नमो भगवते तस्मै प्राणादिप्रभविष्णवे

मङ्गलाचरणम्.

श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितंषट्प्रश्नोपनिषद्भाष्यम्

नमो भगवते तस्मै प्राणादिप्रभविष्णवे ।

अमन्दानन्दसान्द्राय वासुदेवाय वेधसे ॥ १ ॥

श्रीमज्जयतीर्थभिक्षुविरचिताषट्प्रश्नभाष्यटीका

पान्तु नः पद्मनाभस्य श्रीपदाम्बुजरेणवः ।

कमलाकबरीभारसुरभीकरणोद्यताः ॥

इह खलु संसारपारावरे निपतितमधिकारिजनं जननी तनयमिव परमात्म- तत्त्वज्ञानप्लवेनोद्दिधीर्षुरियमाथर्वणी ब्राह्मणोपनिषदितिकर्तव्यतामन्तरेण न तत्त्वज्ञानकरणतामापद्यते । अतः तदितिकर्तव्यतारूपन्यायगर्भं भाष्यं करिष्यन्ना- चार्यः प्रारिप्सितपरिसमाप्त्यादिप्रयोजनामेतदुपनिषत्प्रतिपाद्यदेवताप्रणतिमादौ निबध्नाति - नम इति ॥ नानिर्धारितस्वरूपस्य प्रणामो युक्तः । नचान्तरेण लक्षणं वस्तुनिर्धारणमित्यतो वासुदेवस्य लक्षणमाह- प्राणादीति ॥ वक्ष्यते हि 'स मिथुनमुत्पादयते रयिञ्च प्राणञ्च' इत्यादिना । नच प्राणादिजननेनास्य किमपि प्रयोजनं शङ्कनीयम्, पूर्णानन्दत्वादित्याह - अमन्देति । एतच्चयत्तच्छान्त- मजरम्' इत्यादिना । नचैवं प्रवृत्त्यनुपपत्तिः ।

तत्स्वाभाव्यादितीष्णुच्प्रत्ययेनोक्तम्। एतदपि 'उत्पादयते' इति वर्तमानापदेशेन । प्राणादिप्रभविष्णुना सर्वज्ञेन भवितव्यम् । एतदप्यस्यास्तीत्याह - वेधस इति ॥ इदमपि 'एष हि द्रष्टा' इत्यादिना। अत्र च भगवान् वासुदेव एवोपनिषत्प्रतिपाद्यः, प्राणादयस्तु तच्छेषतयेति सूचितम्। अमन्दानन्दसान्द्रताकथनेन परमानन्दाविर्भावलक्षण- मुपनिषदुत्पादितज्ञानफलञ्च । 'तं यथा यथोपासते तदेव भवति' इत्यादिश्रुतेः । वक्ष्यति च ' तेषामसौ विरजो ब्रह्मलोकः' इति । अतो युक्तमेव विषयप्रयोजन- वदेतदुपनिषदो व्याख्यानमिति ।

श्रीवामनपण्डिताचार्यविरचिताषट्प्रश्रभाष्यटीका

नमो भगवते प्राणवागादिप्रभविष्णवे ।

पूर्णानन्दात्मदेहाय वासुदेवाय सश्रिये ॥

नमोऽस्तु वेदवेदान्तगुरवे सर्ववेदिने ।

वासुदेवाय दिव्याय मध्वनाथाय चानिशम् ॥

सत्तत्त्वदीपिकाचार्यान् वन्देऽहं परमान्गुरून् ।

नारायणार्यांश्च गुरून् वन्दे सर्वांश्च सज्जनान् ॥

षट्प्रश्नोपनिषद्भाष्यं व्याख्यास्यामः स्वशक्तितः ॥

श्रीमध्वमाधवप्रीत्यै तदनुग्रहशक्तितः ।

अथ श्रीमदानन्दतीर्थभगवानेतद्भाष्यमारभमाणः 'नमो भगवते तस्मै ' इत्यादि श्लोकेनेष्टदेवतायै वासुदेवाय नमस्करोति । मङ्गलाचरणाद्यर्थम् । 'प्राणादिप्रभविष्णवे' इत्यादीनां वासुदेवात्मकब्रह्मविशेषणानां 'सुकेशा च' इत्याद्युपनिषदभिप्रेतार्थग्राहकत्वात् तद्भाष्यमिहारभ्यत इति वस्तुनिर्देशोऽप्य- र्थतः कृतः स्यात् । 'आत्मत एष प्राणो जायते' इत्यादावभिप्रेतं हि प्राणादि- प्रभविष्णुत्वम्। एवमन्यच्च द्रष्टव्यम् । अत्रैवाधिकार्यादयश्च सूचिता भवन्ति । तथाहि - नमस्कर्ताधिकारी नम्यो विषयः । प्राणशब्देन प्रकृष्टानन्दलक्षणस्य मोक्षस्याभिप्रेतत्वात् तत्प्रभविष्णुरिति प्रयोजनं च सूचितम्। अथ शास्त्र- विषयस्य जिज्ञास्यत्वात् तदधिकारिणो जिज्ञासकत्वाच्च जिज्ञास्यजिज्ञासक- भावः सम्बन्धो दर्शितः । यत्सम्बन्धात्सुप्तमुक्तयोः सुखं सुश्रुतं सूत्रितं च स ह्यमन्दानन्दसान्द्रः। सर्वजगतो धारणादिकमपि विधत्त इति वेधा उक्तः ।

श्रीवादिराजतीर्थविरचिताषट्प्रश्नभाष्यटीकाप्रकाशिका

सर्पतल्पमनल्पेन्द्रकल्पं नत्वा हयाननम् ।

षट्प्रश्नोपनिषट्टीकाटिप्पणी क्रियते मया ।।

'प्राणादिप्रभविष्णवे' इत्यत्रान्तर्णीतो णिच् । प्राणादीन् प्रकर्षेण भावयितु-मुत्पादयितुं शीलमस्यास्तीति स तथोक्त इत्यर्थः । ' एतदपि ' इत्यत्र एतत् स्वभावादेव प्राणाद्युत्पादकत्वमुपनिषदि 'मिथुनमुत्पादयते' इति वर्तमाना- पदेशेन सूचितमित्यर्थः । अतीतसृष्टेर्वर्तमानत्वोक्तौ स्रष्टृत्वशक्तेः सर्वदा वर्तमान- त्त्वस्य सूचितत्वात् स्वाभाविकी शक्तिरिति लभ्यत इति भावः । जातवेदा इत्यादौ छन्दसि वेदःशब्दस्यापि श्रुतत्वात् 'तृतीयोऽतिशये' इति वचनाच्चा- तिशयेन वेदा वेधा इति व्युत्पत्त्या वेधसे सर्वज्ञायेत्यर्थः । एतदेवाभिप्रेत्याऽह टीकाकारः-- एतदप्यस्यास्तीति ॥

श्रीसत्यप्रज्ञतीर्थविरचिताषट्प्रश्नभाष्यटीकाटिप्पणी

॥ कमलाकबरीभार इति ॥ कमलायाः कबरीलक्षणो भारः केशपाश इत्यर्थः । तेन भारशब्दस्यैव केशपाशवाचित्वेन कबरीशब्दो व्यर्थ इति शङ्कानवकाश इति ज्ञेयम् । अत एव चमरीणां वालभाराः केशसमूहाः इति व्याख्यातं चित्रभट्टेन । सामान्यविशेषभावेनावैय्यर्थ्यात् ॥ इष्णुच् - प्र - प्रत्ययेनोक्त- मिति ॥ 'आक्वेस्तच्छीलतद्धर्मतत्साधुकारिषु' इत्यधिकृत्य 'भुवश्च' इत्यनेन सूत्रेण ताच्छील्यार्थभूधातोः इष्णुच्प्रत्यये सति निष्पन्नस्यप्रभविष्णव' इत्यस्य तत्स्वाभाव्यार्थत्वमुक्तमित्यर्थः । प्राणादिप्रभविष्णुत्वे उपनिषज्ज्ञापकमाह- उत्पादयत इति ॥ वर्तमानापदेशेनेति ॥ परमेश्वरस्येदानीं प्राणादिजनक- त्वाभावेन वर्तमानार्थेन लटा तत्स्वाभाव्यस्य वर्तमानत्वमुच्यत इत्यर्थः ।।

श्रीश्रीनिवासतीर्थविरचिताषट्प्रश्रभाष्यटीकाटिप्पणी

यादवार्यगुरून्नत्वा तदुपादिष्टमार्गतः ।

षट्प्रश्नोपनिषद्भाष्यटीका विव्रियते मया ॥

इह खलु जयतीर्थश्रीचरणाः सुरवरावतारपूर्णप्रज्ञविरचिषट्प्रश्नोपनिषद्भाष्य- व्याख्यानाविघ्नपरिसमाप्त्यर्थं रेणुस्तुतिव्याजेन भगवन्तं प्रार्थयते - जयन्तीति । अत्र रेणूनां जडत्वेऽपि तत्र भगवद्रूपसद्भावस्य 'समूळ्हमस्य पांसुरे' इत्यादिश्रुतिसिद्धत्वात् कमलाकबरीभारसुरभीकरणोद्यतत्वं युक्तमिति सम्प्र- दायविदः। अस्य जगत्पतेः पदे इदं विश्वं समूळ्हं प्रतिष्ठितम्। पदे इत्यनुक्त्वा पांसुरे इत्युक्त्या पांसुवदत्यन्तसम्बद्धत्वं द्योतितम् ।

रमन्ति पांसवो यत्र पांसुरं पदमीरितम् ।

समूहं तत्र विश्वं हि पांसुवज्जगतीपतेः' इति भाष्यात् ।

पांसवः तदभिमानिनो रमन्त्यत्रेति ॥ इष्णुजिति ॥ 'आक्वेस्तच्छील- तद्धर्मतत्साधुकारिषु' इति क्विप्प्रत्ययपर्यन्तं ये प्रत्ययाः विहितास्ते सर्वे तच्छीलाद्यर्थे भवन्तीत्युक्त्वा 'भुवश्च' इति सूत्रेण भूधातोः इष्णुच्प्रत्ययः स्यात्तच्छीलार्थ इत्युक्तत्वादत्र चोपपदाद्भूधातोरिष्णुच्प्रत्यये चकारलोपे 'सार्वधातुकार्धधातुकयोः' इत्युकारस्योकाररूपे गुणे तस्यापवादे प्रभव् इष्णु प्रभविष्ण्विति रूपम् ।। वर्तमानेति । उत्पादयत इति वर्तमानार्थकलट्प्रयोगः कृतः । नहीदानीमेवोत्पादयति भगवानत उत्पादकत्वं नामोत्पादनशक्तिः। सा च स्वभावभूता सर्वदास्तीति लभ्यते । लट्च क्रियाप्रबन्धमात्रे इति उत्पादयत इति वर्तमानव्यपदेशेनोक्तमित्यर्थः ।। ११ ।

छलारीनारायणाचार्यविरचितंषट्प्रश्नटीकाविवरणम्

नारायणं नमस्कृत्य पूर्णबोधादिसद्गुरून् ।

षट्प्रश्नोपनिषद्भाष्यटीकाव्याख्यां करोम्यहम् ॥ १ ॥

श्रीमज्जयार्यचरणः षट्प्रश्ननामकाथर्वणब्राह्मणमध्यस्थोपनिषद्भाष्यं व्याख्यासुरादौ मङ्गलमाचरति - पान्तु न इति ॥ पद्मं नाभौ यस्य । पद्ममिव नाभिर्यस्येति वा पद्मनाभः । 'नाभेर्नभञ्च' इत्यन्तर्गणसूत्रेण नाभिशब्दस्य नभादेशः ॥ श्रीपदाम्बुजरेणवः श्रीपदशब्दस्य पद्मनाभशब्दसापेक्षत्वेऽपि नासामर्थ्यं शङ्कनीयम्। अस्माकं गुरुकुलमित्यादिवत् । नित्यसापेक्षस्य सामर्थ्याङ्गीकारात्। कमलायाः लक्ष्म्याः कबर्याः केशग्रन्थेः, भारत्वं नाम बहुकेशत्वम् । रेणूनां केशभारसुरभीकरणं तु पादयोः सुगन्धत्वेनाम्बुजसाम्योक्त्या । वस्तुतः 'सद्देहः सुखगन्धश्च' इति सुगन्धशरीरावयवत्त्वात्तत्सम्बद्धरेणूनामपि सुरभित्वमिति ज्ञेयम् ॥ संसारपारावर इति ॥ संसारसमुद्र इत्यर्थः । 'समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः' इति अमरोक्तेः ।। इतिकर्तव्यतेत्यादीति || ब्रह्मशब्दः भावप्रधानः | 'ब्रह्माणि जीवाः सर्वेऽपि' इत्युक्तेः ब्रह्मशब्दस्य जीववाचकत्वात् । ब्रह्मत्वस्य जीवत्वस्य

आनन्दादिस्वरूपस्य लोकः प्रकाशः अनुभवः । तेषामुपनिषदुक्तब्रह्मज्ञानिनां भवतीत्यर्थः ॥

ताम्रपर्णीश्रीनिवासाचार्यविरचिताषट्प्रश्रभाष्यटीकाटिप्पणी

नमो भगवते तस्मै प्राणादिप्रभविष्णवे ।

अमन्दानन्दसान्द्राय वासुदेवाय वेधसे ।।

श्रीमदानन्दतीर्थार्यान् जयार्यांश्च गुरूनपि ।

नत्वा षट्प्रश्नटीकार्थं वक्ष्येऽहं तत्कृपाबलात्॥

मङ्गलमाचरतिपान्त्विति ॥ गुरुत्ववाचकभारशब्दस्य पूर्वनिपातः । गुरुतरकबरीसुरभीकरणे उन्मुखा इति यावत् । भगवत्पादसम्बन्धेन रजसां रमा- केशबन्धे सुरभीकरणसामर्थ्यं बोध्यम् । रेणवोऽपि परमात्मस्वरूपभूता इत्यप्याहुः। इष्णुच्प्रत्ययेनेति । 'आक्वेस्तच्छीलतद्धर्मतत्साधुकारिषु' इत्यधि- कृत्यभुवश्च' इत्यनेन सूत्रेण ताच्छील्यार्थे भूधातोरिष्णुच्प्रत्यये सति निष्पन्नस्य प्रभविष्णव इत्यस्य तत्स्वभावार्थत्वमुक्तमित्यर्थः ॥ वर्तमानापदेशेनेति ॥ परमेश्वरस्येदानीं प्राणादिजनकत्वाभावेन वर्तमानार्थेन लटा तत्स्वाभाव्यस्य वर्तमानत्वमुच्यत इत्यर्थः॥

मङ्कालीधर्मराजाचार्यविरचिताषट्प्रश्नभाष्यटीकाटिप्पणी

श्रीवासुदेवमानम्य पूर्णबोधान् गुरूनपि ।

करिष्ये प्रश्नषट्कीयभाष्यव्याख्यानपञ्चिकाम् ॥

जयतीर्थश्रीमच्चरणः षट्प्रश्नभाष्यं व्याचिख्यासुः श्रीनारायणचरणनलिन- परागकर्तृकस्वावनप्रार्थनरूपं मङ्गलमादौ निबध्नाति - पान्त्विति ॥ पद्मं सः पद्मनाभः । श्रीपदशब्दस्य पद्मनाभशब्दसापेक्षत्वेऽपि नित्यसापेक्षत्वेन रेणुशब्देन समासोपपत्तिः । नोऽस्मान्पान्तु रक्षन्तु । इतरदेवता- पादपांसून्विहाय पद्मनाभपादपांसूनामेव प्रार्थने को हेतुरित्यतः प्राप्ताशेष- कामयापि रमया अनुरागेणानिशं धृतत्वेनावगतामितगुणत्वादिति भावेनाह- कमलेति ॥ कमलायाः कबरीलक्षणो यो भारः केशपाशस्तस्य यत्सुरभीकरणं  तस्मिन्नुद्यता उद्युक्ता इत्यर्थः । तेन भारशब्दस्यैव केशपाशवाचित्वेन कबरीशब्दो व्यर्थ इति नाशङ्कनीयम् । सामान्यविशेषभावेनावैयर्थ्यात् । सुरभीकरणोद्यता इत्यनेन पादपांसूनां पङ्कजपरागसादृश्यमुपपादितम् । दृष्टान्तादतिशयोऽपि दार्शन्तिकेऽवगम्यते । नहि नानाकुसुमपरागनिचयानां मिलितानामपि अति- सुगन्धात्मकेन्दिराकबरीभारसुरभीकरणोद्यमित्वं सम्भवति । भगवतस्तु 'सद्देहः सुखगन्धश्च' इति सुगन्धशरीरावयवत्वात्तत्सम्बद्धरेणूनां तत्त्वं सम्भवतीति । ननु भाष्यकारीयं 'नमो भगवत' इत्याद्यमाद्यं पद्यं व्यर्थम् । आथर्वण्या ब्राह्मणोपनिषदो व्याख्यानस्य निर्विघ्नपरिसमाप्त्याद्यर्थं मङ्गलनिबन्धनरूपं तदिति चेत्, उपनिषद एवाधिकार्यादिशून्यतया अनुपादेयत्वात् । अधिकार्या- दिमत्त्वेनोपादेयत्वेऽप्यव्याख्येयत्वात् । गहनार्थत्वेन व्याख्येयत्वेऽपि वासुदेव- स्यैव प्रणामे बीजाभावादित्यत आह- इहेति ॥ अधिकार्यनधि - कारिवर्ग इत्यर्थः । खल्विति वाक्यालङ्कारे । उक्तार्थस्य प्रसिद्धिद्योतने वा वर्तते । 'समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः' इत्यमरोक्तेः पारावारः समुद्रः। जननी तनयमिवेत्यनेन तद्वत्केवलानुकम्पावशादेवोद्दिधीर्षुः उद्धर्तुमिच्छुरित्युक्तं भवति । एतच्चाभिमानिव्यपेक्षया ।। इतिकर्तव्यतामन्तरेणेति ॥ साक्षादुपकारका विनेत्यर्थः ॥ न्यायगर्भं भाष्यं करिष्यन्निति ॥ तत्त्वार्थनिश्चये न्यायानामङ्गत्वेन तत्प्रतिपादकभाष्यस्येतिकर्तव्यतात्वमिति भावः । एतच्च यत्तच्छान्तमजर- मित्यादिनेत्यादौ। वक्ष्यत इत्यस्यानुवृत्तिर्द्रष्टव्या । इष्णुच्प्रत्ययेनोक्तमिति ॥ 'आक्वेस्तच्छीलतद्धर्मतत्साधुकारिषु' इत्यधिकृत्य 'भुवश्च' इत्यनेन सूत्रेण ताच्छील्येऽर्थे प्रोपसृष्टस्य भूधातोरिष्णुच्प्रत्यये निष्पन्नस्य प्रभविष्णव इत्यस्य तत्स्वाभाव्यार्थत्वं युक्तमित्यर्थः ॥ वर्तमानापदेशेनेति ॥ सर्जनक्रियाया इदानीं निवृत्तत्वेऽपि तत्स्वभावस्यानुवृत्तत्वेन वर्तमानार्थकलट्प्रयोग इति भावः ॥ वेधस इतीति ॥ 'वेधा विधौ बुधे विष्णौ' इति विश्वकोशे वेधश्शब्दस्य बुधवाचकत्वोक्त्या मुख्यत्वात्सार्वज्ञार्थत्वसिद्धिः ॥ तच्छेषतयेति ॥ तत्सृज्य- त्वेन वासुदेवोपसर्जनत्वेनेत्यर्थः । प्रतिपाद्या इति वचनविपरिणामेनानुवर्तते । तज्ज्ञानफलं च सूचितमित्यन्वयः ॥ उपासत इति ॥ उपास्त इत्यर्थः ॥ तदेव भवतीति ॥ तत्सदृश एव भवत्युपासकः । तदेव उपास्यगुणजातसदृशगुण- जातमेवोपासकानां भवतीति वार्थः ॥ विरजो ब्रह्मलोक इतीति ॥ ब्रह्माणि जीवाः सर्वेऽपि' इति जीववाचको ब्रह्मशब्दो भावप्रधानः । तथाच ब्रह्मत्वस्य जीवत्वस्यानन्दादिस्वरूपत्वस्य लोकः प्रकाशोऽनुभवः तेषां उपनिषदुक्तब्रह्म- ज्ञानिनां भवतीत्यर्थ इत्यभिप्रेतम् । उत्तरत्र ब्रह्मलोको वैकुण्ठादिः प्राप्यो भवतीत्यर्थान्तरमुक्तमिति ज्ञातव्यम् ॥

अनन्तभट्टविरचिताषट्प्रश्नभाष्यटीकाटिप्पणी

ग्रन्थादौ मङ्गलमाचरति - पान्त्विति ॥ अस्मदभिमतं समस्तं प्रापयन्तु अनभिमतं निवर्तयन्त्वित्यर्थः । कुतः पद्मनाभपदपङ्कजपरागाणां तादृशसामर्थ्य- मित्यतः प्राप्ताशेषकामयापि रमया परमानुरागेणानिशं शिरसा धृतत्वेनावगत- गुणत्वादित्याह - कमलेति ॥ सुरभीकरणोद्यता इत्यनेन पदपांसूनां पङ्कजपराग- सादृश्यमुपपादितम्। दृष्टान्तादतिशयश्चानेन दाष्टन्तिकेऽवगम्यते । नहि नाना- कुसुमनिचयस्य मिलितस्यापि स्वतोऽतिसुगन्धात्मकेन्दिराकबरीभारसुरभी- करणोद्यमित्वं सम्भवतीति । पारावारः सरित्पतिः ॥ जननीति ॥ तद्वत्केवला- रागादेव प्रवृत्तिरिति भावः ॥ वर्तमानेति ॥ सर्जनक्रियाया इदानीं निवृत्तत्वेऽपि तत्स्वभावस्यानुवृत्तत्वेन वर्तमानार्थकलट्प्रयोग इति भावः ।।

गूढकर्तृकाषट्प्रश्नभाष्यटीकाटिप्पणी

मङ्गलमाचरतिपान्त्विति ॥ गुरुत्ववाचकभारशब्दस्य पूर्वनिपातः। बृह- त्कबरीति यावत् । रेणवोऽपि परमात्मस्वरूपभूता इत्याहुः ॥