अथ हैनं कौसल्यश्चाश्वलायनः पप्रच्छ

अथ तृतीयः प्रश्नः

एवमाढ्यस्य प्राणस्योत्पत्तिविषये आश्वलायनस्य प्रश्नः

उपनिषत्

अथ हैनं कौसल्यश्चाश्वलायनः पप्रच्छ । भगवन् कुत एष प्राणो जायते । कथमायात्यस्मिन् शरीरे । आत्मानं वा प्रविभज्य कथं प्रतिष्ठते । केनोत्क्रमते कथं बाह्यमभिधत्ते कथमध्यात्ममिति ॥ १ ॥

श्रीमज्जयतीर्थभिक्षुविरचिताषट्प्रश्नभाष्यटीका

॥ अथ हैनं कौसल्यः ॥ प्रागुक्तं परमेश्वरो निखिलजग- ज्जन्मादिकर्तेत्यादि । तद्विवरणार्थोऽयमुत्तरो ग्रन्थः । भगवन्, कुतः कस्मात् पुरुषात् एष उक्तलक्षणः प्राणो जायते ? स मिथुनमुत्पादयते ? रयिञ्च प्राणञ्चेत्युक्तमपि परमेश्वराज्जन्म एवमाढ्यस्य कथं नाम सम्भवतीत्यभिप्रायः । अहमेवैतत्पञ्चधा- ऽऽत्मानं प्रविभज्यैतद् बाणमवष्टभ्य विधारयामीत्युक्तम् । तत्र कथं कस्मात्कारणात् अस्मिन् शरीरे प्राण आयाति प्रवर्तते ? आत्मानं प्रविभज्य कथं प्रतिष्ठते प्रतितिष्ठति ? के ते विभागाः ? तैश्च किं कुर्वत् कुत्र स्थानविशेषे तिष्ठतीति यावत् । तस्मिन्नुत्क्रान्ते सर्वेऽप्युत्क्रान्ता इत्युक्तम् । तत्र केन प्रविभागेन जीवादीनादायो- त्क्रामति ? प्राणस्यैतद्वशे यत् प्रतिष्ठितमित्युक्तम् । तत्र कथं केन रूपेण बाह्य- मधिभूतादिकमभिधत्ते धारयति ? कथञ्चाध्यात्ममभिधत्ते ? ॥ ३-१ ॥

श्रीवादिराजतीर्थविरचिताषट्प्रश्नभाष्यटीकाप्रकाशिका

'एवमाढ्यस्य कथं नाम सम्भवति' इत्यत्र एवमेषोऽग्नि- स्तपत्येष सूर्य इत्यादिना बहुमहिमत्वेनोक्तस्यैवाऽऽढ्यस्येत्यर्थः। अभ्यधिका- शङ्काऽपि पृष्टस्यैव पुनः प्रश्न इति भावः ॥ १ ॥

छलारीनारायणाचार्यविरचितंषट्प्रश्नटीकाविवरणम्

॥ प्रागुक्तमिति ॥ प्रथमप्रश्ने रयिप्राणी सृष्ट्वा तद्द्वाराखिल- जगज्जन्मादिकर्तेत्युक्तम्। द्वितीयप्रश्नेऽपि आकाशादिमुख्यप्राणान्तदेवानां विष्णु- सन्निधानेनैव धारकत्वं प्रकाशकत्वं चाभिप्रेतम् । प्रथमत एव विष्णौ प्रजापति- नामोक्त्या प्रजाशब्देन जगतः भगवज्जन्यत्वोक्त्या तस्य स्रष्टृत्वलाभात्पतिशब्देन पालकत्वोक्तेरिति भावः । अत्राश्वलायनेन कृतप्रश्रेषु पूर्वोक्तिं तद्विवरणे बीजञ्च कथयति - स मिथुनमुत्पादयत इत्यादिना | आध्यात्मिकमिति ॥ कथ- मध्यात्ममिति मूले अध्यात्मशब्दस्य शरीरवाचकत्वादुत्तरत्र शरीरावयवानां कथनादत्राप्यध्यात्मशब्दात्तदेव गृह्यत इति भावः ॥ ३-१ ॥

ताम्रपर्णीश्रीनिवासाचार्यविरचिताषट्प्रश्रभाष्यटीकाटिप्पणी

॥ एवमाढ्यस्येति ॥ द्वितीयप्रश्नोक्तरीत्या गुणाढ्यस्येत्यर्थः । तदुक्तं न्यायविवरणे-

'यत्प्राप्तिर्यत्परित्याग उत्पातर्मरणं तथा ।

तस्योत्पत्तिर्मृतिश्चैव कथं प्राणस्य युज्यते '

इत्यादि माहात्म्यवचनान्मुख्यप्राणस्योत्पत्तिरिति । इत्यभिप्राय इति ॥ तेन न सिद्धार्थत्वं प्रश्नस्येति भावः । 'समवप्रविभ्यः स्थः' इति नियमा- त्प्रतिपूर्वस्य स्थाधातोः आत्मनेपदाप्रसक्तेराह - प्रतिष्ठते प्रतितिष्ठतीति ॥ आत्मनेपदं छान्दसमिति भावः ।

मङ्कालीधर्मराजाचार्यविरचिताषट्प्रश्नभाष्यटीकाटिप्पणी

॥ अथ हैनं कौसल्यः ॥ प्रागुक्तमिति ॥ प्रथमप्र प्रजापतिनामा परमेश्वरो रविप्राणी सृष्ट्रा तद्द्वाराऽखिलजगज्जन्मादिकर्तेत्युक्तम् । द्वितीयप्रश्नेऽपि आकाशादिमुख्यप्राणान्तदेवानां विष्णुसन्निधानेनैव धारकत्वं प्रकाशकत्वञ्चाभिप्रेतम् । प्रथमत एव विष्णोः प्रजापतिनामोक्त्या प्रजाशब्देन जगतो भगवज्जन्मोक्त्या तस्य स्रष्टृत्वं लब्धम् । पतिशब्देन पालकत्वञ्चेति भावः। आश्वलायनेन कृतप्रश्नेषु प्रथमः प्रश्नः सिद्धार्थ इत्याशङ्कय परिहरति- समिथुनमुत्पादयत इत्यादिना ॥ एवमाढ्यस्येति ॥ द्वितीयप्रश्नोक्तप्रकारेण महानुभावस्येत्यर्थः॥ इत्यभिप्राय इति ॥ तेन सिद्धार्थत्वं प्रश्नस्य नेत्युक्तं भवति । कथमित्यस्य कस्मात्कारणादिति व्याख्या । 'समविप्रविभ्यः स्थः ' इति नियमात् प्रतिपूर्वस्थाधातोरात्मनेपदाप्रसक्तेराह - प्रतिष्ठते प्रतितिष्ठतीति ॥ आत्मनेपदं छान्दसमिति भावः । परिहारानुसारेण प्रश्नतात्पर्यमाह- के ते विभागा इत्यादिना ॥ अधिभूतादिकमित्यत्रादिपदेनाधिदैवं ग्राह्यम्॥ ३-१ ॥

अनन्तभट्टविरचिताषट्प्रश्नभाष्यटीकाटिप्पणी

|| अथ हैनं कौसल्यः ।। अत्र परिहारवाक्यानुसारेण प्रश्न- वाक्यतात्पर्यं कथितमनुसन्धेयम् ॥ एवमाढ्यस्येति ॥ द्वितीयखण्ड-प्रति- पादितसकलगुणपूर्णस्येत्यर्थः ॥ ३-१ ॥

श्रीराघवेन्द्रयतिविरचितषट्प्रश्नोपनिषत्खण्डार्थः

|| अथ हैनं कौसल्यः ॥ प्रागुक्तं परमेश्वरोऽखिल- जगज्जन्मादिकर्तेत्यादि। तद्विवरणार्थोऽयमुत्तरो ग्रन्थः । भगवन्, कुतः कस्मा- त्पुरुषादेवमुक्तलक्षणः प्राणो जायते । स मिथुनमुत्पादयते रविश्च प्राणञ्चेत्युक्तमपि परमेश्वराज्जन्मैवमाढ्यस्य कथं सम्भवतीत्यभिप्रायः । अहमेवैतत्पञ्चधाऽऽत्मानं प्रविभज्यैतद्वाणमवष्टभ्य विधारयामीत्युक्तम् । तत्र कथं कस्मात् कारणादस्मिन् शरीरे प्राण आयाति प्रवर्तते । आत्मानं प्रविभज्य कथं प्रतिष्ठते प्रतितिष्ठति । ते विभागाः? तैश्च किं कुर्वन् कुत्र स्थानविशेषे तिष्ठतीति यावत् । तस्मिन्नुत्क्रान्ते सर्वेऽप्युत्क्रान्ता इत्युक्तम् । तत्र केन प्रविभागेन जीवादीनादायोत्क्रामति ? 'प्राणस्यैतद्वशे सर्वं त्रिदिवे यत् प्रतिष्ठितम्' इत्युक्तम् । तत्र कथं केन रूपेण बाह्यमधिभूतादिकमभिधत्ते धारयति? कथञ्चाध्यात्ममभिधत्ते? ॥ ३-१ ॥

नरसिंहभिक्षुविरचिताषट्प्रश्नार्थप्रकाशिका

तृतीयप्रश्नप्रतिवचनमारभते - अथेति ॥ प्रागुक्तं परमेश्वरोऽखिलजग- ज्जन्मादिकर्तेति तदेव विवृणोति - अथेति ॥ भगवन् कुतः कस्मात्पुरुषादेष उक्तलक्षणः प्राणः जायते। यद्यपि भगवदुत्पन्नत्वमुक्तं तथाप्येवमाढ्यस्य कथं घटत इत्याशयः। प्राणस्य शरीरप्रवर्तकत्वमुक्तम् । तत्र कथं प्रतिष्ठते प्रतितिष्ठति । कति विभागाः । तैश्च किं कुर्वन् कुत्र स्थानविशेषे तिष्ठति । केन विभागेन जीवादीनादायोत्क्रामति। कथं केन रूपेण बाह्यमधिभूतादिकमभिधत्ते धारयति । केन रूपेणाध्यात्मं धारयति ॥ ३१ ॥

उदयगिरिकेशवाचार्यविरचिताषट्प्रश्नपञ्चिका

एवं सकलजीवजडात्मकप्रपञ्चस्य उत्पत्तिस्थितिकर्तृत्वं परमेश्वरस्य भगवत एव घटते नान्यस्येति परमकारुणिकेन गुरुणा उक्ते एवंविधमहिम्नो सकलजीवोत्तमस्य मुख्यवायोः वासुदेवात्मकश्रीनृहरेः सकाशाज्जनिर्घटत इति अभिप्रायेण कौसल्य आश्वलायनः प्रश्नयतीत्याह वेदपुरुषः- अथ हेत्यादिना ।। अथ तत्प्रश्नप्रतिवचनानन्तरं ह साकल्येन तच्छ्रुत्वेत्यर्थः । एनं निकटवर्तिनं गुरुं कौसल्य आश्वलायनश्च पप्रच्छ प्रश्नं कृतवान् । हे भगवन् पूज्य । एषः पूर्वोक्तगुणविशिष्टो प्राणो मुख्यः । कुतः कस्मात् पुरुषात् जायते उत्पन्नो भवति। यद्यपि स मिथुनमुत्पादयतीत्यादिना भगवत्सकाशादुत्पत्तिरुक्ता तथाप्येवंविध- वीर्यस्य उत्पत्तिरेव कथं घटत इत्यभिप्रायः । 'अहमेव एतच्छरीरं धारयामि' इत्युक्तम् । तत्र पृच्छति - कथमायातीति ॥ कथं कस्मात् कारणात् अस्मिन् शरीरे प्राण आयाति प्रवर्तते । किञ्च, आत्मानं स्वरूपम् । प्रविभज्य प्रविभागं कृत्वा । कथं वा प्रतिष्ठते । प्रतिष्ठति । ते च प्रविभागाः के? तैश्च किं कुर्वन् कुत्र स्थानविशेषे तिष्ठतीत्यर्थः। प्राणोत्क्रमणेन सर्वदेवोत्क्रमणमुक्तम्। तच्च केन विभागेन जीवमादाय उत्क्रमते उत्क्रामति । सर्वेषां प्राणवशत्वमुक्तम्। तच्च कथं रूपेण बाह्यमधिभूतमभिधत्ते धारयति। कथञ्च केन रूपेण अध्यात्ममभिधत्ते । इमे मत्कृताः प्रश्नाः त्वया वक्तव्याः ॥ ३-१ ॥