भवन्तीति । अन्ने स्थित्वा तद्रेतोरूपेण परिणाम्य उपादानीकृत्य च भगवान् प्रजाः सृजतीत्यर्थः । अतो निमित्तोपादानभूतान् पदार्थान् द्वारीकृत्य भगवान् प्रजासर्जक इति भावः । परमात्मनः एतादृशमुत्कृष्टत्वं वेत्तुः फलमाह - तद्ये हवा इति ॥ तत् तत्र प्रजासु ये हवा खलु पुरुषाः । एतत् पूर्वोक्तं प्रजापतिव्रतं परमात्मनः व्रतं जगत्सर्जनरूपम्। चरन्ति जानन्ति । ते पुरुषाः मिथुनमुत्पादयन्ते । साध्वपत्या भवन्तीत्यर्थः। तेषां पुंसां एषो ब्रह्मलोकः सत्याख्यः चतुर्मुखलोकः । प्राप्यो भवतीति शेषः । ते के । येषां पुंसां तपः आलोचनम् । कृच्छ्रचान्द्रायणादिब्रह्मचर्यं वेदाभ्यासव्रतं वा । येषु सत्यं भगवद्विषयकं वचनं प्रतिष्ठितम् । स्थितं भवतीति शेषः । एतावत्फलप्राप्त्या न पुरुषार्थ इत्यतो विशेषफलञ्चाह - तेषामिति ॥ तेषां तत्र स्थितानां असौ विरजो ब्रह्मलोकः दोषरहितः अप्राकृतो वैकुण्ठादिलोकः । प्राप्यो भवतीति शेषः । येषु जिल्ह्यं कौटिल्यमनृतं असत्यवचनम् । माया विप्रलिप्सेति एवमादयो न सन्ति तेषां स लोको भवतीति पूर्वेण सम्बन्धः । अतोऽखिलगुणगणपरिपूर्णस्य परमात्मनो जिज्ञासा कर्तव्येति भावः ॥ १-१०॥ ॥ इति प्रथमः प्रश्नः ॥ १ ॥