संवत्सरो वै प्रजापतिः
भारतीप्राणपतिप्रजापतीनां कालाधिष्ठातृत्वम्
उपनिषत्
संवत्सरो वै प्रजापतिः । तस्यायने दक्षिणं चोत्तरं च । तद् ये ह वै तदिष्टापूर्ते। कृतमित्युपासते ते चान्द्रमसमेव लोकमभिजयन्ते । त एव पुनरावर्तन्ते । तस्मादेते ऋषयः प्रजाकामा दक्षिणं प्रतिपद्यन्ते । एष वै रयिर्यः पितृयाण: || ७ ||
भाष्यम्
संवत्सरस्थो भगवान् वागीरावयनस्थितौ ॥ ७ ॥
श्रीमज्जयतीर्थभिक्षुविरचिताषट्प्रश्नभाष्यटीका
अथ सर्वोत्पत्तिनिमित्तकारणं संवत्सरादिलक्षणं कालं तदवान्तरभेदो- त्तरायणाद्यधिष्ठातारौ रयिप्राणौ चाधिष्ठाय प्रजापतेः प्रजाकारणत्वमुच्यते - संवत्सर इति ॥ प्रजापतिः संवत्सरो वै संवत्सरस्थः सन् प्रजा जनयतीति प्रसिद्धम् । तस्य संवत्सरस्य ये अयने सूर्यगतिविशेषोपलक्षितौ देवयानपितृयाणलक्षणदेवता- विशेषाभिमतौ भागविशेषौ नामतो दक्षिणं चोत्तरं च तयोः रयिप्राणावधिष्ठाताराविति शेषः । कुत एतदित्युच्यते - तद्य इत्यादि । तत्तत्र साधकेषु ये ऋषयः प्रजाकामाः, मोक्षेतरफलकामाः सन्त इति यावत्, इष्टं यजनं पूर्तमन्नप्रदानादिकं कृतमन्यच्च कर्मेत्येतदुपासते ऽनुतिष्ठन्ति त एते दक्षिणं पितृयाणं प्रतिपद्यन्ते । प्रतिपन्नाश्च ते चान्द्रमसमेव लोकमभिजयन्ते प्राप्नुवन्ति । त एव पुनः स्वकर्मावसाने तस्मा- च्चन्द्रलोकादावर्तन्ते हवै । यत एवं पितृयाणेन गतानां पुनरावृत्तिमच्चन्द्र- लोकप्राप्तिलक्षणं फलं प्रसिद्धम्, तस्माच्चन्द्राधिष्ठात्री रयिरेवैषः यः पितृयाणो वै पितृयाणाधिष्ठात्रीति गम्यते ॥ ७ ॥
श्रीवामनपण्डिताचार्यविरचिताषट्प्रश्रभाष्यटीका
संवत्सरस्थो भगवानित्यादिना संवत्सरं वै प्रजापतिरित्यादेरभि- प्रायमाह। संवत्सरादिशब्दैस्तत्स्थो विष्णुरेव मुख्यतयोच्यते ' तदधीनत्वादर्थ- वत्' इत्यादेः। अयनादिशब्दैस्तदनन्तरं वाक्प्राणावपि यथायोगमुच्येते । 'एष वै रयिर्यः पितृयाणः' इत्याद्युत्तरवचनात् । पितृयाणं दक्षिणायनं हि । तद्ये ह वै तदित्यादेरयमर्थः । तयोरयनयोर्मध्ये तया दक्षिणायनदेवतया वाग्देव्या ये नरा इष्टापूर्तादिकर्मणा यज्ञं यजन्ते । ते चन्द्रलोकात् तत्फलं भुक्त्वा ततः पुनरिहा- वर्तन्ते । प्रजाकामाः पुनः प्रजननेन प्रजोत्पादनकामाः ॥ १-७ ॥
श्रीवादिराजतीर्थविरचिताषट्प्रश्नभाष्यटीकाप्रकाशिका
' तस्माच्चन्द्रधिष्ठात्री रयिः' इत्यत्र द्रव्यसाध्येष्ट्यादि- कर्मफलदातृत्वेन रयिनाम्ना सूचितत्वाद्रयिश्चन्द्राधिष्ठात्रीति भावः ॥ ७ ॥
छलारीनारायणाचार्यविरचितंषट्प्रश्नटीकाविवरणम्
॥ प्रजा जनयतीति प्रसिद्धमिति ॥ संवत्सरो वै इति वैशब्दार्थोऽयम् । देवयानपितृयाणदेवताविशेषाभिमन्यमानाविति || देवयानपितृयाणनामकदेवतयोरभिमन्यमानावित्यर्थः । अनुतिष्ठन् कुर्वन्तीत्यर्थः। इष्टापूर्तादिकर्तारः प्रथमत एव चान्द्रमसलोकं प्राप्नुवन्तीत्यर्थ- निरासाय वक्ष्यमाणमेव दक्षिणमित्यादि संयोजयति - त एते दक्षिणं पितृयाण- मिति ॥ अनेन
धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् ।
तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ॥
इति भगवद्गीतोक्तमुपलक्षितं भवति । ते चान्द्रमसमिवेति कर्मिणः ज्ञानिव- च्चन्द्रलोकप्राप्त्यनन्तरं वैश्वानरादिलोकं न प्राप्नुवन्तीत्यर्थः। तथाच ब्रह्मसूत्र- चतुर्थाध्याये 'उभयव्यामोहात्तत्सिद्धेः' इति सूत्रे ज्ञानिनां अर्चिरादिमार्गक्रम- प्रतिपादकं भाष्यं ब्रह्मतर्फे च-
उत्क्रान्तस्तु शरीरात् स्वाद्गच्छत्यर्चिषमेव तु ।
ततो हि वायोः पुत्रञ्च योऽसौ नाम्नातिवाहिकः ॥
ततो ह पूर्वपक्षं चाप्युदक्संवत्सरं तथा ।
तटितं वरुणञ्चैव प्रजापं सूर्यमेव वा ॥
सोमं वैश्वानरश्चेन्द्रं ध्रुवं देवीं दिवं तथा ।
ततो वायुं परं प्राप्य तेनैति पुरुषोत्तमम् ॥ इति ॥ १-७ ॥
ताम्रपर्णीश्रीनिवासाचार्यविरचिताषट्प्रश्रभाष्यटीकाटिप्पणी
कालभागयोरयनशब्दयोगः कथमित्यत आह- सूर्यगति- विशेषोपलक्षिताविति ॥ कर्कटमासादिमासषट्के सूर्यस्थचक्रस्य मानसोत्तरे किञ्चिद्दक्षिणाश्रितभागे मकरादिमासषट्के किञ्चिदुत्तराश्रितभागे गमनात् तदुप- लक्षितत्वेनायनशब्दप्रयोग इति भावः । दक्षिणायनादिशब्देन न कालमात्रग्रहणं, किन्तु तदभिमानिदेवस्यापि । तदभिमानी च देवयानपितृयाणमार्गदेव एवेति भावेनोक्तम् । देवयानेति । अन्यथोपपादकग्रन्थे 'दक्षिणं प्रतिपद्यन्ते । अथोत्तरेण' इति वचनमननुगुणं स्यादिति ज्ञेयम् । तस्मादित्येतच्चन्द्रलोकादिति व्याख्यातम्। तस्मादेष वै रयिर्य: पितृयाण इत्युत्तरेणापि संयोज्यापि व्याचष्टे- तस्माच्चन्द्रेति ॥ १-७ ॥
मङ्कालीधर्मराजाचार्यविरचिताषट्प्रश्नभाष्यटीकाटिप्पणी
अधिष्ठायेत्यनन्तरं प्रजापतिः प्रजाः सृजतीति शेषः । प्रजा- कारणत्वं प्रजोत्पत्तिकर्तृत्वमिति वार्थः । इति प्रसिद्धमिति वैशब्दार्थकथनम् । सूर्यगतिविशेषोपलक्षितौ दक्षिणोत्तरदेशयोः सूर्यगमनविशेषेणोपलक्षितौ व्यावर्तितौ । देवयानपितृयाणदेवताविशेषाभिमतो देवयानपितृयाणसंज्ञकमार्ग- द्वयाभिमानिदेवताविशेषाभिमन्यमानौ भागविशेषौ अंशविशेषौ ॥ कुत एतदि- त्युच्यत इति ॥ एतद्रयिप्राणयोर्भागविशेषाधिष्ठातृत्वं कुतः प्रतिपत्तव्य- मित्याकांक्षायां तद्य इत्याद्युच्यत इत्यर्थः । अनुतिष्ठन्तीति ॥ कुर्वन्तीत्यर्थः । इष्टापूर्तादिकर्तारः प्रथमत एव चान्द्रमसं लोकं प्राप्नुवन्तीति भ्रान्तिनिरासाय वक्ष्यमाणं दक्षिणमित्येतदादौ योजयति - त एते दक्षिणं पितृयाणमिति ॥ अनेन 'धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम्' इति गीतोक्तमुपलक्षितं भवति॥ चान्द्रमसमेवेति ॥ कर्मिणो ज्ञानिवच्चन्द्रलोकप्राप्त्यनन्तरं वैश्वानरा- दिलोकं न प्राप्नुवन्तीत्यर्थः । पूर्ववाक्यार्थं 'एष वै रयिर्यः पितृयाणः' इत्यत्र हेतुतया योजयन् यदित्येतद्यत इत्यर्थकमिति व्याख्याति - यत एवमिति ॥ गम्यस्यैव स्वप्राप्तिमार्गतदभिमानिदेवतास्वाम्यस्य वक्तव्यत्वात् । चन्द्रान्तर्गत- सरस्वत्याः स्वप्राप्तिहेतुभूतपितृयाणनामकमार्गाधिष्ठातृदक्षिणायनाभिमानि- देवतामधिष्ठाय तन्नियन्तृत्वे वक्तव्ये तदभिमन्यमानदक्षिणायननियन्तृत्वमपि वाच्यमिति तदधिष्ठातृत्वं सेत्स्यतीति भावः ॥ १-७ ॥
अनन्तभट्टविरचिताषट्प्रश्नभाष्यटीकाटिप्पणी
यत एवमिति गम्यस्यैव स्वप्राप्तिसाधनमार्गतदभिमानि- देवतास्वाम्यस्य वक्तव्यत्वाच्चन्द्रान्तर्गतसरस्वत्याः स्वप्राप्तिहेतुभूतपितृयाण-नामकमार्गाधिष्ठातृदक्षिणायनाभिमानिदेवानां अधिष्ठाय तन्नियन्तृत्वे वक्तव्ये तदभिमन्यमानदक्षिणायननियन्तृत्वमपि वाच्यमिति तदधिष्ठातृत्वं सेत्स्यतीति भावः । एवमुत्तरत्रापि ज्ञातव्यम् ॥१-७॥
गूढकर्तृकाषट्प्रश्नभाष्यटीकाटिप्पणी
'तस्यायने दक्षिणं चोत्तरं च' इत्यत्र न कालमाव्रग्रहणम् । तथात्वे 'तो ह वै तत्' इत्युपपादकग्रन्थासङ्गतेः । किन्तु तदभिमानिनोऽपि । सर्वदेयानादिदेवा एवेत्यभिप्रेत्य वक्ष्यमाणश्लोकानुगुण्याय दक्षिणायनादि- शब्दार्थमप्याह- तस्येति ॥ १-७ ॥
श्रीराघवेन्द्रयतिविरचितषट्प्रश्नोपनिषत्खण्डार्थः
-अथ सर्वोत्पत्तिनिमित्तकारणं संवत्सरादिलक्षणं कालं तदवान्तर- भेदोत्तरायणाद्यधिष्ठातारौ रयिप्राणौ चाधिष्ठाय प्रजापतेः प्रजाकारणत्वमुच्यते- संवत्सर इत्यादि । प्रजापतिः संवत्सरो वै संवत्सरस्थः सन् प्रजा जनयतीति प्रसिद्धम् । तस्य संवत्सरस्यायने सूर्यगतिविशेषोपलक्षितौ देवयानपितृयाणलक्षण- देवताविशेषाभिमतौ भागविशेषौ नामतो दक्षिणञ्चोत्तरञ्च । तयोः रयिप्राणाव - धिष्ठाताराविति शेषः । कुत एतदित्यत उच्यते - तद्ये ह वै तदित्यादि ॥ तत् तत्र साधकेषु ये ऋषयः प्रजाकामाः, मोक्षेतरफलकामाः सन्त इति यावत्, इष्टं यजनं पूर्तमन्नदानादिकं कृतमन्यच्च कर्म इत्येतदुपासते अनुतिष्ठन्ति त एते दक्षिणं पितृयाणं प्रतिपद्यन्ते । प्रतिपन्नाश्च ते चान्द्रमसं लोकमभिजयन्ते प्राप्नुवन्ति । त एव पुनः स्वकर्मावसाने तस्माच्चन्द्रलोकादावर्तन्ते ह वै । यत एवं पितृयाणेन गतानां पुनरावृत्तिमच्चन्द्रलोकप्राप्तिलक्षणं फलं प्रसिद्धं, तस्माच्चन्द्रधिष्ठात्री रयिरेवैषो यः पितृयाणो वै पितृयाणाधिष्ठात्रीति गम्यते ॥ १-७ ॥
नरसिंहभिक्षुविरचिताषट्प्रश्नार्थप्रकाशिका
प्रकारान्तरेण प्रजापतेः कारणत्वमाह - संवत्सर इति ॥ संवत्सरो वै सर्वोत्पत्तिनिमित्तकारणः संवत्सरादिकालाधिष्ठाता रयिप्राणगतः प्रजापतेः प्रजाजनकत्वं प्रसिद्धम्। तस्य संवत्सरस्य अयनेषु साधकेषु ये प्रजाकामाः मोक्षेतरफलकामाः सन्तः इष्टं यजनं पूर्तं अन्नप्रदानादिकं कृतमन्यच्च कर्म इत्येतदुपासते अनुतिष्ठन्ति। त एव दक्षिणं पितृयाणं प्रतिपद्यन्ते। प्रतिपन्नाश्च ते चान्द्रमसमेव लोकं अभिजयन्ते प्राप्नुवन्ति । त एव पुनः स्वकर्मावसाने तस्माच्चन्द्रलोकादावर्तन्ते । तस्मात्पुनरावृत्तिमार्गत्वादेते ऋषयः कर्ममार्गज्ञाः प्रजाकामाः दक्षिणं प्रतिपद्यन्ते । यः पितृयाणः पैतृयाणाधिष्ठात्री एषा रयिर्वै प्रसिद्धम्।। १-७ ॥
उदयगिरिकेशवाचार्यविरचिताषट्प्रश्नपञ्चिका
अथ कालतदवान्तरभेदोत्तरायणाद्यधिष्ठातारौ रयिप्राणी अधिष्ठाय प्रजापतेः कारणत्वमाह - संवत्सर इति ॥ प्रजापतिः वासुदेवाख्यो भगवान् संवत्सरः संवत्सरस्थः सन् प्रजाः जनयतीति वै प्रसिद्धम् । संवत्सरशब्दः कालविशेषवाची । तस्य संवत्सरस्य ये अयने गतिविशेषोपलक्षितपितृयाण- देवयानलक्षणभागविशेषौ । नामतो दक्षिणञ्चोत्तरञ्चेति । तदधिष्ठातारौ रयिप्राणाविति शेषः । कथमेतज्ज्ञायत इत्यत आह- तद्य इत्यादिना ॥ तत्र साधकेषु ये ऋषयः । हवै इति प्रसिद्धम् । ऋषयः प्रजाकामा इति वक्ष्यमाणमत्रापि सम्बद्ध्यते ! मोक्षेतरफलकामाः सन्तः । तत् इष्टं यजनं पूर्तं अन्नप्रपादानादिकञ्च । “ अन्येभ्योऽपि ” इति दीर्घः । कृतं अन्यत्कर्म चेति उपासते अनुतिष्ठन्ति। त एते प्रजाकामा ऋषय दक्षिणं पितृयाणं प्रतिपद्यन्ते प्राप्नुवन्ति । प्राप्ताश्च ते चान्द्रमसमेव लोकं चन्द्रसम्बन्धिनं अभिजयन्ते प्राप्नुवन्ति । त एव पुनरावर्तन्ते । तस्मात्स्वकर्मावसाने तस्माच्चन्द्रलोकादौ वर्तन्ते ॥ 'एष वै रयिर्य: पितृयाण:' इति ॥ तस्माच्चन्द्राधिष्ठात्री रयिरेव एषो यः पितृयाणः । पितृयाणाधिष्ठात्री वै इति । पितृयाणेन गतानां पुनरावृत्तिमच्चन्द्रलोकप्राप्तिर्भवतीति भावः ॥ १-७ ॥