तान् वरिष्ठः प्राण उवाच

बाणविधारणं प्राणस्य ममैवेति बोधनम्

उपनिषत्

तान् वरिष्ठः प्राण उवाच । मा मोहमापद्यथाऽहमेवैत- त्पञ्चधाऽऽत्मानं विभज्यैतद् बाणमवष्टभ्य विधारया-मीति । तेऽश्रद्दधाना बभूवुः । सोऽभिमानादूर्ध्वमुत्क्रमत इव तस्मिन्नुत्क्रामत्यथेतरे सर्व एवोत्क्रमन्ते । तस्मिंश्च प्रतिष्ठमाने सर्व एव प्रतिष्ठन्ते ॥ ३ ॥

श्रीमज्जयतीर्थभिक्षुविरचिताषट्प्रश्नभाष्यटीका

तानेवं मन्यमानान्वरिष्ठः प्राण उवाच । किमिति । वयमेव धारकाः प्रकाशकाश्चेत्येवंविधं मोहं मिथ्याज्ञानं मा प्राप्नुत । कुतोऽयं मोहः। यस्माद- हमेवैतदेतस्मिन् शरीरे पञ्चधा प्राणादिरूपैरात्मानं प्रविभज्य प्रविभक्तं कृत्वैत- द्वाणमवष्टभ्य विधारयामि प्रकाशयामि चेति । तच्छ्रुत्वा तेऽश्रद्दधाना अप्रत्ययवन्तो बभूवुः कुत एतदित्थमिति । स मुख्यप्राणस्तेषां प्रत्यायनायाभिमन्यत इत्यभिमानो देहस्तस्मादुर्ध्वमुत्क्रमत इव किञ्चिदूर्ध्वमुदक्रामत् । अथ तस्मिन्प्राणे उत्क्रामति सति इतरे सर्व एवाकाशादिदेवाः शरीरधारणादौ स्वस्थितौ चासमर्थाः उत्क्रमन्ते उदक्रामन् । अस्य यादृच्छिकत्वपरिहाराय पुनस्तस्मिन्प्राणे प्रतिष्ठमाने शरीर एव प्रतितिष्ठति सर्व एव देवाः प्रतिष्ठन्ते शरीरे प्रतितिष्ठन्ति ॥ ३ ॥

श्रीवामनपण्डिताचार्यविरचिताषट्प्रश्रभाष्यटीका

अथ मुख्यप्राणः तानुवाच । मा मोहमापद्यथ इति । एतत्पञ्चधा अनेन दृश्यमानेन प्राणापानादिरूपेण पञ्चधा । तद्वचनेनाप्यश्रद्दधाना बभूवुः ॥ २-३ ॥

श्रीवादिराजतीर्थविरचिताषट्प्रश्नभाष्यटीकाप्रकाशिका

'अप्रत्ययवन्तः' इत्यत्र अप्रत्ययवन्तोऽविश्वासवन्त इत्यर्थः । 'तस्मादूर्ध्वमुत्क्रमत इव' इत्यत्र स्वमहिमस्फोरणाय देहात्किञ्चिदविदूरे उत्क्रा- न्तवान्नतु वस्तुगत्योत्क्रमणमित्यत इवशब्दः ॥ २ - ३ ॥

श्रीसत्यप्रज्ञतीर्थविरचिताषट्प्रश्नभाष्यटीकाटिप्पणी

अप्रत्ययवन्त इत्युक्तमविश्वासं निर्दिशति - कुत एतदिति ॥ ऊर्ध्व- मुत्क्रमत इवेति इवशब्दार्थः किञ्चिदित्युक्तं बृहदारण्यकभाष्ये । 'उपमार्थे तथाल्पत्वेऽपीव-शब्दः प्रयुजत' इत्यभिधानम् । 'दशरात्रैर्भुक्तमिव न सम्यक् स्वल्पभोजनात्' इति प्रयोगादिति । इदानीमुत्क्रमणाभावात् च्छान्दसो लकार- व्यत्यय इति भावेनाह- उदक्रामदिति ॥ एवमुत्तरत्रापि ज्ञेयम् । अत्र यद्यपि प्राणसंवादविषये महैतरेयादौ तत्त्वदेवानामेकैकस्योत्क्रमणानन्तरं मुख्यप्राणस्यो- त्क्रमणम्, एकैकस्य प्रवेशानन्तरं प्रवेशश्चेत्युत्क्रमणप्रवेशश्चेत्युत्क्रमणप्रवेशौ प्राणस्य पश्चादेव प्रतीयते । अत्र च्छान्दोग्ये च प्राणस्यैवादावुत्क्रमणमितरेषां विराड्देहे अवस्थातुमसामर्थ्येन पश्चादुत्क्रमणं प्रतीयत इति विरोधो भाति, तथापि कल्पभेदेन वा एकस्मिन्नेव कल्पे द्विवारमुत्क्रमणप्रवेशकल्पनया वा अविरोधो ज्ञेयः । तथाहि 'वागुदक्रामत् अवदन्ननश्नन्नपिबन् आस्तैव । वाक् प्राविशत् अवददेवेत्यादिना एकैकस्य देवस्योत्क्रमणप्रवेशाभ्यां विराड्देहस्य पतनोत्थानयो- रसामर्थ्ये निर्णीते सत्यपि मिलितानामस्माकं सर्वतश्च देवानां मुख्यप्राणेन विना एतद्देहधारकत्वादिसामर्थ्यं भविष्यतीत्यभिमानेन 'वयमेतद् बाणमवष्टभ्य विधारयाम' इति पुनर्विवादे प्रसक्ते 'तानू वरिष्ठः प्राण उवाच' इत्यादिना मुख्यस्यैव प्रथमं देहादुत्क्रमणं तदनन्तरं तेषां देहावस्थानमेवाशक्यम् । किमुत तद्धारणादि- सामर्थ्यमिति सूचयितुं तस्मिन्नुत्क्रामति इतरे सर्वा एवोत्क्रमन्त इति इतरदेवानां पश्चादुत्क्रमणञ्चोच्यत इति अविरोध इति ॥ २-३ ॥

छलारीनारायणाचार्यविरचितंषट्प्रश्नटीकाविवरणम्

|| अभिमन्यमानानिति ॥ अहङ्कारं कुर्वत इत्यर्थः ॥ प्राणादि- रूपैरिति॥ वागादिरूपैश्चेति शेषः । अत्र मुख्यप्राणः वागादीन्द्रियेषु प्रकाशार्थं वागादिरूपेण तिष्ठतीत्यत्र ज्ञापकमुत्तरत्र त्वमेव सर्वदेवादिषु स्थित्वा तन्नामा तद्गुणक्रियादिप्रवर्तक इति प्राणं स्तुन्वन्तीति टीकाकारवचनमेव ॥ अभिमानो देह इति ॥ अभिपूर्वकमन्यतेः 'अकर्तरि च कारके संज्ञायां' इति कर्मणि घञ् ॥ किञ्चिदूर्ध्वमिति ॥ ' इवोभये च सादृश्य' इति वचनादिवशब्दस्य सादृश्यार्थकत्वात्तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्त्वस्य सादृश्यशब्दार्थत्वादिति भावः ॥ आकाशादिदेवा इति ॥ आदिशब्दो न चक्षुराद्याः प्रकाश्याः ग्राह्याः । उत्तरत्र प्रतितिष्ठन्तीति प्रतिष्ठोक्तेः । तदुपयुक्तमध्याहरति- स्वस्थितौ वेति ॥ प्रतितिष्ठतीति शतः सप्तम्यन्तोऽयं शब्दः । शरीरे सतीत्यर्थः ॥ २-३ ॥

ताम्रपर्णीश्रीनिवासाचार्यविरचिताषट्प्रश्रभाष्यटीकाटिप्पणी

अप्रत्ययवन्तोऽनाश्वासवन्तः । ऊर्ध्वमुत्क्रमत इवेतीवशब्दार्थः किञ्चिदिति ॥ तदुक्तं बृहदारण्यकभाष्ये - " उपमार्थे तथाल्पत्वेऽपीवशब्दः प्रयुज्यतइति। तदानीमुत्क्रमणाभावाच्छान्दसो लकारव्यत्यय इति भावेनाह- उत्क्रमत इति ॥ एवमुत्तरत्रापि । अत्र यद्यपि प्राणसंवादविषये महैतरेयादौ तत्त्वदेवानामेकैकस्य उत्क्रमणानन्तरं मुख्यप्राणोत्क्रमणं एकैकस्य प्रवेशानन्तरं प्रवेशश्चेत्युत्क्रमणप्रवेशौ प्राणस्य पश्चादेव प्रतीयते । अत्र च्छान्दोग्ये च प्राणस्यैवादावुत्क्रमणमितरेषां देहेऽवस्थानासामर्थ्येन पश्चादुत्क्रमणं प्रतीयत इति विरोधो भाति, तथापि कल्पभेदेन वा एतस्मिन्नेव कल्पे द्विवारमुत्क्रमण- प्रवेशकल्पनयाऽविरोधो ज्ञेयः ॥

तथाहिवागुदक्रामदवदन्नश्नन् पिबन्नास्तैव । वाक्प्राविशदशयदेव' इत्यादि- नैकैकस्य देवस्योत्क्रमणप्रवेशाभ्यां विराड्देहस्य पातोत्थापनयोरसामर्थ्ये निर्णीते सत्यपि मिलितानामस्माकं तत्र देवानां मुख्यप्राणेन विना एतद्देहधारकत्वा- दिसामर्थ्यं भविष्यतीत्यभिमानेन वयमेतद्वाणमवष्टभ्य विधारयाम इति पुनर्विवादे प्रसक्ते तान्वरिष्ठः प्राण उवाचेत्यादिना मुख्यप्राणस्यैव प्रथमं देहादुत्क्रमणानन्तरं तेषामवस्थानमेवाशक्यं किमिति धारणादिसामर्थ्यमिति सूचयितुं तस्मिन्नु- त्क्रामत्यथेतरे सर्व एवोत्क्रमन्त इतीतरदेवानां पश्चादुत्क्रमणो चोद्यत इत्यविरोध इति ॥ २-३ ॥

मङ्कालीधर्मराजाचार्यविरचिताषट्प्रश्नभाष्यटीकाटिप्पणी

|| मन्यमानानिति ॥ अहङ्कारं कुर्वत इत्यर्थः ॥ प्राणादि- रूपैरिति ॥ वागादिरूपैश्चेति शेषः । मुख्यप्राणो वागादीन्द्रियेषु प्रकाशाद्यर्थं वागादिरूपेण तिष्ठतीत्यत्र ज्ञापकमुत्तरत्र त्वमेव सर्वदेवादिषु स्थित्वा तत्तन्नामा तत्तद्गुणक्रियादिप्रवर्तक इति प्राणं प्रस्तुवन्तीति टीकाकारवचनमेव। अप्रत्यय- वन्त इत्युक्तमविश्वासं निर्दिशति - कुत एतदित्थमितीति ॥ अभिमानो देह इति ॥ अभिपूर्वकमन्यतेः 'अकर्तरि च कारके सञ्ज्ञायाम्' इति कर्मणि घञ् । उत्क्रमत इवेति इवशब्दार्थः ॥ किञ्चिदिति ॥ उक्तञ्च बृहदारण्यकभाष्ये।उपमार्थे तथाल्पत्वेऽपीवशब्दः प्रयुज्यत' इत्यभिधानम् । 'दशरात्रैर्भुक्तमिव न सम्यक् स्वल्पभोजनात्' इति प्रयोगाद्वेति । इदानीमुत्क्रमणाभावाच्छान्दसो लकारव्यत्यय इति भावेनाह - उदक्रामदिति ॥ एवमुत्तरत्रापि ज्ञेयम् । उत्तरत्र प्रतितिष्ठतीति प्रतिष्ठोक्तेः तदुपयुक्तमध्याहरति- स्वस्थितौ चेति ॥ अत्र यद्यपि प्राणसंवादादिविषये महैतरेये तत्त्वदेवानां एकैकस्योत्क्रमणानन्तरं मुख्य- प्राणस्योत्क्रमणं एकैकस्य प्रवेशानन्तरं प्रवेशश्चेति उत्क्रमणप्रवेशौ प्राणस्य पश्चादेव प्रतीयेते । अत्र छान्दोग्ये च प्राणस्यैवादावुत्क्रमणम् । इतरेषां विराड्देहे- ऽवस्थातुमसामर्थ्येन पश्चादुत्क्रमणं प्रतीयत इति विरोधो भवति । तथापि कल्पभेदेन वा एकस्मिन्नेव कल्पे द्विवारमुत्क्रमणप्रवेशकल्पनया वाऽविरोधो ज्ञेयः । तथाहि - ' वागुदक्रामत् अवदन्नश्नन् पिबन् आस्तैव । वाक् प्राविशत् अशयदेव' इत्यादिना एकैकस्य देवस्योत्क्रमणप्रवेशाभ्यां विराड्देहस्य पातनो- त्यांनयोरसामर्थ्ये निर्णीते सत्यपि मिलितानामस्माकं सर्वतत्त्वदेवानां मुख्यप्राणेन विना एतद्देहधारकत्वादिसामर्थ्यं भविष्यतीत्यभिमानेन 'वयमेतद्वाणमवष्टभ्य विधारयामः' इति पुनर्विवादे प्रसक्ते 'तान्वरिष्ठः प्राण उवाच' इत्यादिना मुख्यप्राणस्यैव प्रथमं देहादुत्क्रमणं तदनन्तरं तेषामवस्थानमेवाशक्यं किमुत धारणादिसामर्थ्यमिति सूचयितुं 'तस्मिन्नुत्क्रामत्यथेतरे सर्व एवोत्क्रमन्ते' इति । इतरदेवानां पश्चादुत्क्रमणञ्चोच्यत इत्यविरोध इति ॥ २-३ ॥

अनन्तभट्टविरचिताषट्प्रश्नभाष्यटीकाटिप्पणी

लकारव्यत्यय छान्दस इति भावेन प्रतिष्ठन्ते प्रत्यातिष्ठन्तेति व्याख्यातम् ॥ २-३ ॥

श्रीराघवेन्द्रयतिविरचितषट्प्रश्नोपनिषत्खण्डार्थः

तानेवमभिमन्यमानान्वरिष्ठः प्राण उवाच । किमिति ? वयमेव धारकाः प्रकाशकाश्चेत्येवंविधं मोहं मिथ्याज्ञानं माऽऽपद्यथ न प्राप्नुत । कुतोऽयं मोहः ? यस्मादहमेवैतदेतस्मिन् शरीरे पञ्चधा प्राणादिरूपैरात्मानं प्रविभज्य प्रविभक्तं कृत्वा एतद् बाणमवष्टभ्य विधारयामि प्रकाशयामि चेति । तत् श्रुत्वा ते देवा अश्रद्दधाना अप्रत्ययवन्तो बभूवुः, कुत एतदित्थमिति । स मुख्यप्राणः तेषां प्रत्यायनाय, अभिमन्यत इत्यभिमानो देहः, तस्मादूर्ध्वमुत्क्रमत इव, किञ्चिदूर्ध्व- मुक्रामत् । अथ तस्मिन् प्राण उत्क्रामति सति, इतरे सर्व एवाऽकाशा - 1 -दिदेवाः शरीरधारणादौ स्वस्थितौ चासामर्थ्यादुत्क्रमन्ते, उदक्रमन्त । अस्य च यादृच्छि- कत्वपरिहाराय पुनस्तस्मिन् प्राणे प्रतिष्ठमाने शरीर एव प्रतितिष्ठति सति सर्वे देवाः प्रतिष्ठन्ते शरीरे प्रत्यतिष्ठन् ॥ २-३ ॥

नरसिंहभिक्षुविरचिताषट्प्रश्नार्थप्रकाशिका

तानेवमभिमन्यमानान्वरिष्ठः प्राण उवाच । वयमेव धारकाः प्रकाशका- श्चेत्येवंविधं मोहं मिथ्याज्ञानं माप्नुत कुतोऽयं मोहः ? यस्मादहमेवैतदेतस्मिन् शरीरे पञ्चधा प्राणादिरूपेणात्मानं प्रविभज्य प्रविभक्तं कृत्वा एतद्वाणमवष्टभ्य विधारयामि, प्रकाशयामि चेति । तच्छ्रुत्वा ते अश्रद्दधानाः अप्रत्ययवन्तो बभूवुः। सः मुख्यप्राणः तेषां प्रत्यायनायाभिमन्यत इति अभिमानो देहः तस्मादूर्ध्वं उत्क्रामत इव किञ्चिदूर्ध्वं उदक्रामत् । अथ तस्मिन्प्राणे उत्क्रमति सति सर्व एव वागादिदेवाः शरीरधारणादौ स्वस्थितौ वा असमर्था उत्क्रमन्ते उदक्रामन्। अस्य च यादृच्छिकत्वपरिहाराय पुनः तस्मिन् प्राणे प्रतिष्ठमाने शरीर एव प्रतितिष्ठति सति सर्व एव देवाः प्रतितिष्ठते॥ २-३ ॥

उदयगिरिकेशवाचार्यविरचिताषट्प्रश्नपञ्चिका

तान् सर्वान् तत्त्वाभिमानिनो देवान् वरिष्ठः प्राणः मुख्यो वायुरुवाच । किमिति ? वयमेव धारकाः प्रकाशकाश्चेत्येवंविधं मोहं मिथ्याज्ञानम् । मा आपद्यथ मा आनुत । कुतः ? अहमेव एतत् शरीरं पञ्चधा प्राणादिरूपैः आत्मानं विभज्य विभागं कृत्वा, एतद्वाणं शरीरं, अवष्टभ्य अधिष्ठाय, धारयामि, प्रकाशयामीति मुख्यप्राणेनोक्ते सति ते तात्त्विका देवा अश्रद्दधानाः अप्रत्ययवन्तो बभूवुः । सर्वेषामेकशरीरस्थत्वेन साम्यात् कुतस्तवैव श्रेष्ठत्वमित्यूचुरिति भावः । एवं स्थिते स मुख्य अभिमानात् अभिमन्यमानात् देहात् । ऊर्ध्वं उत्क्रमत इव किञ्चिदूर्ध्वं उदक्रामत् । अथानन्तरं तस्मिन् वायौ उत्क्रमति सति इतरे तात्त्विका देवाः सर्वे एव उत्क्रमन्ते उदक्रामन् । च पुनः तस्मिन्वायौ प्रतिष्ठमाने प्रवेशमाने सर्व एव देवाः प्रतिष्ठन्ते शरीरे प्रवेशं कुर्वते ॥ २-३ ॥